OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 9, 2026

 पश्चिमेष्यायां पुनरपि संघर्षः। 

यू एस् आक्रमणे ८ इरानीयसैनिकाः हताः। 

बहरिने कुवैटे च इरानस्य प्रत्याक्रमणम्। 

टेहरानः> मासचतष्टयात्पूर्वं यू एस्-इस्रेलयोः आक्रमणे हतस्य इरानस्य परमोच्चात्मीयनेतुः आयत्तुल्ला खमीनेः अन्त्यकर्मसु अनुवर्तमानेषु पश्चिमेष्या पुनरपि यू एस् - इरानयोः आक्रमणप्रत्याक्रमणैः कलुषिता जाता। 

  होर्मुस् सामुद्रधुन्यां तिस्रः पण्यमहानौकाः इरानेन आक्रान्ताः इत्यारोप्य इरानस्य उपाशीतिषु सेनाशिबिरेषु यू एस् सेना व्योमाक्रमणमकरोत्। अष्ट इरानीयसैनिकाः मृताः। 

   प्रतिक्रियारूपेण बहरिने कुवैटे च वर्तमानानि यू एसस्य सैनिकशिबिराणि विरुध्य इरान अपि आग्नेयास्त्राणि ड्रोण् आयुधानि च उपयुज्य आक्रमणमकरोत्। 

  युद्धपरिसमाप्त्यर्थं इरानेन सह प्रकल्पितं अल्पकालीनसन्धिपत्रं निरस्तमिति डोनाल्ड ट्रम्पेन प्रोक्तम्। तैलादीनां विक्रयणाय इरानाय परिकल्पितम् उपरोधलाघवं यू एसेन प्रत्याहृतम्। अतः भौगोलिकस्तरे तैलेन्धनमूल्यं वर्धितम्। अंशकविपण्यां तु मूल्यानि आपतितानि च।