OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 26, 2026

 कण्वाश्रमे पुरस्कारै: सह योगशक्तिप्रदर्शनस्य सम्पूर्ति: 

 सर्वश्रेष्ठयोगी सार्थकः कण्डवालः च सर्वश्रेष्ठयोगिनी संस्कृतिः गुसैं अतिथिभि: सम्मानितौ 

      कण्वनगरीकोटरम्> वैदिकगुरुकुलमहाविद्यालयकण्वाश्रमे द्विदिवसीयकार्यक्रमे सार्थकयोगशालाद्वारा, क्रेडिलपब्लिकस्कूल् इत्यनेन च गुरुकुलमहाविद्यालयज्वालापुरहरिद्वारद्वारा च आश्रमस्य छात्रै: विविधयोगासनप्रदर्शनं च शक्तिप्रदर्शनं कृतम् । शनिवासरे आश्रमस्य परमाध्यक्षेण स्वामीविश्वपालजयन्तवर्येण कार्यक्रमस्य शुभारम्भ: कृत: , यस्य परिणाम: रविवासरे गणमान्यातिथीनां समक्षे घोषित: सहैव शक्तिप्रदर्शनस्य विशेषावसर: दर्शनीय: आसीत् यत्र छात्रै: अग्निगोले प्रवेश: , लौहदण्स्य अवगुण्ठनं, एवं च कारयानस्य कर्षणं सौरवराणाद्वारा प्रदर्शितं। 

       योगप्रतियोगितानां कार्यक्रमे निर्णायकमण्डले सन्तोषी रावतप्रशिक्षिका, सोनमरावतप्रशिक्षिका, शुभमरावतप्रशिक्षिक:, कविता कण्डवालप्रशिक्षिका तथा प्राचार्य: श्री संजयरावत: इत्येते विशिष्टाः व्यक्तयः निर्णायकभूमिकायां च संयोजनसहयोगे गुरुकुलस्य प्रधानाचार्यः मनमोहननौटियालः, योगमहाविद्यालयस्य प्राचार्यः संजय: रावतः, डा. राजवीरवर्य:, डा. रमाकांतकुकरेती, डा.हेमन्ततिवारीवर्य: , पूजा अग्रवालवर्या, डा. मेजर् वीरपालविद्यालंकारः , जयवीररावत:, सचिनरावत:, रविन्द्ररावतश्च सार्थकयोगशालाया: संरक्षकः राकेशकण्डवालः, विभाग–सहसंयोजकः कुलदीपमैन्दोला च सत्यप्रकाशवर्य: , स्वामीनारायणवर्य:, स्वामी प्रबुद्धानन्दवर्य:, स्वामी प्रबोधानन्दवर्य: आदय: आसन् । सार्थककण्डवालद्वारा संगीतमययोग: प्रदर्शित: तथा च सौम्यासंस्कृतिद्वारा अपि प्रारम्भिकयोगमयीप्रस्तुति: प्रदत्ता ।