केरलं भारते प्रथमम् अतिदारिद्र्यमुक्तं राज्यम्।
+ २०२१ तमे आरब्धस्य अतिदारिद्र्यमोचनयज्ञस्य गुणभोक्तारः ५९,२८३ परिवाराः।
+ केरलप्रसूतिदिने मुख्यमन्त्रिणा उद्घोषणं कृतम्।
 |
| अतिदारिद्र्यमुक्तराज्योद्घोषणकार्यक्रमे मुख्यमन्त्रिणा सह मम्मूट्टिवर्यः इतरे मन्त्रिणश्च। |
अनन्तपुरी> केरलराज्यस्य ६९ तमे जन्मदिने [नवम्बर् १] राज्यम् अतिश्रेष्ठां कामपि उपलब्धिं सम्प्राप। ५९,२८३ परिवारीयाः उपद्विलक्षं जनाः अतिदारिद्र्यात् मुक्ताः जाताः।
सर्वकारस्य निर्णयमनुसृत्य २०२१ तमे वर्षे केरले विविधमण्डलेषु अतिदारिद्र्यम् अनुभूयमानान् जनानधिगन्तुं विविध प्रशासनविभागान् क्रोडीकृत्य समग्रेक्षणमारब्धम्। भोजन--वास-स्वास्थ्य-प्रत्यभिज्ञानपत्र-वृत्ति-औषधचिकित्सादिषु विषयेषु अतिनिस्वताम् अनुभूयमानाः ६४,००६ परिवाराः सन्तीति अधिगतम्। नियतलक्ष्यं विना अटनं कुर्वतः २३१ परिवारान्, नैकेषु प्रादेशिकप्रशासनेषु अन्तर्भूतान् परिवारान् च अभिव्याप्य ४७२३ परिवाराः अल्पकालिकेन आवलीतः निष्कास्य अवशिष्टानां ५९,२८३ कुटुम्बानां निस्वतामपाकर्तुं विविधायोजनाः सर्वकारेण कृताः। अनेन संयुक्तराष्ट्रसभायाः प्रथमं द्वितीयं च सुस्थिरविकासलक्षद्वयं [दारिद्र्यनिर्माजनं बुभुक्षामोचनं च] पूर्णतया उपलभ्यमानं भारतस्य प्रथमं राज्यमिति स्थानं केरलाय अर्हते इति सर्वकारेण अभिमानीक्रियते।
गतदिने - शनिवासरे - आकारिते सविशेषे विधानसभासम्मेलने अनुशासनं ३०० अनुसृत्य मुख्यमन्त्री पिणरायि विजयः अतिनिस्वतानिर्मार्जितराज्यमधिकृत्य उद्घोषणं कृतवान्। ततः सायं राजधानीनगरे सम्पन्ने वर्णाभे प्रौढे च उत्सवोपेते कार्यक्रमे जनकीयमुद्घोषणं मुख्यमन्त्रिणा कृतम्। कैरल्याः श्रेष्ठाभिनेता मम्मूट्टिः विशिष्टातिथिः आसीत्।