OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, January 21, 2026

 नितिन् नबीनः भाजपा दलस्य नूतनाध्यक्षः। 


नवदिल्ली> भा ज पा दलस्य  प्रवर्तमानाध्यक्षः नितिन् नबीनः राष्ट्रियाध्यक्षरूपेण कार्यभारं स्वीकृतवान्। दलस्य १२ तमाध्यक्षः भवति ४५ वयस्कः बिहारीयः नबीनः। बिहारे नियम-नगरविकासमन्त्रिरूपेण प्रवृत्तः  सः डिसम्बरमासे भाजपायाः प्रवर्तमानाध्यक्षरूपेण नियुक्तः आसीत्।

 विश्वस्मिन् राजनैतिक-आर्थिकासमत्वं वर्धते। 

लोकस्य अतिदारिद्र्यनिर्मार्जनाय आवश्यकी सम्पत् विश्वसम्पन्नानां सकाशे! 

दावोस्> विश्वस्मिन् राजनैतिक-आर्थिकासमत्वं गौरवतरं वर्धमानमिति 'ओक्स्फेम्' [OXFIRM] नामकस्य अधिकारसंघटनस्य आवेदनम्। २०२५ तमे विश्वस्य अतिसम्पन्नानां धनराशिः गतपञ्चवर्षाणां धनराशेः त्रियुगलम् अवर्धत इति आवेदनपत्रे सूच्यते। स्विट्सर्लान्टस्थे दावोसे आयोज्यमानस्य ५६ तम आगोल आर्थिक संघटनस्य [Global Economical Form] सांवत्सरीयोपवेशनस्य भूमिकारूपेण आसीत् ओक्स्फेमेन प्रस्तुतवार्षिकावेदनं प्रकाशितम्। 

  वर्तमानीनकाले शतकोटीश्वराणां सकाशे आहत्य धनराशिः १८. ३ लक्षं कोटि डोलर् मितं [१६६२ लक्षं कोटि रूप्यकाणि] इति अभिलेख्योच्चे स्तरे वर्तते। २०२५ तमे महाधनेश्वराणां वित्तराशौ १६% वर्धनं - २. ५लक्षं कोटि डोलर् मितं- जातम्। एतत्तु विश्वस्मिन् अशेषजनसंख्यायाः अर्धांशं कल्प्यमानानां, नीचस्तरे वर्तमानानां ४१० कोटि जनानां सम्पूर्णवित्तराशेः तुल्यं भवति। इयं धनराशिः विश्वस्य अतिदौर्भिक्षाम् उन्मूलनं कर्तुं अपेक्षितधनस्य २६ गुणितमितं भवति। 

  लोके २५% जनाः आवश्यानुसारं भोजनमलभ्यमानाः तथा च जनसंख्यायाः अर्धांशे इदानीमपि अतिदारिद्र्ये वर्तमाने अस्ति सम्पत्तिः महाधनिकानां सकाशे एव  पिण्डीक्रियते इति अहितप्रवणता। राजनैतिकस्थानमानानि सम्प्राप्तुं महाधनिकानां सामान्यजनेभ्यः ४००० गुणितस्य साध्यता कल्प्यते। 

  स्वकीयोपलब्ध्यर्थं अशेषे विश्वे वर्तमानानां सामान्यजनानां अधिकारान् स्वातन्त्र्याणि च निहन्य एव सामाजिक आर्थिकनियमान् नवीकर्तुमेव एतादृशाः अतिधनिकेश्वराः राजनैतिकाधिपत्यं वहन्ति इति आवेदनपत्रे सूच्यते। 

  ६६ राष्ट्रेषु कृतस्य अन्वीक्षणस्य आधारे आसीत् ओक्सफेमस्य अनुशीलनम्। दारिद्र्यम् असमत्वं न्यायराहित्यम् इत्येतानि विरुध्य कलहायमानानां २१ संघटनानां सख्यं भवति ओक्सफेम्।

Tuesday, January 20, 2026

 संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः।

वार्ताहर:- आचार्यदीनदयालशुक्ल:

संस्कृतभारत्याः व्रजप्रान्तस्य हरिगढशाखा षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे प्रथममासस्य अष्टादशे दिनाङ्के रविवासरे हरिगढस्थे सासनीगेटक्षेत्रवर्तिनि विश्वभारतीसार्वजनिकविद्यालये एकदिवसीयसंस्कृतभाषाप्रवेशवर्गम् आयोजयत्। कार्यक्रमस्य शुभारम्भः वैदिकमन्त्रोच्चारणेन सह दीपप्रज्वालनेन सरस्वत्याः पूजाऽर्चनया च अभवत्। सर्वप्रथमं कार्यक्रमस्य अध्यक्षा विश्वभारतीसार्वजनिकविद्यालयस्य प्रधानाचार्या च सुनीतासिंह: अस्मै वर्गाय शुभकामनाः प्राददात्। स्वल्पाहारविरामात् अनन्तरं मथुराविभागस्य संयोजकः श्यामसुन्दरशर्मा प्रशिक्षणकार्यं प्रारभत।

विशिष्टातिथिः वार्ष्णेयमहाविद्यालयस्य संस्कृताविभागाध्यक्षः देवेन्द्रकुमार: भारतीयसंस्कृतेः संरक्षणार्थं संस्कृतभाषायाः पोषणस्य संवर्धनस्य च आवश्यकतां प्रत्यपादयत्। प्रशिक्षणस्य सञ्चालनं चतुर्षु सत्रेषु अभवत्। येषु संस्कृतजिज्ञासवः संस्कृतभाषायां स्वपरिचयं लिङ्गं वचनं पुरुषः

 जम्मु-काश्मीरे सैनिकस्य वीरमृत्युः। 


श्रीनगरं> जम्मु-काश्मीरस्थे किष्त्वारे भीकरैः सह प्रतिद्वन्द्वे व्रणितः भारतसैनिकः वीरमृत्युं प्राप। हविल्दार् पदीयः गजेन्द्र सिंह अस्ति वीरमृत्युं प्राप्तवान्। 

  भीकरनिर्मार्जनाय सेनया आरब्धे 'ओपरेषन् ट्राषि-१' प्रक्रमे भीकरैः स्थापितं ग्रनेड् स्फोटकं विस्फोट्य अष्ट सैनिकाः व्रणिताः आसन्। तीव्रतया व्रणितः गजेन्द्र सिंहः गत दिने मृत्युमुपगतः।

 केरलम्। 

विधानसभासम्मेलनम् अद्य आरभते। 

अनन्तपुरी> १५ तम केरलविधानसभायाः अन्तिममेलनं मङ्गलवासरे राज्यपालस्य नयप्रख्यापनप्रभाषणेन आरभ्यते। मार्च् २६ दिनाङ्कपर्यन्तं सम्मेलनं भविष्यति। जनुवरि २९ तमे दिनाङ्के राज्यस्य आयव्ययपत्रं वित्तमन्त्रिणा के एन् बालगोपालेन प्रस्तौष्यति।

 यू ए ई राष्ट्रपतये ऊष्मलं स्वीकरणम्। 

यू ए ई राष्ट्रपतिं नरेन्द्रमोदी विमाननिलयं सम्प्राप्य स्वीकरोति। 

नवदिल्ली> ह्यः सायं भारतं सम्प्राप्तं यू ए ई राष्ट्रपतिं षैख् मुहम्मद बिन् सायद् अल् नह्यान् नामकं प्रधानमन्त्री नरेन्द्रमोदी दिल्ली विमाननिलयं प्राप्य स्वीकृतवान्। उभयोरपि राष्ट्रयोः सौहृदं परं प्रबलीकृत्य विभिन्नमण्डलेषु परस्परसहकरणाय प्रवर्तयितुं मोदी-मुहम्मद बिन् मेलने निश्चयमभवत्। 

  व्यापारः, वाणिज्यं, ऊर्जं, राष्ट्रसुरक्षा, बहिराकाशं, शास्त्रसाङ्केतिकम् इत्यादिषु क्षेत्रेषु परस्परसहकारं वर्धापयितुं पञ्च सन्धिपत्राणि उभाभ्यां राष्ट्राभ्यां हस्ताक्षरीकृतानि।

Monday, January 19, 2026

उत्तराखण्ड-संस्कृत-विश्वविद्यालयस्य कुलपतिपदे प्रो. रमाकान्तपाण्डेयवर्यः नियुक्तः।
       हरिद्वारम्> उत्तराखण्ड-संस्कृत-विश्वविद्यालये कुलपतिपदे प्रख्यातः संस्कृतविद्वान् प्रो. रमाकान्तपाण्डेयवर्यः नियुक्तः। उत्तराखण्डस्य माननीयैः राज्यपालैः तथा विश्वविद्यालयस्य कुलाधिपतिभिः लेफ्टिनन्ट् जनरल् गुरमीत् सिंह् वर्यैः एषा नियुक्तिः कृता। संस्कृतसाहित्ये, काव्यशास्त्रे, नाट्यशास्त्रे, भारतीयज्ञानपरम्परासु च विश्रुतः प्रो. पाण्डेयवर्यः अध्यापन–अनुसन्धान–प्रशासनक्षेत्रेषु दीर्घकालं सेवां कृतवान्। पूर्वं केन्द्रीय-संस्कृत-विश्वविद्यालयस्य भोपाल–जयपुर-परिसरयोः निदेशकपदस्य दायित्वं निर्वहन् सः शैक्षणिकगुणवत्तायाः उन्नयनं कृतवान्।
       कुलपतिपदभारग्रहणानन्तरं प्रो. पाण्डेयवर्येण उक्तं यत् विश्वविद्यालयः अनुसन्धान–नवाचार–पाण्डुलिपिशास्त्र–योग–दर्शन–भारतीयज्ञानपरम्पराणां संरक्षण–संवर्धनमार्गे अग्रेसरः भविष्यति। राष्ट्रिय-अन्तर्राष्ट्रियस्तरे भारतीयविद्यायाः प्रतिनिधिरूपेण विश्वविद्यालयस्य प्रतिष्ठा वर्धयिष्यतीत्यपि तेन सूचितम्।

 भीकरैः सह संघर्षः - अष्ट सैनिकाः व्रणिताः। 

श्रीनगरं> जम्मु-काश्मीरस्थे किष्त्वारे रविवासरे प्रवृत्ते भीकरैः सह संघर्षे अष्ट सैनिकाः व्रणिताः जाताः। भीकरान् अपाकर्तुम् अधिके सैनिकाः प्रदेशे विन्यस्ताः। जय्षे मुहम्मदीयभीकराः निलीनाः वर्तन्ते इति सूचनायाः आधारे कृते अन्वेषणाभ्यन्तरे आसीदाक्रमणम्। 

  अस्मिन् वर्षे जम्मुक्षेत्रे प्रवृत्तः  तृतीयः प्रतिद्वन्द्वः भवत्येषः। जनुवरि ७, १३ दिनाङ्कद्वये कृते आक्रमणे भीकराणां गुप्तशिबिराणि सुरक्षासेनया विनाशितानि आसन्।

 कोहलिशतकं विफलम्। 

एकदिनपरम्परा न्यूसिलान्टेन प्राप्ता।

भारते न्यूसिलान्टस्य प्रथमपरम्पराप्राप्तिः। 

प्राप्तशतकः तथा परम्परायाः श्रेष्ठक्रिडकश्च न्यूसिलान्टस्य डारिल् मिचलः। 

इन्दोरं> भारत-न्यूसिलान्टयोः एकदिनक्रिकट् परम्परायाः अन्तिमप्रतिद्वन्द्वं विजित्य न्यूसिलान्टः परम्परां प्राप। ४१ धावनाङ्कैः आसीत् तेषां विजयः। भारते प्रथमतया एव न्यूसिलान्टस्य एकदिनपरम्पराप्राप्तिः। 

 प्राप्ताङ्कसूचिका - न्यूसिलान्टः - ३३७/८,   भारतं - २९६/१०। प्रथमचरणे न्यूसिलान्टस्य डारिल् मिचल् [१३७/१३१], ग्लेन् फिलिप्स् [१०६/८८] च शतकं प्राप्तवन्तौ। प्रत्युत्तरचरणे भारताय विराट कोहली शतकं [१२४/१०८] प्राप्तवानपि तत् विजयार्थम् अपर्याप्तमभवत्।  

Sunday, January 18, 2026

 एष्यायाः बृहत्तमा कौमारकलामेला समाप्ता। 

कलाकिरीटं कण्णूर् जनपदाय - १०२८ अङकाः। 

मोहन लालः मुख्यातिथिः। 

समाप्तिसम्मेलनम् उद्घाटनं कुर्वन् विपक्षनेता वि डि सतीशः। 

तृश्शूर्> एष्याभूखण्डस्य बृहत्तमः कलोत्सवः इति ख्यातिं प्राप्तस्य केरल विद्यालयकलोत्सवस्य प्रौढोज्वलपरिसमाप्तिः। ६४ तमः विद्यालयछात्राणां साहित्य-कलास्पर्धाः अस्मिन् वर्षे तृशिवपेरूर् नगरे सम्पन्ना। 

 पञ्चदिनात्मिकायाः कलामेलायाः समाप्तिसमारोहस्य उद्घाटनं केरलविधानसभायाः विपक्षनेता वि डि सतीशः अकरोत्। मलयालस्य महानटः, फाल्के पुरस्कारजेता, पद्मश्री मोहनलालः मुख्यातिथिरभवत्। 

  १०२८ अङ्कान् सम्पाद्य कण्णूर् जनपदेन  सुवर्णचषकः सम्प्राप्तः। १०२३ अङ्कान् सम्पाद्य तृश्शूर् जनपदः द्वितीयस्थानं प्राप। तृतीयस्थानं तु कोष़िक्कोट् जनपदेन प्राप्तं - १०१७ अङ्काः।

Latest news

 रफाल् विमानेभ्यः ३. २५ लक्षं कोटि रूप्यकाणां सन्धिः। 


नवदिल्ली> फ्रन्च् संस्था दसो एवियेषन् इत्यस्मात् भारतीय वायुसेनायै  ११४ रफाल् युद्धविमानानि क्रेतुं रक्षासम्भारसमित्याः अनुज्ञा लब्धा। वर्तमाने काले ३६ रफाल् युद्धविमानानि व्योमसेनायाः सन्ति। 

  ३. २५ लक्षं कोटि रूप्यकाणां सन्धिरिति सूच्यते। सन्ध्यनुसारं १८ विमानानि २०३० तमे वर्षे भारतं प्राप्स्यन्ति। अवशिष्टानि विमानानि भारते एव निर्मास्यन्ति। आगामिमासे यदा फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः भारतं प्राप्स्यति तदा सन्धौ हस्ताक्षरं करिष्यति।

 भारत-न्यूसिलान्टयोः तृतीयम् एकदिनम् अद्य। 

इन्दोरः> भारत-न्यूसिलान्टयोः एकदिनक्रिकट् क्रीडापरम्परायाः तृतीयं तथा अन्तिमं च एकदिनं रविवासरे मध्याह्ने इन्दोरे सम्पत्स्यते। परम्पराप्राप्त्यर्थम् अद्यतनक्रीडा उभयोरपि दलयोः निर्णायकी भवति। 

  प्रथमस्पर्धायां भारतं, द्वितीयायां न्यूसिलान्टः च विजित्य १ - १ इति समस्थितिं भजतः अधुना।

 ऊन१९ विश्वचषकक्रिकट् 

 भारतस्य विजयः।

बुलावायो> सिम्बाब्वे राष्ट्रे सम्पन्ने ऊननवदशवयस्कानां विश्वचषकक्रिकट् स्पर्धायां भारतं बङ्गलादेशं १८ धावनाङ्कैः पराजयत। वृष्टिकारणात् क्रीडायां स्थगितायां 'डक्वर्त लूयिस्' नियानुसारेण आसीत् भारतस्य विजयः। प्राप्ताङ्कसूचिका - भारतं ४८. ४ क्षेपणचक्रेषु २३८ धावनाङ्काः। बङ्गलादेशः २८. ३ क्षेपणचक्रेषु १४६। [लक्ष्यं तु २९ क्षेपणचक्रेषु १६५।] 

  भारतस्य प्रारम्भकक्रीडकः वैभव सूर्यवंशी [६७ कन्दुकैः ७२], अभिग्यान कुण्डुः [११२ कन्दुकैः ८०] च भारताय श्रेष्ठां क्रीडां कृतवन्तौ।

Saturday, January 17, 2026

 केरलम्। 

संस्कृतोत्सवानुशासनपरिष्करणं- आशङ्कां परिहरिष्यति - वि शिवन्कुट्टिः 

तृश्शूर्> यदा केरलस्य विद्यालयीयकलोत्सवस्य अनुशासनं [manual] परिष्करिष्यति तदा संस्कृतम्, अरबी, उर्दु भाषाविषयककलोत्सवेषु वर्तमानाः शिक्षकाणां छात्राणां च आशङ्काः परिहरिष्यन्तीति राज्यशिक्षामन्त्री वि शिवन्कुट्टिः निगदितवान्। ६४ तम राज्यस्तरीय विद्यालयकलोत्सवस्य अंशतया आयोज्यमानायाः संस्कृतसंगोष्ठ्याः उद्घाटनं निर्वहन् भाषमाणः आसीत् सः।

  सामाजिकविद्यालयेषु सर्वासां भाषाणाम् अध्ययनं समानरीत्या प्रोत्साहनीयं, नवकेरलस्य निर्माणे भाषाध्यापकेषु सविशेषम् उत्तरदायित्वं वर्तते इति च शिवन्कुट्टिवर्येण प्रस्तुतम्। संगोष्ठीकार्यक्रमे राजस्वं [Revenue] मन्त्री के राजः अध्यक्षः अभवत्। 

  संस्कृतभाषायाः अक्षरशास्त्रम् [Neuro Linguistics in Sanskrit] इति विषये श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य पय्यन्नूर् परिसरस्य भूतपूर्वः निदेशकः डो ई श्रीधरः प्रबन्धं प्रस्तुतवान्। केरल संस्कृताध्यापक फेडरेशन् संघटनस्य अध्यक्षः सि सुरेष् कुमारः मध्यवर्तिरूपेण संगोष्ठिं प्रचालितवान्। 

 संस्कृतमण्डले विभिन्नक्षेत्रेषु  प्रशस्तं योगदानं कृतवन्तः प्रतिभायुक्ताः कार्यक्रमे सर्वकारेण समादृताः। एम् वि नटेशः, प्रोफ. के के षैनः, पि वि सन्तोष् कुमारः,  के एन् जनार्दनः, पि वि मधुसूदनः, के प्रदीप कुमारः, वि टि हरिप्रसादः, शैलजा, एड्वेर्ड् चाल्स् के आल्बर्ट् [युवकः सङ्गीत संविधायकः] इत्येते समादृताः।

 ऊन१९ क्रिकट् विश्वचषकः। 

प्रथमस्पर्धायां भारतस्य विजयः।

प्रथमस्पर्धायां भारतक्रीडकाः। 

अद्य भारत-बङ्गलादेशस्पर्धा।

बुलवायो (सिम्बाब्वे)> ऊननवदशवयस्कानां क्रिकट् विश्वचषकस्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतेन प्राप्तस्य आधिकारिकविजयस्य उत्साहे अद्य द्वितीयस्पर्धायै भारतदलः सन्नद्धः। शनिवासरे भारतसमयानुसारं  मध्याह्ने एकवादनतः बङ्गलादेशं विरुद्ध्य बुलवायो इत्यत्र अस्ति स्पर्धा। 

  गुरुवासरे सम्पन्ने 'ए' संघस्य प्रथमे प्रतिद्वन्द्वे भारतं यू एसं पराजयत। यू एसं ३५. २ क्षेपणचक्रेषु १०७ धावनाङ्कैः बहिर्नीतवान्  भारतदलः वृष्टिनियमानुसारं १७. २ क्षेपणचक्रेषु विजयतीरं प्राप।

Friday, January 16, 2026

 रसना मासपत्रिकायाः प्रबंधसंपादकः के एम् जनार्दनः समादृता।

के. एम्. जनार्दनः सम्मानं स्वीकरोति

त्रिश्शिवपेरूर् > रसना मासपत्रिकायाः सम्पादकः के एम् जनार्दनः केरलसर्वकारेण समादृतः। संस्कृतभाषायाः प्रचाराय रसना मासिकायाः प्रकाशनेन के एम् जनार्दनः संस्कृतभाषायाः प्रचारणमण्डले प्रयत्नं कृतवान्। केरलात् प्रकाश्यमाना इयंपत्रिका २००९ तमात् संवत्सरादारभ्य अनुस्यूततया प्रकाशिता भवति। केरलस्य शिक्षामन्त्री वि शिवन् कुट्टी महोदयस्य हस्तात् के . एम् जनार्दनः स्वीकृतवान्। 

 गासा युद्धविरामः द्वितीयचरणं प्रविशति। 

वाषिङ्टणः> गतवर्षे ओक्टोबरमासे गासायां प्रवृत्तिपथमानीतः युद्धविरामः तस्य द्वितीयचरणं प्रविशन्नस्तीति यू एस् राष्ट्रपतेः सविशेषप्रतिनिधिः स्टीव् विट् कोफ् इत्यनेन बुधवासरे निगदितम्। चरणेSस्मिन् हमासस्य निरायुधीकरणं, गासायाः पुनरुद्धारणं, गासायाः प्रतिदिनकार्यतन्त्रार्थं अमेरिकायाः अधीशत्वे कुशलपलस्तीनीयानां समितिः इत्येतानि अन्तर्भवन्ति।

 इराने प्रक्षोभः शाम्यते। 

दुबाय्> सप्ताहत्रयेण इरानवीथिषु प्रज्वाल्यमानः प्रक्षोभाग्निः शाम्यते इति सूच्यते। गतदिने गणनीयाः अनिष्टघटनाः अक्रमाः न जाताः। भुषुण्डिप्रयोगध्वनयः अत्यन्तं न्यूनाः आसन्निति दृक्साक्षिप्रामाण्यम् उद्धृत्य ए पि नामकवृत्तान्तसंस्थया निगदितम्। 

  इराने वर्तमानेषु ३१ प्रान्तेषु १८० नगरेषु बहुजनप्रक्षोभः व्याप्तः आसीत्। १५० सुरक्षासैनिकान् अभिव्याप्य २५७२ जनाः मृताः। १९७९ तमे जातस्य इस्लामिकान्दोलनस्यानन्तरं अधिकः रक्तरूषितः संघर्षः अस्ति इदानीं प्रवृत्तमानः संघर्षः।

 बी एस् एफ्, ऐ टि बी पी, एन् ऐ ए संस्थासु नूतनमुख्याधिकारिणः नियुक्ताः। 

नवदिल्ली> सीमा रक्षासेना [बी एस् एफ्], इन्डो-टिबटन् बोर्डर् पोलीस् [ऐ टि बी पी], राष्ट्रिय अन्वेषण नियुक्ता [एन् ऐ ए] इत्येतासां संस्थानां नूतनाः मुख्याधिकारिणः केन्द्रप्रशासनेन नियुक्ताः। वरिष्ठः ऐपिएस् पदीयः शत्रुजित् सिंह कपुरः ऐ टि बी पी मुख्यनिदेशको जातः। वर्तमानीन ऐ टि बी पी मुख्यनिदेशकः प्रवीण कुमारः बी एस् एफ् दलस्य मुख्यनिदेशकरूपेण नियुक्तः। वरिष्ठः ऐपिएस् पदीयः राकेश अगर्वालः एन् ऐ ए इत्यस्य मुख्याधिकारी अभवत्।

Thursday, January 15, 2026

 महाराष्ट्रम्। 

 नगरसभानिर्वाचनं सम्पन्नम्। 

मुम्बय्यां जनविधिः आकाङ्क्षां भजते। 

मुम्बई> भारतराष्ट्रस्य आर्थिकराजधानीति प्रसिद्धिं भजमानं मुम्बैयम् अभिव्याप्य २९ महानगरेषु नगरेषु च तद्देशीयनिर्वाचनं समभवत्। 

 किन्तु सर्वाण्यपि नेत्राणि बृहन्मुम्बई मुनिसिपल् कोर्परेषन् [बी एम् सि] इति कथ्यमानम् आर्थिकराजधानीं केन्द्रीकृतानि सन्ति। बी एम् सि संस्थायाः प्रशासनपदप्राप्तिः सर्वेषां राजनैतिकदलानाम् आत्माभिमानस्य विषयो भवति। एष्याभूखण्डे बृहत्तरेषु आयव्ययपत्रकराशिविहितात्मकेषु महानगरेषु अन्यतमं भवति बी एम् सि। ७५,४२७ कोटि रूप्यकाणि आसीत् २०२५-२६ आर्थिकवर्षस्य आयव्ययराशिः। 

  बी जे पी, शिवसेना [षिन्डे विभागः], आर् पि ऐ इत्येतेषां सख्यं, उद्धव ताकरे पक्षस्य शिवसेना राज ताकरे पक्षस्य एम् एन् एस्, शरद पवारस्य एन् सि पि इत्येतेषां सख्यं, कोण्ग्रस्, वि बी ए दलयोः सख्यं च परस्परं स्पर्धन्ते। 

 बि एम् सि मध्ये २२७ प्रशास्यमण्डलानि - wards - सन्ति। एककोट्यधिके मतदायकाः सन्ति। २९ नगरसभासु सार्धत्रिकोटिसंख्यकाः मतदायकाः च सन्ति।

 ऊन१९वयस्कानां क्रिकट् विश्वचषकः समारब्धः। 

हरारे> क्रिकेट क्रीडाक्षेत्रस्य कौमारताराणां युद्धं समारब्धम्। ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडाः सिम्बाब्वे नमीबिया राष्ट्रद्वये  सम्पत्स्यन्ते। 

  आहत्य १६ दलाः चतुर्षु संघेषु स्पर्धन्ते। भारतम् अन्तर्भूयमाने बी संघे बङ्गलादेशः, न्यूसिलान्टः, यू एस् इत्येतानि राष्ट्राणि च सन्ति।

 भारत-न्यूसिलान्ट् एकदिनम्

द्वितीयस्पर्धायां न्यूसिलान्टः विजितः।

न्यूसिलान्टाय शतकं प्राप्य श्रेष्ठक्रीडकत्वेन चितः डारिल् मिच्चलः। 

राज्कोट्> भारत-न्यूसिलान्टयोः स्पर्धात्रयात्मिकायाः एकदिन क्रिकेट परम्परायाः द्वितीये प्रतिद्वन्द्वे न्यूसिलान्टस्य सप्तद्वारकाणां विजयः। डारिल् मिच्चलस्य शतकेन [१३१*] विल् यङ् नामकस्य अर्धशतकेन [८७] च २८५ इति विजयलक्ष्यम् न्यूसिलान्टः अनायासेन प्राप। अनेन विजयेन प्रथमस्पर्धाविजयिना भारतेन समं १-१ इति समस्थितिं भजते न्यूसिलान्टः । अन्तिमा एवं तृतीया  स्पर्धा परम्परालब्धये निर्णायकप्राधान्यमावहति। 

  प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त द्वारकैः २८४। तत्र के एल् राहुलः भारताय शतकं प्राप्तवान् आसीत्। न्यूसिलान्टः ४७. ३ क्षेपणचक्रेषु त्रिभिः द्वारकैः २८६।

 जम्मु-काश्मीरे भीकर-सेनयोः प्रतिद्वन्द्वः। 

नियन्त्रणरेखायां ड्रोण् यन्त्राणि।

श्रीनगरं> कठुव जनपदस्थे नजोट् काननमण्डले सुरक्षासेना भीकराश्च मिथः भुषुण्डिप्रयोगः जातः। गतसप्ताहं यावत् जेय्षे मुहम्मदीयभीकरेभ्यः सुरक्षासेनया मार्गणमारब्धमासीत्। भीकरैः भुषुण्डिप्रयोगे जाते सैन्येन प्रतिप्रयोगः कृतः। 

  रजौरि जनपदे नियन्त्रणरेखायाः समीपं मंगलवासरे द्वयोः ड्रोणयन्त्रयोः सञ्चारसान्निध्यमभवत्। भीकराणां ड्रोण् इति सूच्यते।

Wednesday, January 14, 2026

 पश्चिमवंगः। 

राज्ये 'निपा' बाधा ; द्वे अनुवैद्ये कठिनतरावस्थायाम्। 

कोल्कोत्ता> पश्चिमवंगस्य बारासात् प्रान्ते निजीयातुरालये वृत्तिं कुर्वत्यौ द्वे अनुवैद्ये निपावैराणुबाधिताः जाताः इति दृढीकृतम्। परिचर्यायां वर्तमानयोः एतयोरवस्था कठिनतरा वर्तते। वैराणुबाधायाः स्रोतावगमनाय अन्वेषणमारब्धमिति राज्याधिकारिणी नन्दिनी चक्रवर्ती निगदितवती।

 राज्य-राष्ट्रीय-स्तरे राकेश-कण्डवालः छात्रैः सह योगेन प्रसृत:

केटरम् > मार्गदर्शनं कुर्वन् मुख्यातिथिः श्री ऋषिकण्डवालः अवदत्—

“संयमः अनुशासनं च एव योगः। अल्पवयसि एव योगाभ्यासेन या प्रतिभा अर्ज्यते, सा अस्माकं सभ्यता-संस्कारयोः प्रतीकम्। आधुनिक-कौशल-संयुक्तयोगासनानि सम्पूर्ण-जीवनस्य स्वास्थ्याय भवितुमर्हन्ति। राकेशः कण्डवालः कण्वनगरीतः प्रदेशे देशे च विद्यार्थिभिः योगस्य कीर्तिं प्रसारयति।”

 संस्कृतक्षेत्रस्य आचार्यः शारीरिक-शिक्षकश्च राकेशः कण्डवालः योगक्षेत्रे विशिष्टां उपलब्धिं प्राप्नोति। सः 2011 वर्षात् आरभ्य संस्कृतशिक्षणेन सह शारीरिकशिक्षायां योगप्रशिक्षणमपि ददाति। तस्य छात्राः जनपदे, प्रदेशे, राष्ट्रस्तरे च विजयध्वजं प्रसारयन्ति। तस्य पुत्रः सार्थकः कण्डवालः अपि योगासनेषु गिनीज-वर्ल्ड-बुक इत्यत्र स्वनामाङ्कनं कृतवान्। अद्य तेषां माध्यमेन विविधेषु क्षेत्रेषु योगशालाः सञ्चालिताः सन्ति, छात्राः प्रशिक्षकरूपेण योगप्रशिक्षण-कार्यशालाः अपि सञ्चालयन्ति।

एतस्य वर्षस्य प्रारम्भे तेषां निज-आवासे सार्थकयोगशाला क्रीडायोगासन-कार्यशालायाः विधिवत् उद्घाटनं सम्पन्नम्, यस्याः अध्यक्षपदे श्रीमती कविता कण्डवाल: विराजन्ते, संरक्षकः राकेशः कण्डवालः अस्ति। प्रशिक्षकरूपेण सन्तोषी रावत:, सोनम रावत:, शुभम् रावत:, सार्थकः कण्डवालः इत्यादयः तेषां शिष्याः प्रतिदिनं योगप्रसारे महत्त्वपूर्णं योगदानं ददति।