OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 20, 2025

 कैरल्याः अनुगृहीतचलच्चित्रकारः श्रीनिवासः दिवंगतः।


कोच्ची> अभिनेता, दृश्यरूपकथा, निदेशकः इत्यादिरूपेण मलयालचलच्चित्रमण्डलाय नूतनभावं दत्तवान् विख्यातः श्रिनिवासः [६९] दिवंगतः। उपद्विशतं चलच्चित्रेषु विभिन्नवेषान् कृत्वा, तावदेव   चलच्चित्रेभ्यः कथा-पटकथा-संभाषणानि विरच्य चलच्चित्रास्वादकहृदयेषु अनुपमं स्थानं प्राप्तवतः तस्य अन्त्यं तृप्पूणित्तुरास्थे सर्वकारातुरालये अद्यः प्रभाते अभवत्। 

  ४८ वर्षाणि चलच्चित्रक्षेत्रे विराजमानः श्रीनिवासः सामान्य-मध्यस्तरीयजनानां सामाजिकनिस्सहायावस्थां, राजनैतिकमण्डलापचयं च आक्षेपहासस्य अनुगमनेन सह तस्य चलच्चित्राणि प्रकाशितवान्। "वेल्लानकलुटे नाट्', 'चिन्ताविष्टयाय श्यामला', 'सन्देशं', 'पञ्चवटिप्पालं' 'नाटोटिक्काट्ट्', 'ञान् प्रकाशन्' इत्येतानि कतिपयोदाहरणानि भवन्ति। 

  १९५६ तमे वर्षे कण्णूरजनपदस्थे पाट्यं प्रदेशे आसीत्तस्य जननम्। मलयालचलच्चित्रमण्डले स्वकीयां व्यक्तिमुद्रां प्रपातितवन्तौ विनीत् श्रीनिवासः, ध्यान् श्रीनिवासः च तस्य पुत्रौ स्तः। अद्य मध्याह्नानन्तरं एकवादनतः एरणाकुलं नगरस्थे सभागारे [Town Hall] सामाजिक दर्शनं भविष्यति।

Latest news