OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 20, 2025

 बहुजनप्रक्षोभनेतुः मरणम्

बङ्गलादेशः संघर्षभरितः। 

बहुत्र अक्रमः, दाहनम्। 

मृत्युंगतस्य उस्मान हादिनः चित्रेण सह प्रक्षोभकारिणः। 

धाक्का>भूतपूर्वप्रधानमन्त्रिण्याः षेक् हसीनायाः स्थानत्यागाय हेतुभूतस्य बहुजनप्रक्षोभस्य नायकस्य हत्यया बङ्गलादेशः पुनरपि संघर्षकलुषः वर्तते। भुषुण्डिप्रयोगेण परिचर्यायां वर्तमानः 'इन्क्विलाब मोञ्चो' संघटनस्य प्रायोजकः षीफ् उस्मान हादी नामकः सिङ्गपूरस्थे  आतुरालये गतदिने मृत्युं प्राप। तस्य मृत्युवृत्तान्ते अल्पकालीनसर्वकारस्य उपदेष्टा मुहम्मदयूनुस् इत्यनेन राष्ट्राय निगदिते आराष्ट्रं प्रतिषेधसूचकेन अक्रमपरम्पराः अग्निदाहकक्रियाश्च आरभन्त। 

  गतसप्ताहे धाक्कायां बिजोयनगरे निर्वाचनप्रचरणकार्यक्रमे भागं कुर्वन्तं हादिं लक्ष्यीकृत्य मुखावरणधारिणः केचन भुषुण्डिप्रयोगं कृतवन्तः। विशिष्टचिकित्सार्थं सः सिङ्गपूरं नीतः। तत्र मृत्युरभवत्।