OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, April 10, 2025

 मुम्बई-आतङ्काक्रमणस्य बहूनि रहस्यानि तहावूर् राणाय ज्ञातानि, अस्य आनयनं भारतस्य  लाभः - लोकेनाथ-बह्रः।

      मुम्बई-आतङ्काक्रमण-कथायां मुख्यः गूढालोचकः तहावूर् राणायै कठितर-दण्डः भविष्यतीति प्रतीक्षा अस्ति इति पूर्वतनः DGP पदे विराजमानः लोकेनाथ-बह्रः उक्तवान्। राणस्य भारतं प्रति प्रत्यर्पणं  लाभरूपेण गण्यमानम् अस्ति। दोषारोपपत्रं समर्प्य चतुर्दशवर्षेभ्यः अनन्तरं भवति राणस्य भारत-प्रत्यागमनम्।  आक्रमणं कर्तुं अन्ये केचन सहायतां कृतवन्तः किम्? किञ्चित् प्रादेशिक-साहाय्यं प्राप्तम् आसीत् वा? इत्यादीनां विषयाणां अवबोधं सुलभं भविष्यति इति बह्रः उक्तवान्।दोषारोपप्रकरणे  दावीद् कोल्मान् हेड्ली इत्यनयोः  प्रश्नकरणाय अमेरिकादेशं गतवान् आसीत् अयं लोकनाथ् बह्रः। 

     भारताय एषः सुवर्णावसरः प्राप्तः अस्ति। राणाय बहूनि रहस्यानि ज्ञातानि, नवानि नामानि अपि प्रकाशं यास्यन्तीति प्रतीक्षा  अस्ति। राणविरुद्धं बहूनि प्रमाणानि सङ्गृहीतानि। मुम्बई-आक्रमणस्य संबन्धितया एकैकस्य भारतजनस्य मनसि ये प्रश्नाः सन्ति, तेषाम् उत्तरम् अधुना लप्स्यते इत्यपि बह्रः अवदत्।

 तहावूर् हुसैन् राणाम् अद्य भारतं प्रापयिष्यति।

राजधान्यां कर्कशसुरक्षाक्रियाविधयः। 

नवदिल्ली> २००८ तमे वर्षे आपन्नस्य मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारः अपराधी च तहावूर् हुसैन् राणा नामकं [६४] अद्य अमेरिक्कातः भारतमानयति। एन् ऐ ए संस्थया निग्रहणानन्तरं नियमव्यवहाराय प्रक्रमान्  विधास्यन्ति। 

 कानडा-पाकिस्थानयोः नागरिकत्वं विद्यमानः राणा २०१९ तमे वर्षे एफ् बी ऐ संस्थया निगृह्य लोस् आन्जलसस्थे कारागारे बद्धः अस्ति। भारतसर्वकारस्य निरन्तरपरिश्रमस्य फलमस्ति  भारतं प्रति आनयनम्। 

  दिल्ल्यां समीपप्रदेशेषु आनयनवीथिषु च तीव्रसुरक्षा  विधत्ता।

 आराष्ट्रं पुनरुज्जीवनाय कोण्ग्रसदलस्य निर्णयः। 

अहम्मदाबादः> महात्मागान्धिनः आशयदृढतां सर्दार् वल्लभाय् पट्टेलस्य प्रायोगिकशौर्यं च समञ्जसं सम्मिल्य नूतनं कोणग्रस् दलं  विनिर्मास्यतीति ए ऐ सि सि सम्मेलने प्रख्यापितम्। राजनैतिकाशयस्तरे सामाजिकनीतौ मतेतरत्वे च स्थिरपदस्थापनं कर्तुं संघटनास्तरे जनपदीयसमितिं प्रबलीकर्तुं च मार्गनिर्देशाय सम्मेलने अङ्गीकारः लब्धः।

 प्रतिकारशुल्कस्य ट्रम्पेन त्रैमासिकविरामः। 


वाषिङ्टणः> अमेरिकया सह अधिकतया व्यापारसम्बन्धितानां राष्ट्राणामुपरि विहितस्य अधिकायातशुल्कस्य मासत्रयात्मकः विरामः ट्रम्पेन  उद्घोषितः। एतत्कालेषु राष्ट्राणाम् आयातशुल्कः १०% इति वर्तिष्यते। ट्रम्पस्य प्रतिकारशुल्कः अमेरिकायाम् आर्थिकमान्द्याय मूल्यवर्धनाय च हेतुर्भविष्यतीति आशङ्कायाः आधारे अस्ति ट्रम्पस्यायं निर्णयः।

Wednesday, April 9, 2025

 राज्यपालानाम् अधीशत्वं परिस्फुटीकृत्य सर्वोच्चन्यायालयः। 

राज्यपालानां निषेधाधिकारः नास्ति।

विधेयकेषु मासत्रयाभ्यन्तरे निर्णयः करणीयः। 

नवदिल्ली> विधानसभाभिः अनुमोदितेषु विधायकेषु निर्णयमकृत्वा अनन्तकालं यावत् अवरोधं क्रियमाणानां राज्यपालानां प्रक्रमाः सर्वोच्चन्यायालयेन अपलपिताः। विधानसभायाम् अनुमोदितेषु विधेयकेषु निर्णयं विधातुं राज्यपालानां समयक्रमः निश्चितः इत्येव नीतिपीठस्य सुप्रधानविधिः। मासत्रयाभ्यन्तरे निर्णयः वोढव्य‌ः। 

  २०२० वर्षादारभ्य दश विधेयकेषु निर्णयाय अनन्तकालविलम्बं कृतवतः तमिलनाटराज्यपालस्य आर् एन् रवेः प्रक्रमं विरुध्य राज्यसर्वकारेण समर्पितायां याचिकायां न्यायमूर्तिः जे बि पर्दीवाला न्यायमूर्तिः आर् महादेवः इत्येतौ अन्तर्भूतेन   नीतिपीठेन विधिः प्रस्तुतः। 

  जनहित एव मूल्यवान् न राज्यपाल इति नीतिपीठेन प्रस्तुतम्। संविधानस्य २०० तममनुच्छेदं व्याख्याय एव राज्यपालानामधीशत्वे नीतिपीठेन स्पष्टता कृता।

 केरलेषु सार्वजनीनविद्यालयेषु २४,००० राज्यान्तरछात्राः। 

इतरराष्ट्रेभ्यः प्राप्तवन्तः अपि सन्ति। 

कोच्ची> केरलराज्ये समाप्यमाने शैक्षिकवर्षे एल् पि स्तरादारभ्य उच्चतरस्तरपर्यन्तं सर्वकार-साह्याधिष्ठितविद्यालयेषु अकेरलीयाः २४,०६१ छात्राः अध्ययनं कृतवन्तः। तेषु  बहुभूरिशः केरले वृत्त्यर्थमागतानाम् इतरराज्यस्थानां कर्मकराणां अपत्यानि सन्ति। २७ लक्षम् अतिथिश्रमिकाः केरलमधिवसन्तीति सूच्यते। 

  तमिलनाटीयानां कर्मकराणां ४३२१ अपत्यानि अध्येतृरूपेण सन्ति। असमः, पश्चिमवंगः, बिहारं इत्येतेभ्यः राज्येभ्यः एकैकस्मात् त्रिसहस्राधिके छात्राः सन्ति। आहत्य २४ राज्येभ्यः आगतवन्तः छात्राः सन्ति।  न्यूनातिन्यूनं  छात्राः नागालान्डतः सन्ति - १३।

 इतरराष्ट्रेभ्यः अपि छात्रा‌ः केरलमागत्य अध्ययनं कुर्वन्ति। नेपालतः ३४६, श्रीलङ्का, फिलिपीन्स्,मालिद्वीप राष्ट्रेभ्यश्च छात्राः केरले अध्ययनं कुर्वन्ति। राज्यान्तरछात्रेभ्यः सविशेषपाठ्यपरियोजनाः अपि प्रशासनेन परिपाल्यन्ते।

Tuesday, April 8, 2025

 'पोयं ४' समुद्रमापतितम्। 

ऐ एस् आर् ओ संस्थायाः दौत्यं विजयीभूतम्। 

बङ्गलुरु> ऐ एस् आर् ओ संस्थया विक्षिप्तः पोयं ४ इति शास्त्रीयानुसन्धानोपग्रहः पञ्चनवति  दिनानां दौत्यं सफलीकृत्य भारतमहासमुद्रं निपतितः। बहिराकाशं मालिन्यमुक्तं कर्तुं भारतस्य अभियोजनायाः प्रयत्नफलमपि भवति इदं प्रत्यानयनम्। 

 भारतस्य 'डोकिङ्' परीक्षणाभियोजनायाः अंशतया विक्षिप्तस्य 'स्पेडेक्स्' इति पेटकस्य अंशतया गते डिसंन्बरमासे आसीत् पोयस्य विक्षेपः। बहिराकाशे धान्यबीजानाम् अङ्कुरीकरणं, यन्त्रहस्तानां परीक्षणानि इत्यादीनि आसन् पोयस्य दौत्यानि। चतुर्विंशति उपकरणानि उपग्रहे आसन्।  पञ्चाशदधिकत्रिशतं कि मी दूरे आसीत् उपग्रहस्यास्य संस्थितिः।

Monday, April 7, 2025

 चीन- यू एस् वाणिज्ययुद्धं काठिन्यं प्राप्नोति।

   वाषिङ्टण्> चीन-यू एस् राष्ट्रयोः मिथः वाणिज्ययुद्धं काठिन्यं प्राप्नोति। चीनं प्रति ५०% अधिकः करः ट्रम्पेन ख्यापितः। कतिपयदिनात् पूर्वं अमेरिकस्य पण्यानां कृते ३४% करः चीनेन प्रख्यापितः आसीत्। अस्य घटनयां प्रतिफलनात्मकरीत्या भवति ट्रम्प् महोदयस्य इदं ख्यापनम्।

   सर्वेषां राष्ट्राणां कृते 10% आधारकरः ट्रम्पेण निर्दिष्टः आसीत् । अनेन चीनं प्रति आहत्य 94% करः भविष्यति।

 ए ऐ सि सि सम्मेलनं श्वः अहम्मदाबादे आरप्स्यते। 

नवदिल्ली> नीतिमार्गः, समर्पणं, प्रतिज्ञा, संग्रामः इत्येतानि उद्घोषणावाक्यानि अवलम्ब्य भारत राष्ट्रिय कोण्ग्रस् दलस्य प्रवर्तकसमित्याः [ए ऐ सि सि] दिनद्वयात्मकं सविशेषं  सम्मेलनं कुजवासरे अहम्मदाबादे सबर्मतीतीरे आरप्स्यते। 

  ए ऐ सि सि इत्यस्य देशीयाध्यक्षरूपेण महात्मागान्धिनः पदप्राप्तेः शततमवर्षः, सर्दार् वल्लभाय् पट्टेलस्य १५० तमं जन्मवार्षिकं च समागते अवसरे अस्ति द्वयोः जन्मस्थाने अहम्मदाबादे सम्मेलनस्य आयोजनम्।

 विधवाः प्रति पृथक्करणस्य उच्छेदनं कृत्वा महाराष्ट्रग्रामाः। 

मुम्बई> वैधव्यं प्राप्तवत्यः महिलाः क्लेशपूर्णं जीवितमानीयमानान् अनाचारान् समाप्य महाराष्ट्रस्थाः सप्तसहस्राधिकाः ग्रामाः। राज्यस्थेषु २७,००० अधिकासु ग्रामपञ्चायत् सभासु ७६८३ ग्रामसभाः सामाह्वाय एतदधिकृत्य प्रख्यापनं कृतम्। 

  विधवाभिः अनुभूतान् अनाचारान् विरुघ्य प्रवर्तमानेन प्रमोद सिन्जाडे इत्यनेनेदं संख्यात्मकं वृत्तान्तं प्रस्तुतम्। यदि काचन महिला विधवा जाता तर्हि सा गणेशपूजा, विवाहानुबन्धाः 'हल्दी-कुङ्कुमादिकाः कार्यक्रमाः, इतराणि मङ्गलकर्माणि इत्यादिभ्यः अपसृता आसीत्। 

  २०२२ तमे वर्षे कोलापुरजनपदे हेर्वाडग्रामः विधवाः विरुध्य अनाचारान् अन्धविश्वासान् च उन्मूलनं कृत्वा तासां प्रौढ्या जीवितुमधिकारं संरक्षितुं प्रथमतया पदं चलति स्म।