OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 16, 2025

 केनियायाः भूतपूर्वप्रधानमन्त्री केरले दिवंगतः। 

रयिला अमिलो ओडिंगा।

कूत्ताट्टुकुलं> आयुर्वेदपरिचर्यार्थं केरलं प्राप्तवान् केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री रयिला अमिलो ओडिंगाभिधः [८०] हृदयाघातेन मृतः। एरणाकुलं जनपदे कूत्ताट्टुकुलस्थे श्रीधरीयम् आयुर्वेदचिकित्सालयस्य वासगृहस्याङ्कणे प्रभातपदचलनावसरे सीदन् पतितः आसीत्। 

  चिकित्सार्थं ओक्टोबर् १०तमे सपरिवारं  प्राप्तः ओडिंगवर्यः १७ तमे दिनाङ्के प्रतिनिवर्तयितुम् उत्सुकः आसीत्। रक्तातिसम्मर्दः, प्रमेहः, वृक्करोगः इत्यादिभिः ग्रस्त आसीत् स इति आतुरालयाधिकृतैः निगदितम्। 

  मृतशरीरं कोच्ची अन्ताराष्ट्रविमाननिलयात् सविशेषविमाने केनियां नीतम्। २००८ - '१३ कालखण्डे आसीत् सः प्रधानमन्त्रिपदम् अलङ्कृतवान्।

Wednesday, October 15, 2025

 राष्ट्रपतिः शबरिगिरिं प्राप्स्यति। 

    अनन्तपुरी> भारतराष्ट्रपतिः द्रौपदी मुर्मू २२ तमे दिनाङ्के शबरिगिरौ धर्मशास्तृमन्दिरं सन्द्रक्ष्यति। तद्दिने दर्शनाय सन्निधानं प्राप्तवतां तीर्थाटकानां नियन्त्रणं विधास्यति। 

  मुर्मूवर्या ओक्टोबर् २१ तः २४ दिनाङ्कपर्यन्तं केरले भविष्यति। २२ तमे दिनाङ्के प्रभाते एकादश वादने राष्ट्रपतिः  पम्पां प्राप्स्यति। शास्तृदर्शनविध्यनुसारं गूर्खायाने सन्निधानं गमिष्यति। देवदर्शनानन्तरं त्रिवादने पम्पां प्रतिनिवर्तमाणा मुर्मुवर्या ४. २० वादने अनन्तपुरीं प्रस्थास्यति।

 जम्मु-काश्मीरे भीकरौ व्यापादितौ। 

श्रीनगरं> जम्मु-काश्मीरस्य कुप् वारा जनपदस्थां नियन्त्रणरेखाम् अतिक्रामितुं प्रयततौ द्वौ भीकरौ सुरक्षासेनया व्यापादितौ। 

  सोमवासरे निशीथिन्यां नियन्त्रणरेखायां भारतसेनया विधत्ते मार्गणे सन्दिह्यमाने व्यवहारे दृष्टे सेनया भुषुण्डिप्रयोगः कृतः। अत्रतः महान् आयुधसञ्चयः अपि निगृहीतः।

 भारत-वेस्ट् इन्डीस् निकषपरम्परा भारतेन स्वायत्तीकृता।

द्वितीयस्पर्धायां सप्त द्वारकाणां विजयः। 

परम्परोपलब्धौ भारतगणस्य आह्लादः। 

नवदिल्ली> वेस्ट् इन्डीसं विरुध्य भारतस्य द्वितीयः क्रिकट् निकषप्रतिद्वन्द्वः भारतेन विजितः। स्पर्धायाः पञ्चमदिनेे विजयप्राप्तये ५८ धावनाङ्केषु आवश्यकेषु होराभ्यन्तरे भारतं विजयतीरं प्राप। अनेन परम्परा अपि भारतेन प्राप्ता।

  कुलदीपयादवः श्रेष्ठक्रीडको जातः। रवीन्द्र जडेजा परम्परायाः श्रेष्ठक्रीडकः अभवत्।

  सप्राणं जीवनं प्रति प्रतिनिवर्तनम्। 

सप्राणाः २० इस्रयेलीयबद्धाः  हमासेन विमोचिताः।

इस्रयेनेन १९०० पालस्तीनीयाः मोचिताः। 

डेयर् अल् बला> वर्षद्वयं यावत् दीर्घितायाः आकांक्षायाः प्रतीक्षायाः च विरामं कृत्वा ते स्वेषां प्रियाणां समीपं प्राप्तवन्तः। हमासेन बद्धाः  सप्राणाः २० इस्रयेलीयाः सोमवासरे विमोचिताः। अचिरादेव इस्रयेनेन बद्धान्  १९०० पालस्तीनीयान् वहन्ति बस् यानानि वेस्ट् बान्क् इत्यत्र प्राप्तानीति हमासेन स्थिरीकृतम्। अनेन गासायां  शान्तेः वातावरणमजायत। 

  शान्तिपुनःस्थापनार्थं निश्चितः सन्धिः यू एस्, ईजिप्त्, खत्तरराष्ट्रैः हस्ताक्षरीकृतः। तदर्थं केय्रो मध्ये गतरात्रौ अन्ताराष्ट्रीयशिखरसम्मेलनं सम्पन्नम्।

Tuesday, October 14, 2025

 नोटां पूर्वसूचना, भारतस्य तन्त्रप्रधानम् यद् अग्निबाणपरीक्षणं तन्निरीक्षितुं चीनः यू एस् च  आगमिष्यतः। 

   .  नवदिल्ली> तन्त्रप्रधानाय अग्निबाणपरीक्षणाय भारतं सज्जीकरोति। एतदनुबन्धितया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूरमण्डलेषु स्थितौ स्ततः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चिते इत्यस्ति आवेदनम्॥

 अर्थशास्त्रनोबेलः त्रिभ्यः दीयते। 

वामतः यथाक्रमं जोयल् मोकिरः, फिलिपे अगियोणः, पीटर् होविट्। 

स्टोक् होमः> अस्य वर्षस्य अर्थशास्त्रनोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। नेतर्लान्टराष्ट्रे लब्धजन्मा यू एस्-इस्रयेल आर्थिकशास्त्रज्ञः जोयल् मोकीरः [७९], फ्रान्सीयः फिलिपे अगियोणः [६८], कनेडियः पीटर् होविट् [७८] इत्येतेभ्यः एव पुरस्कारः।

  नूतनाधिगमनानि साङ्केतिकविद्यायाः विकासश्च आर्थिकविकासाय कथमुपकरोति इति अन्वेषणं पुरस्कृत्य  अस्ति एतेभ्यः पुरस्कारदानम्।

Monday, October 13, 2025

 पाकिस्थान-अफ्गानिस्थानसंघर्षः अनुवर्तते। 

अनुरञ्जनप्रक्रमेण खत्तरः सौदी च।

इस्लामबादः> पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशेषु कतिपयदिनैः अनुवर्तमानस्य संघर्षस्य लाघवं न जातम्। शनिवासरे पाकिस्थानस्य सैनिककेन्द्राणि लक्ष्यीकृत्य विधत्ते आक्रमणे ५८ जनाः मृताः इति अफ्गानिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। किन्तु २०० तालिबानीयभीकराः व्यापादिताः इति पाकिस्थानेन च निगदितम्। तेहरिक् ई तालिबान् [टि टि पी] इति निरोधितभीकरसंघटनस्य शिबिराणि प्रति एवाक्रमणं कृतमिति पाकिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। 

  खैबर् पख्तूण् ख्व, अंगूर अडा, बजावूर्, खुरं, दिर्, चित्राल् इत्येतेषु स्थानेषु वर्तमानानि सैनिककेन्द्राणि एव अफ्गानिस्थानेन व्योमाक्रमणं विधत्तम्। कतिपयस्थानेषु आत्मघात्याक्रमणमपि कृतमिति सूच्यते। 

  सौदि अरेब्या, खत्तर राज्ययोः व्यवधानेन रविवासरस्य प्रत्युषसि आक्रमणं स्थगयितमासीत्।

  पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशे डूरन्ट् लैन् इत्यत्र कतिपयकालेन संघर्षः वर्तते। अतीते गुरुवासरे टि टि पी संघटनेन पाकिस्थानस्य जनाधिवासक्षेत्राणि लक्ष्यीकृत्य कृते आक्रमणे उन्नतपदीयं सेनाधिकारिणमभिव्यप्य उपत्रिंशत् जनाः मृत्युमुपगताः आसन्।

 विशीर्णभवनावशिष्टानां मध्ये 

बान्धवान् मार्गमाणाः गासीयाः।

गासां प्रतिनिवृत्तमानाः गासीयजनाः।
पञ्चलक्षं जनाः प्रत्यागतवन्तः। 

गासानगरं> युद्धविरामे प्रबले जाते  गासाप्रान्तस्य बृहत्तमं नगरं नाम्ना गासासिटीं प्रति पञ्चलक्षं निवासिनः प्रतिनिवर्तिवन्तः। यत्र तेषां गृहाणि वर्तन्ते स्म, तत्र वर्तमानेषु अवशिष्टसञ्चयेषु ते तिरोभूतान्  स्वबान्धवान् अन्विष्यन्ते। 'गासा सिविल् डिफन्स् एजन्सि' इत्यस्य साह्येनैव अयं प्रयत्नः। युद्धानन्तरं ९५०० जनाः तिरोभूताः इति प्राथमिकगणना। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य २० अधिकरणात्मिकायाः अभियोजनायाः अङ्गीकारेण शुक्रवासरे आसीत् युद्धविरामः प्रवृत्तिपथमागतः।

 चीनीयोत्पन्नानां १००% करम् उद्घोषयन् ट्रम्पः।

वाषिङ्टणः> चीनराष्ट्रात् अमेरिक्कां प्रति आयातानां पण्यवस्तूनां करं नवम्बर् प्रथमदिनादारभ्य १००% करिष्यति इति राष्ट्रपतिः डोनाल्ड ट्रम्पः उदघोषयत्। इदानीं तत् ३०% भवति। 

  कतिपयानां software उत्पन्नानां निर्यातनियन्त्रणमपि विधास्यतीति ट्रम्पेन प्रस्तुतम्। ट्रम्पस्य उद्घोषणेन यू एस् राष्ट्रस्य अंशकविपणी अधः पपात।

Sunday, October 12, 2025

  वैभवहस्तकघटी आरभ्य सुरक्षा-छायाचित्रग्राही पर्यन्तं चीनस्य उपकरणानि राष्ट्रसुरक्षायै भीषा - अमेरिकः ।

 सुरक्षायै भीषा इत्युक्त्वा चीनस्य प्रौद्योगिकविद्यया निर्मितानां वैद्युतोपकरणानां विक्रयः अमेरिकेन निरुद्धः। चीनस्य उपकरणानि अमेरिकस्य नागरिकान्  आवेक्षयिष्यन्ति तथा राष्ट्रस्य दत्तविवरण -विनिमयानि अलक्ष्यं कर्तुमवसरः भविष्यति इत्युक्त्वा भवति निरोधनम्।

 शबरिगिरौ सुवर्णफलकचौर्यम् - अन्वेषणमारब्धम्। 

उण्णिकृष्णन् पोट्टिम् अभिव्याप्य १० अपराधिनः। 

मन्दिरस्य द्वारपालकशिल्पेषु अन्यतमः। 

अनन्तपुरी> केरले शबरिगिरौ श्रीधर्मशास्तामन्दिरस्य द्वारपालकशिल्पस्थाः सुवर्णफलकाः अपहृताः इत्यस्मिन् प्रकरणे राज्यापराधविभागेन [Crime branch] अपराधपत्रद्वयं पञ्जीकृतम्। प्रथमापहरणं २०१९ मार्च मासे द्वितीयं तु जूलाय् मासे च सम्पन्नमित्यत एव प्रकरणद्वयं  पञ्जीकृतम्।

  मन्दिरशिल्पानि  सुवर्णायितानि कर्तुं प्रायोजकरूपेण [sponsor]  व्यवहृतवान् उण्णिकृष्णन् पोट्टी नामकः प्रकरणद्वये अपि  प्रथमापराधी भविष्यति। तमभिव्याप्य १० अपराधिनः प्रथमचरणे सन्ति। इतरे तु तत्तत्कालीनाः  देवस्वसंस्थाधिकारिणः भवन्ति।

 अमेरिकस्य नियुक्तस्थानपतिः भारतं प्राप्तवान्।

 

  अमेरिकेन भारते राजदूतः सेर्जियो गोरः प्रधानमन्त्रिणा मोदिना सह मिलितवान्। महोदयस्य सेवाकाले उभयोः राष्ट्रयोः नयतन्त्रसाह्यं विशालं भविष्यति इति मोदिना आत्मविश्वासं प्राकटयत्। विषयमधिकृत्य x - सामाजिकमाध्यमे सः सन्देशं प्रकाशितवान्। गोरेण सम्मानितं चित्रं अपि मोदिना x मध्ये प्रकाशितम् अस्ति।

Saturday, October 11, 2025

 नवभिः यू के विश्वविद्यालयैः भारते विदूरपठनकेन्द्राणि  आरप्स्यन्ते - प्रधानमन्त्री।

मुम्बई> युणैटड् किंग्डम [UK] राष्ट्रस्य नव विश्वविद्यालयाः भारते तेषां विदूरपठनकेन्द्राणि आरप्स्यन्ते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी न्यगादीत्। भारतसन्दर्शनाय प्राप्तेन ब्रिटनस्य प्रधानमन्त्रिणा केयर् स्टामरेण सह मुम्बय्यां राजभवने सम्पन्नस्य मेलनस्यानन्तरम् आयोजिते संयुक्तवार्ताहरसम्मेलने भाषमाणः आसीत् नरेन्द्रमोदी। उभयपक्षयोः शैक्षिकसहयोगे निर्णायको भवति अयं निश्चयः इति मोदिवर्येण उक्तम्।

 गासा शान्तिमधिगच्छति।

गासातः इस्रयेलसेनायाः अपसरणमारब्धम्। 

गासायां युद्धनिरासस्य वार्तां श्रुत्वा आह्लादं प्रकटयन्तः बालाः। 

गासानगरं> वर्षद्वयं यावत् दीर्घितस्य रक्तप्रस्रवणस्य ५६ होराणां शान्तिचर्चा फलप्रदा जाता। ह्यः गासायां युद्धनिरासः प्रवृत्तिपथमागतः। स्थलयुद्धात् गृहं परित्यक्तवन्तः गासानिवासिनः पालस्तीनीयाः प्रत्यागन्तुमारब्धवन्तः। 

  शान्तिपुनःस्थापनं लक्ष्यीकृत्य यू एस् राष्ट्रपतिना डोनाल्ड ट्रम्पेन समर्पितायाः २० अधिकरणात्मिकपरियोजनायाः प्रथमचरणं इस्रयेलेन अङ्गीकृतमासीत्। परियोजनायाम् अङ्गीकृतं  निश्चितस्थानं प्रति इस्रयेलसेना अपगता इति इस्रयेलरक्षासेनया [IDF] निगदितम्।

  सन्ध्यनुसारिण्यः व्यवस्थाः यथाकालं न पूर्तीकरिष्यन्ते चेत् इस्रयेलेन युद्धं पुनरारप्स्यते इति बञ्चमिन् नेतन्याहुः भीषामुद्घोषितवान्।

 अयोध्यायां स्फोटनं - पञ्च मरणानि। 

अयोध्या> उत्तरप्रदेशस्थायाम् अयोध्यायां तीव्रस्फोटनस्यानन्तरं गृहं विनश्य ५ जनाः मृताः। अनेके आहताः। 

  पाग्ल भारि नामके ग्रामे आसीदियं दुर्घटना। स्फोटनस्य हेतुः अस्पष्टः वर्तते। आरक्षकान्वेषणं पुरोगम्यते।

Friday, October 10, 2025

 अफ्गानस्य विदेशमन्त्री दिल्लीं प्राप्तवान्।

नवदिल्ली> षट् दिवसात्मकानां सन्दर्शनाय तथा भारतशासकीयैःसह चर्चायै च अफ्गानिस्थानस्य अर्थात् तालिबानप्रशासनस्य विदेशमन्त्री अमीर् खान मुत्तखी गुरुवासरे दिल्लीं प्राप्तवान्। २९२१ तमे वर्षे तालिबानसंघटनस्य अधिकारप्राप्त्यनन्तरं इदंप्रथमतया  एव अफ्खानराष्ट्रस्य कश्चनाधिकारी भारतम् आगच्छति ।

  सन्दर्शनवेलायां भारतविदेशकार्यमन्त्री एस् जयशंकरः, राष्ट्रिय सुरक्षा उपदेष्टा अजित डोवलः इत्येताभ्यां सह प्रधानविषयेषु  मुत्तखी चर्चां  करिष्यति।


 शान्तिनोबेलः महिलायै समर्पयति।

मरिया कोरीना मचाडो पुरस्कृता।


स्टोक् होमः>  अस्मिन् वर्षे शान्त्यर्थं दीयमानाय नोबेलपुरस्काराय  मरिया कोरीना मचाडो नामिका मानवाधिकारप्रवर्तका अर्हा अभवत्। वेनिस्वला राष्ट्रस्य विपक्षनेत्री अस्ति मरिया कोरीना। शान्तिनोबेलपुरस्कारेण समाद्रियमाणा २० तमा महिला भवति ५८ वयस्का मरिया कोरीना। 

  वेनस्वला इति दक्षिणामेरिकीयराष्ट्रे अनुवर्तमानं लोकतन्त्रविरुद्धप्रशासनं विरुध्य २००२ तमवर्षादारभ्य मानवाधिकाराय प्रचाल्यमानस्य  संग्रामस्य नेत्री अस्ति मरिया। इदानीं निलीय एव सा प्रक्षोभं नयति। वेनस्वेलियजनतायै प्रचाल्यमानस्य प्रवर्तनस्य अङ्गीकारः एव पुरस्कारवब्धिरिति निरीक्षते।

Latest news