तान्त्रिकवृत्तेः लक्ष्यं समाजक्षेमं भवेत् - अक्कीरमण् कालिदास भट्टतिरिः।
विद्वत्सभायाः उद्घाटनं कुर्वन् अक्कीरमण् कालिदासः प्रभाषते।
आलुवा> मन्दिरेषु इतराध्यात्मिकक्षेत्रेषु वा क्रियमाणाः तान्त्रिकवृत्तयः समाजक्षेममालक्ष्य भवितव्याः इति दक्षिणभारते प्रसिद्धः तान्त्रिकाचार्यः एवं केरल योगक्षेमसभायाः भूतपूर्वः अध्यक्षः ब्रह्मश्री अक्कीरमण् कालिदास भट्टतिरिः अवोचत्। आलुवा तन्त्रविद्यापीठे आचार्यस्मृतिदिनमनुबन्ध्य 'तान्त्रिकमण्डलाय किमपि नीतिप्रारूपम्' इति शीर्षके आयोजितं विद्वत्संवादम् उद्घाटनं कुर्वन् भाषमाणः आसीत् कालिदासवर्यः। समाजे सामान्येन, विशिष्य हैन्दवसमाजे जायमानानां आध्यात्मिक-धार्मिकापचयानां परिहाराय तन्त्रिमण्डलस्य कर्तव्यम् अनुपममिति सः स्मारयामास। अतः सामाजिकप्रबुद्धता न विस्मर्तव्या इति सः निरदिशत्।
तन्त्रविद्यापीठस्य कुलपतिः ब्रह्मश्री मण्णारशाला सुब्रह्मण्यन् नम्पूतिरिः दीपप्रोज्वलं कृत्वा विद्वत्सभायाः शुभारम्भमकरोत्। तन्त्रविद्यापीठस्य पूर्वछात्रसमित्याः अध्यक्षः कल्पुष़ा कृष्णन् नम्पूतिरिः अध्यक्षपदमलङ्कृतवान्। तन्त्रशास्त्र-ज्योतिष-वास्तुशास्त्र-अर्चकसमितिमण्डलेषु परिणतप्रज्ञाः विषयकुशलाः विद्वत्सभायां भागं गृहीत्वा स्वमतानि प्रकटितवन्तः। विद्यापीठस्य उपप्राचार्यः चेङ्ङोत्त् श्रीनिवासः सभासंचालकः आसीत्। विद्यापीठस्य प्राचार्यः पि बालकृष्ण भट्टः स्वागतं व्याजहार।