हूतयः मक्कानगरम् आक्रमणलक्ष्यमकरोत् - सौदी।
निषिध्य हूतयः।
रियादः> इस्लामधर्मविश्वासिनां विशुद्धनगरं मक्कां प्रति यमनस्थाः हूतयः ड्रोणाक्रमणाय प्रयतितवन्त इति सौदी अरेबियया आरोपितम्। मंगलवासरे सायं दक्षिणतः आगतं ड्रोणायुधं मक्कायाः व्योममण्डलप्रवेशात् पूर्वमेव प्रतिरोधसंविधानेन भञ्जितमिति सौद्याः नेतृत्वे वर्तमानस्य सख्यबलस्य वक्ता मेजर् जनरल् तुर्की अल् मालिकी न्यगादीत्।
किन्तु आरोपणमिदं व्याजमिति हूतिभिः निरस्तम्। मक्कां वा इतराणि इस्लामिकविशुद्धकेन्द्राणि वा न लक्ष्यीकृतानीति तैः निगदितम्।