OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, February 17, 2026

 आणवनिर्व्यापनं - यू एस् - इरान् द्वीतीयचर्चा अद्य। 

जनीवा> यू एस् - इरानराष्ट्रयोः आणवनिर्व्यापनचर्चायाः द्वितीयचरणं मङ्गलवासरे जनीवानगरे सम्पद्यते। चर्चायै जनीवां सम्प्राप्तः इरानस्य विदेशकार्यमन्त्री अब्बास अराग्चि सोमवासरे अन्ताराष्ट्र आणवोर्जनिदेशकप्रमुखः राफेल् ग्रोसी इत्यनेन सह मिलितवान्। यू एसेन सह नीतियुक्तः सन्तुलितः च सन्धिः एव लक्ष्यमिति अराग्चिना उक्तम्। 

  अस्मिन् मासे षष्ठदिनाङ्के आसीत् प्रथमचर्चा सम्पन्ना। इरानस्य उपरि विधत्ताः उपरोधाः लघूकर्तुं यू एसः सज्जः तर्हि सम्पुष्टीकृतयुरेनियस्य विषये  समायोगाय सज्जमिति इरानेन निगदितमासीत्।