OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 9, 2026

 श्रीलङ्कायां कारागृहे संघर्षः - २७ मरणानि। 
कारागारात् बहिः दौत्यसंघस्य विन्यासः। 

कोलम्बो> श्रीलङ्कायाः समुद्रतीरनगरे नेगुम्बो इत्यत्र कारागृहे अपराधिनः संघकाः भूत्वा  परस्परं संघर्षमकुर्वन्। २७ जनाः मृताः। शताधिके आहताः। रविवासरे आरब्धः संघर्षः परेद्युरपि अनुवृत्तः। आरक्षकाधिकारिणां भुषुण्डीन् अपहृत्य प्रयुक्तवन्तः इति सूच्यते। 

  कारागारे उन्मादकवस्तूनाम् आनयनम् अनुकूलयन्तः प्रतिकूलयन्तः च आसन्, तयोः मिथः आसीत् संघट्टनम्। संघर्षावस्थां नियन्त्रयितुं सविशेषकर्मसेना प्रशासनेन नियुक्ता। संघट्टने अन्तर्भूतः कश्चन विभागः कारागारान्तरं प्रवेशिताः। ७०० कारागृहवासिनः ततः अपसृताः इति अधिकृतैरुक्तम्।