OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 20, 2025

 केरले तीव्र मतदानावलीपरिष्करणं [SIR] प्रथमसोपानं समाप्तम्। 

अनन्तपुरी> केरले मतदायकावल्याः समग्रपरिष्करणस्य [SIR] प्रथमचरणं समाप्तम्। संक्षिप्तावलिः, परिष्करणवेलायां बहिर्गतानामावलिः च डिसम्बर् २३ तमे दिनाङ्के प्रकाशयिष्यति। सर्वेषां राजनैतिकदलानां कृते आवल्याः प्रतिकृतिः परिशोधनार्थं लभते, मतदानिनामपि ओण् लैन् द्वारा आवलीपरिशोधनाय सुविधा लभते चेति मुख्यनिर्वाचनाधिकारी रत्तन् यू केल्करः प्रस्तुतवान्। 

  आवल्याः उपरि आक्षेपः अस्ति चेत् जनुवरी २२ पर्यन्तं आक्षेपान् समर्पितुं शक्यते। २४. ८१ लक्षं जनाः आवल्याः बहिर्नीताः इति सूच्यते। तेषु ६. ४९ लक्षं  संख्याकाः मृताः भवन्ति। ८. २१ लक्षं वासपरिवर्तनं कृताः। ६. ८९ लक्षं जनाः नाधिगताः। अन्तिमा आवलिः फेब्रुवरि २१ तमे दिनाङ्के प्रकाशयिष्यते।