OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 14, 2025

 शत्रवः भारतस्य 'लेसर'मण्डलाबद्धाः।

कर्णूलः [आन्ध्रप्रदेशः]>  किलोमीटर् मितदूरे वर्तमानानि शत्रूणामायुधानि निमेषाभ्यन्तरे भञ्ज्यमानं लेसररश्म्यधिष्ठितं आयुधसंविधानं भारतेन सज्जीकृतम्। डि आर् डि ओ नामिकया राष्ट्ररक्षागवेषणविकसनसंस्थया भवत्येतत् नूतनं आयुधसंविधानं साक्षात्कृतम्। आकाशे लक्ष्यस्थाने विद्यमानं ड्रोण् यन्त्रं लेसररश्मिभिः परिभञ्ज्य एव भारतस्य अयमुपलब्धिः। 

  लेसररश्मिमुपयुज्य शत्रुं प्रतिरोद्धुं शक्यमानं चतुर्थं राष्ट्रमिति ख्यातिरपि संलब्धा। एम् के - २ [ए] डि ई डब्ल्यू [ MK - 2(A) LDEW] Laser Directed Energy Weapon इत्यस्ति अस्य आयुधपरिकल्पनस्य नामधेयः। अचिरेण इदं भारतसेनायाः अंशः भविष्यति।

Sunday, April 13, 2025

 छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः। 

बीजपुरं> छत्तीसगढराज्ये बीजपुरे सुरक्षासेनया सह प्रतिद्वन्द्वे त्रयः मावोवादिनः व्यापादिताः। इन्द्रावति देशीयोद्यानस्य समीपे वनप्रदेशे शनिवासरे आसीत् प्रतिद्वन्द्वः। प्रदेशात् आयुधानि स्फोटकवस्तूनि च निगृहीतानि। अस्मिन् वर्षे आहत्य १३८ मावोवादिनः हताः।

 विधेयके निर्णयकार्याय राष्ट्रपतेरपि कालावधिः। 


नवदिल्ली> राज्येभ्यः राज्यपालैः प्रेषितानां विधेयकानामुपरि निर्णयं कर्तुं राष्ट्रपतेरपि समयः आदिष्टः सर्वोच्चन्यायालयेन।  मासत्रयाभ्यन्तरे निर्णयः कार्य इति सर्वोच्चन्यायालयेन आदिष्टः। प्रथमतया एव राष्ट्रपतिमपि कालावधिनिर्देशः। 

  गतदिने राज्यपालानां कृते सर्वोच्चनीतिपीठेन आदिष्टानां मार्गनिर्देशकानाम् अंशतया एव राष्ट्रपतिमुद्दिश्य समयक्रमोSपि स्पष्टीकृतः।

 ऐ एस् एल् किरीटधारी मोहन बगानः। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् पादकन्दुकस्पर्धापरम्परायाः अन्तिमक्रीडायां बङ्गलुरु एफ्  सि दलं पराजित्य मोहन बगान सूपर् जयन्ट्स् दलं किरीटं समधारयत्। एकं विरुध्य द्वे इति लक्ष्यकन्दुकक्रमेण एव मोहन बगानस्य विजयप्राप्तिः।

Saturday, April 12, 2025

 ऐ एस् एल् पादकन्दुके अद्य अन्तिमस्पर्धा। 

मोहन् बगान् × बेङलुरु @ रात्रौ ७. ३०। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् [ऐ एस् एल्] नामिकायाः पादकन्दुकस्पर्धापरम्परायाः अन्त्यचरणे अद्य मोहन् बगान् सूपर् जयन्ट्स् दलः बङ्गलुरु एफ् सि दलश्च मिथः स्पर्धिष्येते। रात्रौ ७. ३० वादने साल्ट् लेक् क्रीडाङ्कणे स्पर्धा सम्पत्स्यते।

 बीहारे तडित्प्रहारेण त्रयोदशजनाः मृताः।

   बेगुसरायी> बीहारे तडित्प्रहारेण त्रयोदश जनाः मृताः। दर्भङ्ग, मधुबनि, समस्तिपुर् इत्यादिषु जिल्लासु एव तडित्प्रहारमृत्युः प्रतिवेदितः। बेगुसरायां पञ्च जनाः, दर्भङ्गायां चत्वारि जनाः च मृताः। मधुबन्यां त्रयः जनाः समस्तिपुरे एकः च मृत्युमुपगताः। बुधवासरे प्रातःकाले मेघगर्जनेन तडित्सहिता तथा अतिशक्ता अनिलसाहिता वर्षोपलपातः एतासु जिल्लासु प्रतिवेदितः अस्ति।

 पश्चात्तापरहितः तेहावूर राणः। 

मुम्बई आक्रमणे राणस्य भागभाक्त्वं समर्थयितुं भारतस्य सकाशे प्रमाणानि सन्तीति यू एस् नीतिन्यायविभागस्य प्रस्तुतिः। 


नवदिल्ली> अमेरिकातः आनीय दिल्ल्याम् एन् ऐ ए संस्थया निगृहीतः परमभीकरः तेहावूर राणः मुम्बई भीकराक्रमणानन्तरं केवलं पश्चात्तापरहितः आसीदिति यू एस् राष्ट्रस्य नीतिन्यायविभागेन वाचा प्रकाशितम्। यू एस् अधिकृतैः वार्तालेखद्वारा सूचितं यत्  मुम्बई आक्रमणस्य सूत्रधारप्रमुखेण डेविड् कोल्मान् हेड्ली इत्यनेन सह भाषमाणे सन्दर्भे भारतीयाः आक्रमणार्हाः भवन्तीति राणेन उक्तस्य प्रमाणानि सन्तीति  भारतेन सूचितम्। आक्रमणे निहतेभ्यः भीकरेभ्यः पाकिस्थानस्य परमबहुमतिं दास्यति इति तयोः दूरवाणीसम्भाषणं प्रमाणीभूतमस्ति। 

  प्रत्युत, अन्वेषणाधिकारिकर्तृकस्य परिपृच्छनस्य विशदांशाः न  बहिरागताः। मुम्बई भीकराक्रमणे गूढचिन्तनस्य व्याप्तिं पाकिस्थानस्य भागित्वं च प्रमाणीकर्तुं राणात् सूचनाः लप्स्यन्ते इति अन्वेषणसंघस्य प्रतीक्षा।

Friday, April 11, 2025

 तहावूर् राणः मुम्बई भीकराक्रमणस्य सूत्रधारेषु प्रमुखः। 

परिपृच्छा अनुवर्तते। 

तहावूर् हुसैन राणः। 

नवदिल्ली> २००८ नवम्बर् २६ तमे दिनाङ्के आपन्नस्य भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् गतदिने भारताय समर्पितः तहावूर् हुसैन राणः। मुम्बई भीकराक्रमणस्य इतरः सूत्रधारः दावूद गिलानि इति डेविड् कोल्मान् हेड्ली इत्यस्य आत्ममित्रं चास्ति राणः। 

  पाकिस्थानतः समुद्रमार्गेण मुम्बय्यां प्राप्तवन्तः दश लष्कर् ई तोय्ब भीकराः ताजमहल् राजमन्दिरं होटेल्, छत्रपति शिवजी रेल् निस्थानं, नरिमान् हौस् इत्येतेषु मुख्यस्थानेषु आक्रमणं कृत्वा १६६ जनान् व्यापादितवन्तः। शतशः क्षताः जाताः। ६० होराः अनुवर्तिते प्रतिरोधे अज्मल् कसबः नामकात् ऋते अवशिष्टाः  नव भीकराः भारतसैनिकानां भुषुण्डिप्रयोगेण निहताः। 

  ह्यः दिल्लीमानीतं तहावुर् राणम् एन् ऐ ए संस्थायाः निदेशकप्रमुखस्य नेतृत्वे १२ अधिकारिणः पिरिपृच्छां कुर्वन्ति।

 चीनस्य उपरि १४५% ट्रम्पशुल्कः। 

वाषिङ्टणः> चीनात् यु एस् राष्ट्रम् आयातमानानाम् उत्पन्नानां आहत्य १४५% शुल्कः दातव्य इति वैट् हौस् अधिकारिभिः निगदितम्। बुधवासरे ट्रम्पेन १२५% करः एव प्रख्यापितः। परन्तु तेन सह पूर्वनिश्चितः २०% शुल्कोSपि दातव्यः इति वैट् हौसेन सूचितम्। एषः शुल्कः गुरुवासरतः प्रवृत्तिपथमागतः। 

  अस्मिन् मासे प्रथमं ३४% प्रतिकारशुल्क एव चीनस्य उपरि विहितम्। तदानीं २०% शुल्कः वर्तितः आसीत्। तस्य प्रत्युत्तररूपेण चीनेन अमेरिकायाः उपरि ३४% शुल्कः विहितः। तस्मिन् कुपितः ट्रम्पः ५०% अधिकशुल्कं विहितवान्। अनेन चीनस्य उपरि शुल्कः १०४% अभवत्। तस्मिन् चीनस्य प्रतिकारः ८४% इति वर्धापयत्। तदा गतदिने चीनात् शुल्कः १२५% कृतः ट्रम्पेण। आहत्य १४५% च। शुल्कयुद्धः अनुवर्तते।

 केरले 'के-स्मार्ट्' परियोजना पञ्चायत्तकेन्द्रेषु समारब्धा। 

९०० अधिकाः सर्वकारसेवाः  ओण्लैन् द्वारा लभन्ते। 

अनन्तपुरी> सर्वकारीयसेवाः  सुतार्यतया वेगेन च लभ्यमाना 'के-स्मार्ट्' इति अन्तर्जालीयवेदिका केरलस्य त्रिस्तरपञ्चायत्त् मण्डले समारब्धा। अस्याः परियोजनायाः राज्यस्तरीयम् उद्घाटनं मुख्यमन्त्री पिणरायि विजयः निरवहत्। 

  सामान्यजनैः निरन्तरमपेक्ष्यमाणानि नवशताधिकानि प्रमाणपत्राणि इतरसर्वकारीयपत्राणि च अनया ओण्लैन् वेदिकया लभ्यन्ते। 

 तद्देशशासनविभागस्य मन्त्री एम् बि राजेषः अध्यक्षः अभवत्। प्रशासनस्वमन्त्री के राजः, भक्ष्यवितरणमन्त्री  जि आर् अनिलः, सामाजिकशिक्षामन्त्री वि शिवन् कुट्टिः इत्यादयः भाषणं कृतवन्तः।