OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 18, 2025

 प्रधानमन्त्री ओमाने। 

उभयव्यापारसन्धिः हस्ताक्षरीकरिष्यते। 

नरेन्द्रमोदिने मस्कट् विमाननिलये दत्तं स्वीकरणम्। 

मस्कट्> त्रिराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी बुधवासरे ओमानराष्ट्रं सम्प्राप्तवान्। मोदिनः सान्निध्ये उभयोरपि राष्ट्रयोर्मध्ये स्वतन्त्रव्यापारसन्धेः अङ्गीकारः भविष्यति। सन्धेः निर्वहणाय केन्द्रवाणिज्यमन्त्री पीयूष गोयलः मस्कटे प्राप्तवानस्ति। 

  २०२३ तमे वर्षे आरब्धा 'सेपा' नामिका आर्थिकसहयोगसन्धिचर्चा एव इदानीं सार्थकीभवति। 'गल्फ् को-ओपरेषन् कौण्सिल्' इत्यत्र तृतीयं बृहत्तमम् आयातलक्ष्यस्थानमस्ति ओमानः। २०२४-२५ तमे १०५० कोटि डोलरमितस्य भारत-ओमानोभयपक्षव्यापारः सम्पन्नः। 

  ओमाने मोदिने 'गार्ड् ओफ् ओणर्' इत्यनेन सह हृद्यं स्वीकरणं प्रदत्तम्। ओमानस्य विदेशकार्यमन्त्री उपप्रधानमन्त्री च  सय्यिद् षिहाब बिन् तारिख् अल् सैदः मस्कट् विमाननिलयं प्राप्य स्वीकृतवान्।