OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, December 22, 2025

 दीर्घदूररेल्यात्राशुल्कं वर्धापितम्। 

नवदिल्ली> दीर्घदूररेल् यानेषु यात्राशुल्कमानं रेल् यानमन्त्रालयेन वर्धापितम्। २१५ किलोमीटर् दूरादधिकयात्रायै साधारणचीटिकानां एक पैसा प्रति किलोमीटर्, इतरेषां वातानुकूलितारक्षितस्तराणां पैसाद्वयं प्रति किलोमीटर् इति प्रकारेण वर्धनमस्ति। ५०० किलोमीटर् यात्रायै ५० रूप्यकाणां वर्धनं भविष्यति। 

  डिसम्बर् २६ तमतः वर्धापितं चीटिकामानं प्रबलं भवेत्। ६०० कोटिरूप्यकाणि अधिकायः प्रतीक्षते। रेल्मार्गविकासानुसारं व्ययोSपि वर्धते इत्यत एव यात्राशुल्कस्य वर्धनमिति मन्त्रालयेन स्पष्टीकृतम्।

Saturday, December 20, 2025

 बङ्गलादेशे पाक्चारसंघटनं मुष्टिं बध्नाति। 

भारतविरुद्धतासृष्टिः लक्ष्यम्। 

बङ्गलादेशे भारतहैकम्मीषन् कार्यालयं प्रति विधत्तः प्रतिषेधः। 

नवदिल्ली> किञ्चित्कालानन्तरं बङ्गलादेशः पुनरपि राजनैतिकास्थिरतां नीयते। तादृशीमवस्थां चूषयित्वा पाकिस्थानस्य चारसंघटनम् ऐ एस् ऐ नामकं तत्र भारतविरुद्धमनोभावान् प्रवर्धयितुं कुत्सितप्रवर्तनानि आरभत इति भारतस्य गुप्तान्वेषणसंस्थया जागर्तिसूचना दत्ता। 

  २०२४ तमे वर्षे षेय्क् हसीना सर्वकारस्य पतनात्परं जमा अत्ते इस्लामी, इन्क्विलाब मोञ्चो इत्यादिसंघटनैः सह हस्तग्रहणं कृत्वा ऐ एस् ऐ  कुत्सितप्रवर्तनानां शीघ्रतां करोतीति भारतगुप्तान्वेषणविशकलनकुशलैः सूचितम्। बङ्गलादेशे धार्मिकतीव्रवादस्य प्रोत्साहनेन भारतविरुद्धतां जनयेत् इति लक्ष्यम्। गतदिने भारतहैकम्मीषन् कार्यालयं प्रति विधत्तम् आक्रमणं भारतेन आशङ्कया विलोक्यते।

 कैरल्याः अनुगृहीतचलच्चित्रकारः श्रीनिवासः दिवंगतः।


कोच्ची> अभिनेता, दृश्यरूपकथा, निदेशकः इत्यादिरूपेण मलयालचलच्चित्रमण्डलाय नूतनभावं दत्तवान् विख्यातः श्रिनिवासः [६९] दिवंगतः। उपद्विशतं चलच्चित्रेषु विभिन्नवेषान् कृत्वा, तावदेव   चलच्चित्रेभ्यः कथा-पटकथा-संभाषणानि विरच्य चलच्चित्रास्वादकहृदयेषु अनुपमं स्थानं प्राप्तवतः तस्य अन्त्यं तृप्पूणित्तुरास्थे सर्वकारातुरालये अद्यः प्रभाते अभवत्। 

  ४८ वर्षाणि चलच्चित्रक्षेत्रे विराजमानः श्रीनिवासः सामान्य-मध्यस्तरीयजनानां सामाजिकनिस्सहायावस्थां, राजनैतिकमण्डलापचयं च आक्षेपहासस्य अनुगमनेन सह तस्य चलच्चित्राणि प्रकाशितवान्। "वेल्लानकलुटे नाट्', 'चिन्ताविष्टयाय श्यामला', 'सन्देशं', 'पञ्चवटिप्पालं' 'नाटोटिक्काट्ट्', 'ञान् प्रकाशन्' इत्येतानि कतिपयोदाहरणानि भवन्ति। 

  १९५६ तमे वर्षे कण्णूरजनपदस्थे पाट्यं प्रदेशे आसीत्तस्य जननम्। मलयालचलच्चित्रमण्डले स्वकीयां व्यक्तिमुद्रां प्रपातितवन्तौ विनीत् श्रीनिवासः, ध्यान् श्रीनिवासः च तस्य पुत्रौ स्तः। अद्य मध्याह्नानन्तरं एकवादनतः एरणाकुलं नगरस्थे सभागारे [Town Hall] सामाजिक दर्शनं भविष्यति।

Latest news

 केरले तीव्र मतदानावलीपरिष्करणं [SIR] प्रथमसोपानं समाप्तम्। 

अनन्तपुरी> केरले मतदायकावल्याः समग्रपरिष्करणस्य [SIR] प्रथमचरणं समाप्तम्। संक्षिप्तावलिः, परिष्करणवेलायां बहिर्गतानामावलिः च डिसम्बर् २३ तमे दिनाङ्के प्रकाशयिष्यति। सर्वेषां राजनैतिकदलानां कृते आवल्याः प्रतिकृतिः परिशोधनार्थं लभते, मतदानिनामपि ओण् लैन् द्वारा आवलीपरिशोधनाय सुविधा लभते चेति मुख्यनिर्वाचनाधिकारी रत्तन् यू केल्करः प्रस्तुतवान्। 

  आवल्याः उपरि आक्षेपः अस्ति चेत् जनुवरी २२ पर्यन्तं आक्षेपान् समर्पितुं शक्यते। २४. ८१ लक्षं जनाः आवल्याः बहिर्नीताः इति सूच्यते। तेषु ६. ४९ लक्षं  संख्याकाः मृताः भवन्ति। ८. २१ लक्षं वासपरिवर्तनं कृताः। ६. ८९ लक्षं जनाः नाधिगताः। अन्तिमा आवलिः फेब्रुवरि २१ तमे दिनाङ्के प्रकाशयिष्यते।

 बहुजनप्रक्षोभनेतुः मरणम्

बङ्गलादेशः संघर्षभरितः। 

बहुत्र अक्रमः, दाहनम्। 

मृत्युंगतस्य उस्मान हादिनः चित्रेण सह प्रक्षोभकारिणः। 

धाक्का>भूतपूर्वप्रधानमन्त्रिण्याः षेक् हसीनायाः स्थानत्यागाय हेतुभूतस्य बहुजनप्रक्षोभस्य नायकस्य हत्यया बङ्गलादेशः पुनरपि संघर्षकलुषः वर्तते। भुषुण्डिप्रयोगेण परिचर्यायां वर्तमानः 'इन्क्विलाब मोञ्चो' संघटनस्य प्रायोजकः षीफ् उस्मान हादी नामकः सिङ्गपूरस्थे  आतुरालये गतदिने मृत्युं प्राप। तस्य मृत्युवृत्तान्ते अल्पकालीनसर्वकारस्य उपदेष्टा मुहम्मदयूनुस् इत्यनेन राष्ट्राय निगदिते आराष्ट्रं प्रतिषेधसूचकेन अक्रमपरम्पराः अग्निदाहकक्रियाश्च आरभन्त। 

  गतसप्ताहे धाक्कायां बिजोयनगरे निर्वाचनप्रचरणकार्यक्रमे भागं कुर्वन्तं हादिं लक्ष्यीकृत्य मुखावरणधारिणः केचन भुषुण्डिप्रयोगं कृतवन्तः। विशिष्टचिकित्सार्थं सः सिङ्गपूरं नीतः। तत्र मृत्युरभवत्।

Friday, December 19, 2025

 छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः।

सुक्मा> छत्तीसगढे सुक्माजनपदे मावोवादि-सुरक्षासेनयोर्मध्ये जाते प्रतिद्वन्द्वे त्रयः मावोवादिनः मारिताः। एषु एका महिला आसीत्। गोलपल्लिनामकस्थलस्य समीपे वनप्रदेशे आसीत् संघट्टनम्। 

 न्याया. सौमन सेनः केरलस्य उच्चन्यायालयाधिपः। 

नवदिल्ली> केरलस्य उच्चन्यायालयस्य आगामि मुख्यन्यायाधिपरूपेण सर्वोच्चन्यायालयसमित्या  न्याया. सौमन सेनः निर्दिष्टः। इदानीं मेघालयस्य मुख्यन्यायाधिपः भवति सौमन सेनः। 

  जनुवरिमासे नवमदिनाङ्के  वर्तमानीनः मुख्यन्यायाधिपः नितिन जंदारः सेवानिवृत्तः भविष्यति। तत्स्थाने अस्ति न्यायाधीशस्य सौमनस्य नियुक्तिः। कोल्कोत्ताप्रदेशीयो भवत्ययम्। केरलोच्चन्यायालयस्य न्यायाधिपं ए मुहम्मद मुष्ताखं सिक्किमराज्यस्य मुख्यन्यायाधीशं कर्तुमपि निर्देशः कृतः।

 नरेन्द्रमोदिने ओमानस्य  परमोन्नतनागरिकबहुमतिः। 

मोदिने ओर्डर् ओफ् ओमान् पुरस्कारसमर्पणम्। 

मस्कट्> ओमानराष्ट्रस्य परमोन्नतनागरिकबहुमतिः 'ओर्डर् ओफ् ओमान्' भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने समर्पिता। ओमानस्य शासनाधिकारी सुल्तान् हैतं बिन् तारिखः मस्कटे अल् बराका राजभवने  मोदिने एनं  पुरस्कारं दत्तवान्। भारत-ओमानयोः सौहार्दं प्रबलीकर्तुं मोदिना कृतं योगदानं पुरस्कृत्य आसीदियं बहुमतिः। 

  मोदिने कस्माच्चन विदेशराष्ट्रात् लभ्यमानः २८ तमः पुरस्कारो भवत्येषः। गतदिने 'ग्रेट् ओणर् निषान् ओफ् एत्योपिया' नामकः एत्योपियाराष्ट्रस्य पुरस्कारः अपि मोदिवर्याय लब्धः।

Thursday, December 18, 2025

 नवदिल्ल्यां वायूप्रदूषणम् अतिरूक्षम्।

50% कर्मकराः गृहे उपविश्य कार्यालयकर्म करणीयः। उल्लङ्घयति चेत् दण्डः दापयिष्यति।

  नवदिल्ली> वायूप्रदूषणसमस्या अतिरूक्षे जायमाने सन्दर्भेऽस्मिन् सर्वाः सर्वकारीयसंस्थाः निजीयसंस्थाः च प्रतिशतं पञ्चाशत् (50%) कर्मकराः कार्यलयकर्म गृहात् एव करणीय इति दिल्लीसर्वकारेण आदेशः दत्तः। आदेशं उल्लङ्घयति चेत् दण्डः दापयिष्यति इति पूर्वसूचना अपि सर्वकारेण दत्ता। नवदिल्ल्याम् अस्मिन् ऋतौ वायुमानं दिसंबर् १५ तमे दिने प्रातःकाले ४९८ 'ए क्यू ऐ सिवियर् प्लस्' विभागे रेखाङ्कितम्। शनिवासरादारभ्य मङ्गलवासरपर्यन्तं नवदिल्ल्याम् अतिशक्तेन हिमधूल्यावरणेन बहूनि यानमार्गापघाताः दुरापन्नाः।

 प्रधानमन्त्री ओमाने। 

उभयव्यापारसन्धिः हस्ताक्षरीकरिष्यते। 

नरेन्द्रमोदिने मस्कट् विमाननिलये दत्तं स्वीकरणम्। 

मस्कट्> त्रिराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी बुधवासरे ओमानराष्ट्रं सम्प्राप्तवान्। मोदिनः सान्निध्ये उभयोरपि राष्ट्रयोर्मध्ये स्वतन्त्रव्यापारसन्धेः अङ्गीकारः भविष्यति। सन्धेः निर्वहणाय केन्द्रवाणिज्यमन्त्री पीयूष गोयलः मस्कटे प्राप्तवानस्ति। 

  २०२३ तमे वर्षे आरब्धा 'सेपा' नामिका आर्थिकसहयोगसन्धिचर्चा एव इदानीं सार्थकीभवति। 'गल्फ् को-ओपरेषन् कौण्सिल्' इत्यत्र तृतीयं बृहत्तमम् आयातलक्ष्यस्थानमस्ति ओमानः। २०२४-२५ तमे १०५० कोटि डोलरमितस्य भारत-ओमानोभयपक्षव्यापारः सम्पन्नः। 

  ओमाने मोदिने 'गार्ड् ओफ् ओणर्' इत्यनेन सह हृद्यं स्वीकरणं प्रदत्तम्। ओमानस्य विदेशकार्यमन्त्री उपप्रधानमन्त्री च  सय्यिद् षिहाब बिन् तारिख् अल् सैदः मस्कट् विमाननिलयं प्राप्य स्वीकृतवान्।

 तुषारप्रपातः - चतुर्थं टि-२० परित्यक्तम्। 

लख्नौ> कठिनेन तुषारप्रपातेन भारत-दक्षिणाफ्रिकयोः चतुर्थः टि-२० क्रिकटप्रतिद्वन्द्वः परित्यक्तः। किमपि कन्दुकक्षेपणं न संवृत्तम्। परम्परायां भारतं २ -१  इति रीत्या अग्रे तिष्ठति। पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः श्वः अहम्मदाबादे सम्पत्स्यते।

 राष्ट्रिय विद्यालयीयकायिकस्पर्धायां केरलस्य वीरतापदम्

सीनियर् विभागे वीरतापदं प्राप्तः केरलसंघः।

लख्नौ>  विद्यालयछात्राणां राष्ट्रियकायिकोत्सवे केरलं किरीटं प्राप। सीनियर्, जूनियर्, सब् जूनियर् इति त्रिषु विभागेष्वपि केरलीयछात्राः प्रथमस्थानं प्राप्तवन्तः। प्रथमतया एव केरलस्य विभागत्रये अपि सम्पूर्णाधिपत्यम्। हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः, दिल्ली इत्यादिषु राज्यस्थेषु नगरेषु आसन् भिन्नभिन्नस्पर्धाः सम्पन्नाः।

Wednesday, December 17, 2025

 चतुर्थं टि २० अद्य। 

लक्ष्यं परम्पराप्राप्तिः। 

लख्नौ> दक्षिणाफ्रिकां विरुध्य टि-२० क्रिकट् परम्परायाः चतुर्थः प्रतिद्वन्द्वः अद्य सायं भविष्यति। पञ्चस्पर्धात्मिकपरम्परायां तिस्रायामतीतायां भारतं २ - १ इति क्रमेण अग्रे अस्ति। एतां स्पर्धामपि विजित्य परम्पराप्राप्तिरेव भारतस्य लक्ष्यम्।

 प्रादेशिकप्रशासनद्वारा दुरन्तनिवारणं - 

केन्द्रसर्वकारेण ५०७ कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> राज्यस्थाभिः प्रादेशिकसर्वकारसंस्थाभिः दुरन्तसाध्यतालघूकरणाभियोजनानि प्रचालयितुं ५०७. ३७ कोटि रूप्यकाणि केन्द्रप्रशासनेन अनुमोदितानि। गृहमन्त्रिणा अमित शाहेन अध्यक्षताम् वहमानया उच्चस्तरीयसमित्या २० राज्येभ्यः एव धनराशिः अनुमोदितः। 

  प्राकृतिकदुरन्तान् निरोद्धुम् अभिमुखीकर्तुं च समाजान् सज्जीकर्तुमुद्दिश्य २०२१ तमे वर्षे आसीत् मोदिसर्वकारेण इयमभियोजना उद्घोषिता। इदानीमियं ग्रामतलेषु व्याप्यमाना अस्ति।

 मध्यप्रदेशे स्वीकृतरक्तानां षट् बालकानां 'एछ् ऐ वि' बाधा। 

इन्दोर्> मध्यप्रदेशे विविधेभ्यः आतुरालयेभ्यः रक्तं स्वीकृतवन्तः 'तलासीमिया' रोगेण पीडिताः षट् बालकाः HIV [एय्ड्स्]  रोगाधीनाः जाताः। १२ - १५ वयस्काः भवन्ति  ते। तलासीमिया रोगपरिहाराय अनुक्रमेण रक्तपरिवर्तनस्यान्तरे एव रोगबाधा। 

  नूतनरक्तपरिवर्तनानन्तरं बालकानां शारिरिकास्वास्थ्ये जाते परं कृते परिशोधने आसीत् एयिड्स्  रोगनिर्णयः। अस्मिन् वर्षे जनुवरिमासतः मेय्मासपर्यन्तं कालपरिधौ आसीत्  रोगप्रकरणानि आवेदितानि। मध्यप्रदेशस्य स्वास्थ्यमन्त्रिणा राजेन्द्र शुक्लेन अन्वेषणाय आदेशः दत्तः।

 खनितबोम्बस्फोटनं

सैनिकः वीरमृत्युं प्राप।

श्रीनगरं> जम्मु-काश्मीरस्य कुप्वार जनपदे मृद्गुप्तबोम्बस्फोटनेन एकः सैनिकः मृतः। जम्मु-काश्मीरे 'लैट् इन्फन्ट्रि' विभागे हविल्दार् पदीयः सुबैर् अहम्मदनामकः एव वीरमृत्युं प्राप। सोमवासरे आसीदियं दुर्घटना। 

  काश्मीरस्य बहुत्र स्थानेषु भीकरैः सह प्रतिद्वन्द्वः अनुवर्तते। सोमवासरे उधंपुरे अपि भीकरैः सह प्रतिद्वन्द्वः जातः। तत्रैकः रक्षिपुरुषः वीरमृत्युं प्राप। कश्चन भीकरः भुषुण्डिपतितः अभवत्।

Tuesday, December 16, 2025

 नरेन्द्रमोदिनः जोर्दानस्य राज्ञा सह मेलनं सम्पन्नम्। 

अम्मान्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जोर्दानराष्ट्रस्य राजा अब्दुल्ला द्वितीयः इब्नु अल् हुसैन् इत्यनेन सह मेलनं सम्पन्नम्। प्रादेशिकतात्पर्योपेताः विषयाः चर्चिताः। उभयोरपि राष्ट्रयोः हितानुसारसौहृदस्य दृढीकरणं भविष्यतीति सूच्यते। 

  पूर्वम् अम्मानस्थं विमाननिलयं प्राप्तवन्तं मोदिवर्यं जोर्दानस्य प्रधानमन्त्री जाफर हसनः साक्षादागत्य स्वीकृतवान्।

 ऊन१९ - एष्या चषकक्रिकट्। 

पाकिस्थानं पराजित्य भारतं पूर्वान्त्यचक्रे। 

अबुदाबी> ऊननवदशवयस्कानाम् एष्या चषकक्रिकट् स्पर्धायाः चतुर्थांशे प्रतिद्वन्द्वे पाकिस्थानदलं ९० धावनाङ्कैः पराजित्य भारतं  पूर्वान्त्यचक्रं प्राविशत्। प्रवासिकेरलीयः आरोण् जोर्ज् इत्यस्य वैभवपूर्णं कन्दुकताडनं, दीपेष् देवेन्द्रस्य आग्नेयकं कन्दुकक्षेपणं, कनिष्क चौहानस्य सर्वतोमुखक्रीडा च भारतम् अनायासविजयं नयन्ति स्म। 

  प्रथमं कन्दुकताडनं कृतवान् भारतसंघः ४६. १ क्षेपणचक्रेषु २४० धावनाङ्कैः बहिर्नीतः। प्रत्युत्तरताडने  ४१. २ क्षेपणचक्रेषु १५० धावनाङ्कान् सञ्चित्य  पाकिस्थानसंघस्य सर्वे बहिर्गताः। ४६ धावनाङ्कान्,त्रीणि द्वारकाणि च उपलब्धवान् कनिष्क चौहानः श्रेष्ठक्रीडकः जातः।