भीकरप्रवर्तनस्य अनुवर्तनं पाकिस्थानस्य सर्वनाशाय भविष्यतीति नरेन्द्रमोदी। .jpg)
ओदंपुरस्थं व्योमनिलयं प्राप्तवान् नरेन्द्रमोदी सैनिकैः सह सम्भाषणे।
नवदिल्ली> यदि पाकिस्थानः भीकरप्रवर्तनम् अनुवर्तिष्यते तर्हि तत् तद्राष्ट्रस्य सर्वनाशाय भविष्यतीति भारतप्रधानमन्त्री नरेन्द्रमोदी असूचयत्। ओपरेशन् सिन्दूरम् इत्यस्यानन्तरं आदंपुरे व्योमसैनिकनिलयं सम्प्राप्य सैनिकान् अभिसम्बोधयन् भाषमाणः आसीत् नरेन्द्रमोदी।
पाकिस्थानेन विशीर्णमिति तैरभिमानितेषु भारतीयव्योमनिलयेषु अन्यतमं भवति पञ्चाबस्थं आदंपुरम्। सैनिकनिलयः सर्वथा सुरक्षितः इति प्रमाणीकर्तुमपि आसीत् प्रधानमन्त्रिणः इदं प्रातःकालसन्दर्शनम्।
आदंपुरे प्राप्तवान् मोदीवर्यः 'एस् ४००' इति व्योमप्रतिरोधसंविधानम् अभिवाद्य सैनिकैः सह भाषणं कृत्वा तेषां पराक्रमशीलं, स्थिरोत्साहं च प्रकीर्तितवान्।
.jpeg)





.webp)

.webp)

