OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 9, 2026

 बदरीनाथमन्दिरे अपि समर्पितधनेषु दुर्विनियोगः।

एकस्य वृत्तिनिरोधः। 

बदरीनाथमन्दिरम्।

डराडूणः> अयोध्यामन्दिरमनुगम्य उत्तरखण्डस्थे बदरीनाथमन्दिरे अपि समर्पितधनेषु दुर्विनियोगः आरोप्यते। आरोपणे चतुरङगोपेतायाः समित्याः अन्वेषणम् आरब्धम्। घटनां पुरस्कृत्य मन्दिरसमित्याः निजीयनिर्वाहकसहायी [Private Secretary] मन्दिरोपसेवकः प्रमोद नौट्याली नामकः मन्दिरकार्यात् निरुद्धः [suspended]। बदरीनाथ-केदारनाथमन्दिरसमित्याः वरिष्ठसदस्योपेतया समित्या मन्दिरे प्रथमदृष्ट्या धनविनियोगे दुर्विनियोगः  अभवदिति सूचितमासीत्। अत एव वृत्तिनिरोधः कल्पितः इति समित्याः अध्यक्षः हेमन्त द्विवेदी निगदितवान्। तथा उत्तराखण्डसर्वकारेणापि सदस्यत्रयोपेता अन्वेषणसमितिः नियुक्ता। १५ दिनाभ्यन्तरे समित्या स्वनिगमनं समर्पणीयम्।