दीर्घदूररेल्यात्राशुल्कं वर्धापितम्।
नवदिल्ली> दीर्घदूररेल् यानेषु यात्राशुल्कमानं रेल् यानमन्त्रालयेन वर्धापितम्। २१५ किलोमीटर् दूरादधिकयात्रायै साधारणचीटिकानां एक पैसा प्रति किलोमीटर्, इतरेषां वातानुकूलितारक्षितस्तराणां पैसाद्वयं प्रति किलोमीटर् इति प्रकारेण वर्धनमस्ति। ५०० किलोमीटर् यात्रायै ५० रूप्यकाणां वर्धनं भविष्यति।
डिसम्बर् २६ तमतः वर्धापितं चीटिकामानं प्रबलं भवेत्। ६०० कोटिरूप्यकाणि अधिकायः प्रतीक्षते। रेल्मार्गविकासानुसारं व्ययोSपि वर्धते इत्यत एव यात्राशुल्कस्य वर्धनमिति मन्त्रालयेन स्पष्टीकृतम्।