बालभारती पब्लिक विद्यालये नवसत्रारम्भ: पुस्तकविमोचनञ्च
नवदिल्ली> सर गंगाराम हॉस्पिटल मार्गस्थिते, बाल भारती पब्लिक् विद्यालये कोरोना-संक्रमणस्य भयानकस्थिते: पश्चात् ऐदम्प्राथम्येन भौतिकरूपेण नूतन-शैक्षिकसत्रस्य आरम्भस्य उपलक्ष्ये शनिवासरे हवनकार्यक्रम: आयोजित:। अस्मिन् आयोजने विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगलवर्य: उपप्रधानाचार्या श्रीमती मीना मल्होत्रा च मुख्ययजमानत्वेन उपातिष्ठताम्। अस्मिन् कार्यक्रमे सम्पूर्णविद्यालय-परिवार: उपस्थित: आसीत्। धर्मसंस्कारस्य ज्ञाता, भारतीयपरम्पराया: पुरोधा पंडित श्रीललितमिश्रवर्य: वेदमन्त्राणामुच्चारणपूर्वकं हवनं सम्पादितवान्। अस्मिन् हवने सर्वै: उपस्थित-शिक्षकै:, छात्रै,: च समस्तविद्यालयस्य सदस्यै: साकं



