OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 23, 2026

 केरलस्य नूतनः राज्यपालः संप्राप्तवान्। 

स्थानारोहणम् अद्य। 

ओ पि माथुरवर्यं मुख्यमन्त्री वी डी सतीशः स्वी करोति। 

अनन्तपुरी> राज्यस्य नूतनराज्यपालरूपेण ओं प्रकाश माथुरः शुक्रवासरे मध्याह्ने शपथवाचनं कृत्वा कार्यभारं स्वीकरिष्यति। सः ह्यः सायं ६.४५ वादने अनन्तपुरीं संप्राप्तवान्। केरलस्य २९ तमः राज्यपालो भवति ओ पि माथुरः।

  अनन्तपुरी अन्ताराष्ट्रिय विमाननिलयं प्राप्तं नूतनराज्यपालं स्वीकर्तुं  मुख्यमन्त्री वी डी सतीशः, गृहमन्त्री रमेश चेन्नित्तला, सभापतिः तिरुवञ्चियूर् राधाकृष्णः, अनन्तपुरी महानगराध्यक्षः वि वि राजेषः इत्यादयः सन्निहिताः आसन्। 

  अद्य लोकभवने सम्पद्यमाने प्रौढगम्भीरे कार्यक्रमे केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः न्याया.  सौमन सेनः शपथवाचनं कारयिष्यति।