OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 15, 2025

 नेपाले मार्च् ५ तमे सार्वजनिकनिर्वाचनम्। 

काठ्मण्डुः> सामाजिकमाध्यमनिरोधनेन जाते प्रक्षोभझंझावाते के पि शर्मा ओली सर्वकारस्य उन्मूलनमापन्ने नेपालराष्ट्रे २०२६ मार्च् पञ्चमदिनाङ्के    सार्वजनीननिर्वाचनं विधास्यति। राष्ट्रपतेः रामचन्द्र पौडेलस्य कार्यालयेन निगदितमिदम्। 

  निर्वाचनस्य कार्यकर्तृत्वमावहितुं राष्ट्रे शान्तिपुनःसंस्थापयितुं  च भूतपूर्वमुख्यन्यायाधिपायाः सुशीलाकर्क्याः नेतृत्वे अल्पकालीनसर्वकारः शुक्रवासरे शपथवाचनं करोति स्म।

 एष्या चषक क्रिकट् 

पाकिस्थानं विरुध्य भारतस्य उज्वलविजयः। 

कुलदीपयादवः - ३ द्वारकाणि, ४७*, श्रेष्ठक्रीडकः। 


दुबाय्> अत्रस्थे अन्तर्देशीयक्रीडाङ्कणे सम्पन्ने भारत-पाकिस्थानयोः क्रिकट्प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। पाकिस्थानं सप्त द्वारकैः पराजयत। 

  प्रथमं कन्दुकताडनं कृतवन्तं पाकिस्थानगणं २० क्षेपणचक्रेषु ९ ताडकान् बहिर्नीत्वा १२७ धावनाङ्कैः भारतगणं बबन्ध। प्रत्युत्तरताडने १५.५ क्षेपणचक्रेषु केवलं त्रयाणां द्वारकाणां विनष्टे १३१ धावनाङ्कान् प्राप। 

  भारताय 'स्पिन्'क्रीडकः नायकः च कुलदीप यादवः त्रीणि द्वारकाणि सम्प्राप्तवान्। सः अबाह्यः सन् ४७ धावनाङ्कान् सम्प्राप्य श्रेष्ठक्रीडकपदमपि अवाप। अनेन विजयेन त्रीन् विजयानवाप्य भारतम् ए नामके स्वकीये संघे  प्रथमगणनीयतामवाप।


 मणिपुरे पुनरपि संघर्षः।

इम्फालः> प्रधानमन्त्री नरेन्द्रमोदी मणिपुरराज्यं सन्दर्श्य यदा  निवृत्तवान् तदनन्तरं चुराचन्दपुरे पुनः संघर्षः आपन्नः। प्रधानमन्त्रिणः सन्दर्शनवेलायां ये  अलङ्करणवस्तूनि विनाशितवन्तः ते निगृहीताः आसन्। एतत् विरुध्य सुरक्षासेनां प्रति पाषाणखण्डविक्षेपः जातः।

 केरले विधानसभासम्मेलनम् अद्य आरभ्यते। 


अनन्तपुरी> केरलस्य १४ तमविधानसभायाः १५तमं सम्मेलनं सोमवासरे आरभ्यते। १७ विधेयकानि परिगणनार्हाणि सन्ति। तेषु आक्रमणकारिणां वन्यजीविनां वधसम्बन्धविधेयकं प्राधान्यमर्हति। एतदभिव्याप्य त्रीणां विधेयकानां नियमपरिरक्षणाय राष्ट्रपतेः अनुज्ञा आवश्यकी। 

  सम्मेलनस्य त्रीणि सोपानानि भविष्यन्ति। प्रथमसोपानं १५ तमदिनाङ्कतः १९ पर्यन्तं भविष्यति। २९, ३० दिनाङ्कयोः द्वितीयं, ओक्टोबर् ६ - १० तृतीयं च।

Sunday, September 14, 2025

 मणिपुरे प्रशान्तिं पुनःस्थापयिष्यति - प्रधानमन्त्री। 


चुरा चन्दपुरं> मणिपुरराज्ये विनष्टां  शान्तिं पुनःसंस्थायितुं यतिष्यते इति  प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान्। केन्द्रप्रशासनं मणिपुरेण सह वर्तते इति प्रधानमन्त्रिणा उक्तम्। 

  ह्यः चुरा चन्दपुरे ७३०० कोटिरूप्यकाणां विकसनभण्डागारस्य उद्घाटनं कृत्वा अनन्तरं जनान् प्रति भाषितवान् प्रधानमन्त्री मणिपुरं शान्तेः समृद्धेः च प्रतीकं करिष्यतीति उक्तवान्। राज्यात् ये निष्कासिताः तेषां पुनरधिवासाय ७००० वासगृहाणि निर्मास्यन्ति। तदर्थं ३००० कोटिरूप्यकाणाम् अभियोजना उद्घोषिता आसीत्। सविशेषसाहाय्यार्थं ५०० कोटिरूप्यकाणां परियोजना अपि विज्ञापिता। 

  अतिवृष्टिकारणेन इम्फालतः वीथीद्वारा एव प्रधानमन्त्री चुराचन्दपुरं प्राप्तवान्। राज्यपालः अजयकुमार भल्ला इत्यादयः कार्यक्रमे भागं गृहीतवन्तः। इम्फाले १२०० कोटि रूप्यकाणां १७ परियोजनाः अपि प्रधानमन्त्रिणा विज्ञापिता। २०२३ मेय् मासे वंशीयकलहारम्भात् परं प्रथमतया एव प्रधानमन्त्री नरेन्द्रमोदी मणिपुरं प्राप्तवान्।

 गणेशमूर्तिघोषयात्रां प्रति 'ट्रक् यानं' संघट्य नव मरणानि। 

दुर्घटनादृश्यम्। 

हासन्> कर्णाटके गणेशमूर्ति निमज्जन घोषयात्रां प्रति अमितशीघ्रेण आगतं ट्रक् यानं संघट्य नव जनाः मृताः। विंशत्यधिके कठिनतया व्रणिताः। 

  गतरात्रौ होले नरसिंहपुरमित्यत्र होसहल्लीस्थाने आसीदियं दुर्घटना। व्रणिताः हासने विविधान् आतुरालयान् प्रवेशिताः। ट्रक् यानस्य अमितशीघ्रता एव दुरन्तकारणमिति सूच्यते। दुर्घटनानन्तरं चालकः पलायितवान्।

प्रगत्यर्थं शान्तिरावश्यकी मणिपूरस्य सौन्दर्यं हिंसया दूषितम्। - नरेन्द्रमोदी

   प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् कस्यापि क्षेत्रस्य समुन्नत्यै शान्तिपूर्णं वातावरणम् अत्यावश्यकं वर्तते। तेनोदितं यद् विगतकाले मणिपूरराज्ये प्रवृत्ता हिंसाचाराः राष्ट्रस्य कृते महतीं चिन्ताम् अजनयन्। एभिः सङ्घर्षैः न केवलं जनजीवनम् अस्तव्यस्तम् अभवत् अपितु तस्य प्रदेशस्य नैसर्गिकं सांस्कृतिकं च वैभवं कलङ्कितं जातम्। अतः शान्तेः पुनःस्थापनाय सर्वे नागरिकाः समेत्य प्रयतेरन्निति प्रधानमन्त्रिणा समाहूतम्। केन्द्रशासनमपि राज्ये सौहार्दपुनर्निर्माणाय सर्वथा प्रतिबद्धमस्तीति तेन दृढीकृतम्॥

Saturday, September 13, 2025

 प्रधानमन्त्री अद्य मणिपुरे।


नवदिल्ली> वंशीयकलहेन कलुषितं मणिप्पुरं राज्यं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे सम्पश्यति। भूरिशः  कुक्की समुदायांगैः अधिवसन्तं चुराचन्दपुरम्, इम्फाल इत्येतेषु प्रदेशेषु कतिपयकार्यक्रमेषु प्रधानमन्त्री भागं करिष्यति।

  २०२३ मेय् मासे प्रक्षोभमारभ्य ८६४ दिनानन्तरमेव प्रधानमन्त्री मणिप्पुरं प्राप्नोति। चुराचन्दपुरे होर्टोक्की-तैरङ्ग रेल् मार्गं सः उद्घाटनं करिष्यति। ७३०० कोटि रूप्यकाणां विकसनाभियोजनानां शिलान्यास अपि तेन करिष्यते।

 'जेन् सी' प्रक्षोभः - ५१ जनाः हताः ।

एकः भारतीयः। 

नेपालं शान्तिमुपगच्छति।

काठ्मण्डुः> युवजनानां प्रक्षोभेण कलुषितः  नेपालदेशः क्रमेण शान्तिमुपगच्छति। दिनद्वयेन अक्रमघटनाः न वृत्तान्तीकृताः। किन्तु सेनया विधत्तं 'कर्फ्यू' नामकनियन्त्रणम् अनुवर्तते। 

  प्रत्युत, अद्यावधि अक्रमघटनासु एकं भारतीयं,  त्रीन् रक्षिपुरुषान् चाभिव्याप्य ५१ जनाः हताः इति आधिकारिकतया स्थिरीकृतम्। विशदांशाः न लब्धाः। वृत्तान्तप्रसारणे अपि  नियन्त्रणं वर्तते इति सूच्यते।

 सुशीला कर्की नेपालस्य ह्रस्वकालीनप्रधानमन्त्री।

राष्ट्रस्य प्रथमा महिलाप्रधानमन्त्री।

सुशीला कर्की राष्ट्रपतेः रामचन्द्र पौडेनस्य पुरतः शपथवाचनं करोति। 

काठ्मण्डुः> युवजनानां प्रक्षोभकारणात् प्रधानमन्त्री के पी शर्मा ओली इत्यस्य स्थानभ्रष्टेन नेपालदेशे सञ्जातस्य राजनैतिकानिश्चितत्वस्य अल्पकालीनविरामः। ह्रस्वकालीनप्रधानमन्त्रिरूपेण नेपालस्य  सर्वोच्चन्यायालयस्य भूतपूर्वीया मुख्यन्यायाधिपा सुशीला कर्कीवर्या [७३] शपथवाचनं कृतवती। शुक्रवासरे रात्रौ नववादने आसीत् कार्यक्रमः। नेपालस्य प्रप्रथमा महिलाप्रधानमन्त्री अस्ति सुशीला कर्कीवर्या।

  सामाजिकमाध्यमानां निरोधः, भ्रष्टाचारः, स्वजनपक्षपातित्वम् इत्यादीनि विरुध्य 'जेन् सी' नामकप्रक्षोभकाणां सम्मर्देन प्रधानमन्त्री के पी ओली शर्मा स्थानभ्रष्टः अभवत्। [१९९७ तमवर्षस्य २०१२ तम वर्षस्य चाभ्यन्तरे लब्धजन्मनां संघटनमस्ति 'जेन् सी'।] ततः सेनाधिकारिणः राष्ट्रपतिः रामचन्द्र पौडेनः इत्यादिभिः सह प्रक्षोभकारिणां प्रतिनिधिभिः कृतायाः चर्चायाः परिणामो भवति सुशीलावर्यायाः शपथवाचनम्। नेपालस्य प्रथमा महिला सर्वोच्चमुख्यन्यायाधिपा तथा  प्रथमा महिलाप्रधानमन्त्री च भवति सुशीला कर्कीवर्या।

 सि पि राधाकृष्णः शपथवाचनमकरोत्। 

नवदिल्ली> भारतस्य १५ तमोपराष्ट्रपतिरूपेण सि पि राधाकृष्णः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः पुरतः शपथवाचनमकरोत्। प्रधानमन्त्री नरेन्द्रमोदी इतरे मन्त्रिणः नेतारश्च कार्यक्रमेSस्मिन् भागमकुर्वन्। भूतपूर्वः उपराष्ट्रपतिः जगदीपधन्करश्च सन्निहित आसीत्।

Friday, September 12, 2025

 सि पि राधाकृष्णः अद्य शपथवाचनं करोति। 

नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः। 

नवदिल्ली> नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः  भारतस्य १५ तमः उपराष्ट्रपतिः इति रूपेण शपथवाचनं करोति। अद्य प्रभाते दशवादने राष्ट्रपतिभवने आयोज्यमाने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू प्रतिज्ञावाचनं कारयिष्यति। 

  तमिलनाडु राज्यीयः सि पि राधाकृष्णः  ततः उपराष्ट्रपतिरूपेण चितानां मध्ये तृतीयो देशस्नेही भवति। तमिलनाटे भाजपादलस्य वरिष्ठसेवार्थी इति प्रवर्तितः सः २०२४ तमे वर्षे महाराष्ट्रस्य राज्यपालत्वेन नियुक्तवानासीत्।  गतदिने सः तत्स्थानस्य परित्यागं कृतवान्।  

  जुलाई २१ तमे दिनाङ्के जगदीप धन्करः उपराष्ट्रपतिपदं त्यक्तवान् इत्यतः नूतनोपराष्ट्रपतिनिर्वाचनम् आवश्यकमभवत्।

Latest news


Thursday, September 11, 2025

 पालियेक्करा वीथीशुल्कनिरोधः दीर्घितः। 

पालयेक्करा वीथीशुल्कसंग्रहणकेन्द्रम्। 

कोच्ची> केरले राष्ट्रियमार्गे - NH 544 - पालियेक्करा इत्यत्र उच्चन्यायालयेन विहितः वीथीशुल्कनिरोधः सेप्टम्बर् १५ तम दिनाङ्कपर्यन्तं दीर्घितः। 

  तात्कालिकसेवामार्गस्य न्यूनतापरिहारकर्णाणि समुचितरीत्या पूर्तीकर्तुं देशीय राष्ट्रियमार्गाधिकरणसंस्था [NHAI] निर्दिष्टा इति जनपदाधिकारी अर्जुन पाण्ड्यः न्यायालयं निगदितवान्। केन्द्रसर्वकाराय सोलिसिटर् जनरल् पदीयः ए आर् एल् सुन्दरेशः समुपस्थितः आसीत्।

 नेपाले प्रशासनविरुद्धप्रक्षोभः तीव्रः।

राष्ट्रपतिः, प्रधानमन्त्री, इतरे मन्त्रिणश्च स्थानत्यागं कृतवन्तः।

नेपालेयुवकप्रक्षोभस्य दृश्यम्। 

'जेन् सी' आन्दोलनमनुवर्तते। 

काठ्मण्डुः> नेपालराष्ट्रे सामाजिकमाध्यमानां निरोधात् गतशुक्रवासरे आरब्धः  युवजनानां छात्राणां च प्रक्षोभः दिनद्वयेन सीमामुल्लङ्घितः। आराष्ट्रं प्रक्षोभकारिणः अक्रमासक्ताः अभवन्। प्रधानमन्त्री के पि शर्मा ओली स्थानमत्यजत्। दिनद्वयानन्तरं राष्ट्रपतिः रामचन्द्रपौधेनः त्यागपत्रं समर्पितवान्। इतरे मन्त्रिणोSपि प्रभोक्षसम्मर्देन स्थानं त्यक्तवन्तः। आराष्ट्रम् अरक्षितावस्था वर्तते। प्रशासननियन्त्रणं सैन्येन स्वीकृतमिति सूच्यते। 

  कतिपयमासेभ्यः पूर्वं नेपालप्रशासनस्य अत्याचारमधिकृत्य युवजनैः  फेस् बुक्, इन्स्टग्रामः, वाट्स् आप् इत्यादिसमाजिकमाध्यमद्वारा प्रतिषेधचर्चाः, बोधवत्करणमित्यादीनि आरब्धानि। प्रशासनं विरुध्य जनानां प्रतिषेधे शक्ते जाते सर्वकारेण २६ सामाजिकमाध्यमाः निरुद्धाः। युवकानां प्रक्षोभः 'जेन् सी' [Gen Z] आन्दोलनमिति व्यवहृतः। आक्रमणे कलहे च १९ जनाः हताः; ३४५ जनाः आहताः इति सेनाधिकारिभिः सूचितम्। 

  अतीते सोमवासरे सामाजिकमाध्यमनिरोधः अपसृतः अपि युवजनप्रक्षोभः अनुवर्तमानः अस्ति। राष्ट्रे विद्यमानाः भ्रष्टाचाराः, कर्माभावः, दारिद्र्यावस्था इत्येते उन्मूलनीयाः इत्येव युवकानाम् लक्ष्यम्।

Wednesday, September 10, 2025

 एष्याचषकहोकी - भारतमजय्यं; किरीटप्राप्तिः। 

भारतदलस्य आह्लादः। 

+ विश्वचषकस्पर्धां प्रति योग्यताप्राप्तिः। 

+ दिल्प्रीत सिंहस्य युगलक्ष्यकन्दुकप्राप्तिः। 

राजगिरिः> होक्कीस्पर्धायां भारतमजय्यमिति एकवारमपि प्रमाणीकृत्य बिहारे राजगिरौ सम्पन्नायां एष्याचषकयष्टिक्रीडावीरतास्पर्धायां भारतस्य किरीटोपलब्धिः। अत्यन्तमुत्साहभरिते अन्तिमप्रतिद्वन्द्वे ४ - १ इति लक्ष्यकन्दुकक्रमेण दक्षिणकोरियां पराजयत। अनेन एष्याचषकविजयेन भारतं आगामिवत्सरे सम्पत्स्यमाने पुरुषाणां विश्वचषकप्रतिद्वन्द्वे क्रीडितुं योगतामवाप। 

  अष्ट संवत्सरेभ्यः परमेव एष्याचषके भारतस्य किरीटप्राप्तिः। २८, ५४ निमेषतमे दिल्प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। तमतिरिच्य सुखजीत सिंहः, अमित रोहितदासः च एकैकं लक्ष्यकन्दुकं च सम्प्राप्य भारतस्य अजय्यताम् उद्घोषितवन्तौ। दक्षिणकोरियायाः डेय्न् सणः  लक्ष्यमेकं सम्पाद्य दक्षिणकोरियायै आश्वासं चकार। आहत्य सम्पन्नेषु ६ प्रतिद्वन्देषु एकस्मिन्नपि भारतं पराजयं नानुबभूव। पञ्च विजयाः, एका समस्थितिश्च।

 सि पि राधाकृष्णः भारतस्य १५तमः उपराष्ट्रपतिः।


नवदिल्ली> गतदिने  सम्पन्ने उपराष्ट्रपतिनिर्वाचने एन् डि ए सख्यस्य स्थानाशी सि पि राधाकृष्णः विजयी अभवत्। ७६७ लोकसभा-राज्यसभासदस्याः स्वाभिमतं प्रकटितवन्तः। तेषु ७५२ मतानि साधूनि अभवन्। तत्र ४५२ मतानि राधाकृष्णेन प्राप्तानि। प्रतिद्वन्दी बी सुदर्शन रड्डिः ३०० मतानि प्राप्तवान्। राज्यसभायाः कार्यकर्ताप्रमुखः [Secretary General] निर्वाचनप्रक्रियायाः अधिकारी आसीत्। 

  भारतस्य १५ तमः उपराष्ट्रपतिः सि पि राधाकृष्णः तमिलनाटतः तृतीयः उपराष्ट्रपतिः अस्ति। प्रथमः उपराष्ट्रपतिः डा एस् राधाकृष्णः, द्वितीयः आर् वेङ्किट्टरामश्च। सि पि राधाकृष्णवर्यः तमिलनाटीय भा ज पादलस्य वरिष्ठनेता अस्ति।

Tuesday, September 9, 2025

 उपराष्ट्रपतिनिर्वाचनम् अद्य। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनस्य मतदानप्रक्रिया अद्य प्रातः १० वादनतः ५ वादनपर्यन्तं प्रचलिष्यति। एन् डि ए सख्यस्य स्थानाशिरूपेण सि पि राधाकृष्णः, ऐ एन् डि ऐ ए सख्यस्य स्थानाशिरूपेण न्याया. बि सुदर्शन रड्डिः च शक्तिपरीक्षणे वर्तेते। लोकसभा-राज्यसभयोः सदस्याः उपराष्ट्रपतिनिर्वाचने मतदानं करिष्यन्ति।

 रूसीयविश्वविद्यालयेषु हिन्दी अध्ययनं व्यापकं कारयते।

मोस्को> रष्यादेशे हिन्दीभाषायां व्यापकतया तात्पर्यं वर्धते। अतः विश्वविद्यालयेषु नूतनतया हिन्दी अध्ययनम् आरब्धुं निर्णयः कृत इति रूसीयोन्नतस्तरीयशैक्षिकसहमन्त्री अवदत्। 

   "रष्यायामध्ययनं कुर्वन्तः छात्राः दैनन्दिनजीवने आङ्गलमपेक्षया हिन्दीभाषायै प्रामुख्यं कल्पयन्ति। तथा च रूसीयछात्रेष्वपि हिन्दीतात्पर्यं दृश्यते। अत एव अधिकेषु विश्वविद्यालयेषु हिन्दी अध्यापनस्य निर्णयः कृतः।"- मन्त्रिणा विशदीकृतम्। इदानीं मोस्कोक्षेत्रे केवलं चतुर्षु विश्वविद्यालयेषु हिन्दी अध्ययनं वर्तते।