OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 8, 2026

 अयोध्यामन्दिरपरिपालनन्यासस्य

आयः ३२४६ कोटिः; व्ययः २३७० कोटिः।


नवदिल्ली> अयोध्या श्रीरामजन्मभूमि तीर्थमन्दिरपरिपालनन्यासस्य आयव्ययविवरणानि प्रकाशितानि। न्यासस्य कोशाध्यक्षेन प्रकाशितं विवरणमनुसृत्य न्यासरूपीकरणवर्षात् २०२० तमात् आरभ्य अद्यावधि ३२६४ कोटिरूप्यकाणि लब्धानि। मन्दिरनिर्माणाय अनुबन्धप्रवर्तनेभ्यश्च २,३७० रूप्यकाणि विनियुक्तानि। समर्पणरूपेण लब्धानि सुवर्णोपेतानि ३० किलोमितानि वस्तूनि, रजतयुक्तानि १५१८ संख्यकानि वस्तूनि, अमूल्यानि इतरसमर्पितानि च न्यासस्य सकाशे वर्तन्ते इति कोशाध्यक्षः गोविन्द देव गिरिः न्यगादीत्। तेन निगदितं यत् सर्वाणि वस्तूनि सुरक्षितानि सन्ति। तेषां प्रमाणपत्राणि न्यासाधिष्ठितानि सन्ति। 

एस् ऐ टि अन्वेषणमनुवर्तते। 

  एतदाभ्यन्तरे  विविधकार्यक्रमेभ्यः मन्दिरे व्ययीकृतानां १२४ कोटि रूप्यकाणां व्ययसम्बन्धगणना च सविशेषान्वेषणसंघेन आरब्धा। २०२४ जनवरिमासे सम्पन्नः प्रतिष्ठाकार्यक्रमः, महाकुम्भमेलायै कृतं सज्जीकरणं, २०२५ तमवर्षस्य ध्वजारोहणम् इत्यादीनां व्ययगणनमेव परिशोधयति। प्रतिष्ठाकार्यक्रमाय एव ११३ कोटि रूप्यकाणि व्ययीकृतानीति न्यासस्य गणना।