OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 20, 2025

 कैरल्याः अनुगृहीतचलच्चित्रकारः श्रीनिवासः दिवंगतः।


कोच्ची> अभिनेता, दृश्यरूपकथा, निदेशकः इत्यादिरूपेण मलयालचलच्चित्रमण्डलाय नूतनभावं दत्तवान् विख्यातः श्रिनिवासः [६९] दिवंगतः। उपद्विशतं चलच्चित्रेषु विभिन्नवेषान् कृत्वा, तावदेव   चलच्चित्रेभ्यः कथा-पटकथा-संभाषणानि विरच्य चलच्चित्रास्वादकहृदयेषु अनुपमं स्थानं प्राप्तवतः तस्य अन्त्यं तृप्पूणित्तुरास्थे सर्वकारातुरालये अद्यः प्रभाते अभवत्। 

  ४८ वर्षाणि चलच्चित्रक्षेत्रे विराजमानः श्रीनिवासः सामान्य-मध्यस्तरीयजनानां सामाजिकनिस्सहायावस्थां, राजनैतिकमण्डलापचयं च आक्षेपहासस्य अनुगमनेनसह तस्य चलच्चित्रैः प्रकाशितवान्। ' 'वेल्लानकलुटे नाट्', 'चिन्ताविष्टयाय श्यामला', 'सन्देशं', 'पञ्चवटिप्पालं' 'नाटोटिक्काट्ट्', 'ञान् प्रकाशन्' इत्येतानि कतिपयोदाहरणानि भवन्ति। 

  १९५६ तमे वर्षे कण्णूरजनपदस्थे पाट्यं प्रदेशे आसीत्तस्य जननम्। मलयालचलच्चित्रमण्डले स्वकीयां व्यक्तिमुद्रां प्रपातितवन्तौ विनीत् श्रीनिवासः, ध्यान् श्रीनिवासः च तस्य पुत्रौ स्तः। अद्य मध्याह्नानन्तरं एकवादनतः एरणाकुलं नगरस्थे सभागारे [Town Hall] सामाजिक दर्शनं भविष्यति।

Latest news