राष्ट्रिय विद्यालयीयकायिकस्पर्धायां केरलस्य वीरतापदम्
सीनियर् विभागे वीरतापदं प्राप्तः केरलसंघः।
लख्नौ> विद्यालयछात्राणां राष्ट्रियकायिकोत्सवे केरलं किरीटं प्राप। सीनियर्, जूनियर्, सब् जूनियर् इति त्रिषु विभागेष्वपि केरलीयछात्राः प्रथमस्थानं प्राप्तवन्तः। प्रथमतया एव केरलस्य विभागत्रये अपि सम्पूर्णाधिपत्यम्। हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः, दिल्ली इत्यादिषु राज्यस्थेषु नगरेषु आसन् भिन्नभिन्नस्पर्धाः सम्पन्नाः।