छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः।
सुक्मा> छत्तीसगढे सुक्माजनपदे मावोवादि-सुरक्षासेनयोर्मध्ये जाते प्रतिद्वन्द्वे त्रयः मावोवादिनः मारिताः। एषु एका महिला अन्तर्भवति। गोलपल्लिनामकस्थलस्य समीपे वनप्रदेशे आसीत् संघट्टनम्।