विश्वचषकपादकन्दुकक्रीडायां मेस्सिमहोदयेन नूतनः अभिलेखः आरचितः।
दोहा> विश्वचषकस्य अन्तिमस्पर्धायां अर्जन्टीनायाः नायकेन मेस्सिना नूतन अभिलेखः आरचितः। विश्वचषके आविश्वम् अधिकप्रतियोगितासु भागं स्वीकृतानां मध्ये प्रथमस्थानं मेस्सिना स्वायत्तीकृतम्। विश्वचषके२६ प्रतियोगितासु अनेन भागं स्वीकृतम्। २५ स्पर्धासु भागं स्वीकृतस्य जर्मन्याः पूर्वनायकस्य लोथर् मत्तेवूसस्य अभिलेखः एव अनेन भेदितः (उत्तरितः )।


.jpg)
.jpg)






.webp)

.webp)
