फिफा विश्वचषकः।
अर्जन्टीना चतुर्थांशे। 
विजेतुः अर्जन्टीनासंघस्य आह्लादः।
यू एस्> लक्ष्यद्वयस्य पृष्ठतः स्थित्वा पराजयमभिमुखीकृत्य केवलं १५ निमेषाभ्यन्तरे लक्ष्यत्रयं प्रतिसमर्प्य अर्जन्टीनायाः ईजिप्तं विरुध्य अविश्वसनीय विजयः। अनेन विजयेन वर्तमानीनवीरः अर्जन्टीनागणः चतुर्थांशं प्राविशत्।
७९ तमे निमिषे क्रिस्ट्यन् रोमेरा, ८३ तमे निमिषे लयोणल् मेसी, ९०+३ तमे निमिषे एन्सो फेर्णाटस् च अर्जन्टीनायै लक्ष्याणि सम्पादितवन्तौ। १५ तमे निमिषे यासर् इब्राहिमः, ६७ तमे निमिषे मुस्तफा सीको च ईजिप्तस्य लक्ष्यसम्पादकौ।
अस्मिन् विश्वचषके मेसेः अष्टमं लक्ष्यं, विश्वचषके आहत्य २१ तमं लक्ष्यं चास्ति ह्यः मेसीवर्येण सम्पादितम्।