OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, May 17, 2025

 १३ प्रकारस्य अर्बुदस्य प्रतिरोधाय पादचरणम् औषधं, - नवीनम् अध्ययनम्।

  त्रयोदशप्रकारस्य अर्बुदव्याधेः परिहाराय नवीनतमम् अध्ययनं दर्शयति यत् प्रतिदिनं पादचरणं कृत्वा अर्बुद (Cancer) रोगं न्यूनं कर्तुं शक्यते इति। इदम् अनुसन्धानम् ओक्सफोर्ड् विश्वविद्यालयस्य वैज्ञानिकैः यु के देशस्य ८५,००० जनानां स्वास्थ्यविवरणानि विश्लेष्य कृतम्। षट् वर्षपर्यन्तम् निरन्तरं पठनं कृत्वा पश्चात्, वैज्ञानिकाः निगमनम् इदं प्राप्तवन्तः यत्  येन प्रतिदिनं पादाभ्यां चरति चेत् तेनैव अर्बुदः  न्यूनी भविष्यति इत्युच्यते। 

  अध्ययनस्य अनुसारं, प्रतिदिनं ७,००० पादचरणानि करोति चेत् अर्बुदस्य व्यापनशीलः प्रतिशतं एकादश (११%) इति न्यूनं भविष्यति, यदा ९,००० पादचरणानि क्रियते तर्हि रोगस्य व्यापनशीलः प्रतिशतं षोडश (१६%) इति न्यूनं भवति।   

  वैज्ञानिकाः सूचयन्ति यत् दीर्घकालात् उपवेशनस्य स्थाने मन्दगत्याः शारीरिकक्रियाः अपि रोगः न्यूनीकर्तुं सहायकं भवति। विशेषतया, यकृत्, श्वसनकोशः, वृक्का, गर्भाशयः, 'कोलन्', शिरः-कण्ठः, गर्भाशयः स्तनम् इत्यादि प्रदेशेषु व्याधिः पादचारणेन परिशुष्यते इति अध्ययनं सूचयति।

 प्रासक्षेपणे नीरजः ९०.२३ मीटर् लक्ष्यं प्राप्तवान्। 

नीरजः स्पर्धामध्ये। 

दोह> खत्तरे सम्पद्यमाने दोह डयमण्ड् लीग् अत्लटिक्स्' स्पर्धायां भारतस्य नीरज चोप्रः प्रासक्षेपणे ९०.२३ मीटर् क्षिपित्वा द्वितीयस्थानं प्राप्तवान्। जर्मनीयः क्रीडकः जूलियन् वेबरः ९१. ०६ मी क्षिप्त्वा प्रथमस्थानं सम्प्राप्तवान्। 

 नूतनः परिशीलकः चेको स्लावियः यान् सेलन्सि इत्यस्य शिक्षणे अस्ति नीरजस्य नूतनस्थानलब्धिः। प्रासक्षेपे  ९० मीटर् तरितवान् प्रथमो भारतीयः भवति नीरज चोप्रः। एष्यायां तृतीयः च।

 तुर्कीराष्ट्रेण सह व्यापारव्यवहारान् बहिष्कृत्य भारतीयव्यापारिणः।

मुम्बई> भारत-पाकिस्थानयोः संघर्षे तुर्की, असर बैजान् राष्ट्रद्वयं पाकिस्थानेन सह अनुकूल्यं प्राकट्य साह्यमकरोत् इत्यस्मात् कारणात् तेन  राष्ट्रद्वयेन सह व्यापारव्यवहाराः पूर्णतया भारतीयव्यारारिभिः बहिष्कृताः। २४ राज्यानां व्यापारिसंघटनानां 'Confederation of All India Traders' नामकेन संघटनेन अयं निर्णयः। 

  एष्याभूखण्डस्य बृहत्तमं फल-शाकाविपणनकेन्द्रं दिल्लीस्थम् 'आसादपुर् मण्डि, वाषीस्थं 'ए पि एम् सि' इत्येताभ्यां तुरकीतः आप्पिल् फलस्य आयातः निरुद्धः इति निगदितम्।

 त्रयः लष्करभीकराः निगृहीताः। 

बद्गामः> लष्कर् ई तोय्बा इति निरुद्धभीकरसंघटने प्रवर्तमानाः त्रयः भीकराः जम्मु काश्मीरस्थात् बद्गामात्  आरक्षकैः निगृहीताः। मुसमिल् अहम्मदः, इस्पात पण्डिट्, मुनीर् अहम्मदः इति तेषां नामानि। एकः भुषुण्डी, कतिपय बोम्बाः इत्याद्यायुधानि अपि निगृहीतानि।

Friday, May 16, 2025

 पृथिव्याः अन्तःस्थितं महाधनम् ।  1,70,000 संवत्सरपर्यन्तं पर्याप्तं हैड्रोजनस्य स्रोतांसि इति अध्ययनम्।

  पृथिव्याः गर्भभागे रूपीकृताः स्वाभाविकाः हैड्रोजन-सञ्चयाः वैश्विकम् इन्धन-आवश्यकतां 1,70,000 (सप्तति सहस्राधिक एक लक्षं) वर्षाणि यावत् उपयोक्तुं समर्थाः स्युः इति नवीनम् अध्ययनम् सूचयति।

   विश्वस्य अनेकप्रदेशेषु विशेषतया अमेरिकादेशस्य त्रिंशतधिक-राज्येषु एवं प्रकारस्य हाइड्रोजन्-स्रोतांसि सन्तीति अध्ययनम् दर्शयति। एतदनुसन्धानम् ओक्सफोर्ड्-विश्वविद्यालयस्य भू-रसायनविभागाध्यक्षस्य प्रोफेसर् क्रिस् बलन्टैन्  इत्यस्य नेतृत्वेन कृतम्।। Nature Reviews Earth and Environment इत्यस्यां  प्रख्यातायां वैज्ञानिक-पत्रिकायाम् एषः शोधः प्रकाशितः अस्ति।

   पाषाणानि जलम् च मिलित्वा याः स्वाभाविकाः रासायनिकक्रियाः जाताः, ताभ्यः हैड्रोजनस्य उत्पत्तिः भवति। एते नैसर्गिकानि हैड्रोजन् स्रोतांसि कार्बण्-रहितस्य ऊर्जस्य दिशायाम् अस्मान् नेष्यन्ति। अल्पकालात् पूर्वमेव अल्बेनियायाः पश्चिम-अफ्रिकायाः च प्रदेशयोः क्रोमियम्-खननक्रियासु सत्सु,पृथिव्याः अधस्तले विशालः हाइड्रोजन्-सञ्चयः अस्ति इत्यपि ज्ञातम्। इदम् अध्ययनम् भाविष्यस्य हरित-ऊर्जानीतये महत्त्वपूर्णम् एकं द्वारम् उद्घाटयिष्यति।

 पाकिस्थानेन गृहीतः सीमारक्षाभटः विमोचितः। 

भारतेन निग्रहीतः पाकिस्थानीयभटोऽपि मोचितः।

  नवदिल्ली> पञ्चाबस्थे भारत-पाकिस्थानसीमामण्डलात् वाग-अट्टारिप्रदेशात् पाकिस्थानेन निगृहीतः भारतीयः सीमारक्षणभटः भारताय प्रत्यर्पितः। पश्चिमवंगस्य हूग्ली निवासी पूर्णं कुमार शाहः एव विमोचितः। तथा च राजस्थानस्य सीमायाः भारतसेनया निगृहीतः पाकिस्थानीयः अपि विमोचितः।

सि बि एस् सि दशमकक्ष्यापरीक्षायां 600 अङ्केषु 599 अङ्काः रितिका प्राप्तवती।

   अस्मिन् संवत्सरस्य सि बि एस् सि परीक्षायां दशम्यां कक्ष्यायां रितिका नामिका बालिका ५९९ अङ्कान् प्राप्तवती। आहत्य ६०० अङ्केषु आसीत् परीक्षा। केरळेषु अनन्तपुरी जिल्लायां वसति एषा। कवटियार् क्रैस्ट् नगर् केन्द्रीयविद्यालयस्य छात्रा भवति इयम्। क्रमानुगतम् अध्ययनम् एव भवति अस्य विजयरहस्यम् इति सा अवदत्। विद्यालये यत् पाठयति तत् तस्मिन्नेव दिने सा पठति स्म। तादृश स्वभावविशेषः-विजयप्राप्त्यर्थम् उपकारकम् असीत् इत्यपि तया उक्तम्।

 ड्रोण् पातनाय भारतस्य भार्गवास्त्रम्। 

भुवनेश्वरं> ड्रोण् यन्त्राणि उपयुज्य क्रियमाणानि आक्रमणानि प्रतिरोद्धुं भारतस्य ह्रस्वदूराग्नेयास्त्रस्य - भार्गवास्त्रस्य - परीक्षणे विजयप्राप्तिः। ओडीशायां गोपालपुरी 'फयरिंग् रेञ्च्' इत्यत्र 'आर्मी एयर् डिफन्स्' [AAD] संस्थायाः वरिष्ठोद्योगवृन्दस्य सान्निध्ये आसीत् इदं परीक्षणम्। निश्चितसंख्याकानि ड्रोण् यन्त्राणि युगपत् भञ्जयितुं एकेनैव भार्गवास्त्रेण शक्यते।

Thursday, May 15, 2025

 बी आर् गवाय् वर्यः भारतस्य मुख्यन्यायाधिपरूपेण शपथं कृतवान्। 

बी अर् गवाय् वर्यस्य शपथसमारोहः। 

नवदिल्ली> भारतस्य ५२ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः बी आर् गवाय् वर्यः ह्यः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः सविधे शपथं कृत्वा कार्यभारं स्वीकृतवान्। सत्यशपथसमारोहानन्तरं मुख्यन्यायालयं सम्प्राप्तवान् सः तत्रत्ययोः महात्मा गान्धी, डा बी आर् अम्बदकरः इत्येतयोः प्रतिमयोः पुष्पार्चनां कृतवान्। 

   बुद्धधर्मानुयायी प्रथमः भारतमुख्यन्यायाधिपो भवति न्याय.  भूषण रामकृष्ण गवाय् वर्यः।नवम्बर् २३ पर्यन्तं तस्य सेवाकालः भविष्यति।

 लष्करनेतारमभिव्याप्य त्रयः भीकराः निहताः। 

श्रीनगरं> जम्मु काश्मीरस्य षोपियाने सुरक्षासेनया सह प्रतिद्वन्द्वे लष्कर् ई तोय्बा संघटनस्य नेता इतरौ द्वौ भीकरौ च निहताः। 

   भीकराः प्रदेशे निलीयमाना‌ः इति सूचनानुसारं सेनया कृतस्यान्वेषणस्य अंशतया आसीत् प्रतिद्वन्द्वः। लष्करस्य कमान्डरः षाहिद् कुट्टे , अदनान षाफी, अज्ञातनामा इतरः च निहताः।

 मण्सूण् कालवर्षः आन्डमानं सम्प्राप्तम्। 

केरले २७ तमे दिनाङ्के। 

अनन्तपुरी> दक्षिण अन्तमान् समुद्रः, उत्तर अन्तमान् समुद्रः, दक्षिणवंगस्य अन्तरालः इत्यादिषु स्थानेषु कालवर्षः सम्प्राप्त इति केन्द्र पर्यावरणविभागेन निगदितम्। केरले  दक्षिणपश्चिमकालवर्षः मेमासस्य २७ दिनाङ्कं यावत् सम्पत्स्यते।

Wednesday, May 14, 2025

 भीकरप्रवर्तनस्य अनुवर्तनं पाकिस्थानस्य सर्वनाशाय भविष्यतीति नरेन्द्रमोदी। 

ओदंपुरस्थं व्योमनिलयं प्राप्तवान् नरेन्द्रमोदी सैनिकैः सह सम्भाषणे। 

नवदिल्ली> यदि पाकिस्थानः भीकरप्रवर्तनम् अनुवर्तिष्यते तर्हि तत् तद्राष्ट्रस्य सर्वनाशाय भविष्यतीति भारतप्रधानमन्त्री नरेन्द्रमोदी असूचयत्। ओपरेशन् सिन्दूरम् इत्यस्यानन्तरं आदंपुरे व्योमसैनिकनिलयं सम्प्राप्य सैनिकान् अभिसम्बोधयन् भाषमाणः आसीत् नरेन्द्रमोदी। 

  पाकिस्थानेन विशीर्णमिति तैरभिमानितेषु भारतीयव्योमनिलयेषु अन्यतमं भवति पञ्चाबस्थं  आदंपुरम्। सैनिकनिलयः सर्वथा सुरक्षितः इति प्रमाणीकर्तुमपि आसीत् प्रधानमन्त्रिणः इदं प्रातःकालसन्दर्शनम्। 

  आदंपुरे प्राप्तवान् मोदीवर्यः 'एस् ४००' इति व्योमप्रतिरोधसंविधानम् अभिवाद्य सैनिकैः सह भाषणं कृत्वा तेषां पराक्रमशीलं, स्थिरोत्साहं च प्रकीर्तितवान्।

Tuesday, May 13, 2025

 विराट कोह्ली क्रिकट् निकषस्पर्धायाः निवृत्तवान्। 

एकदिने अनुवर्तिष्यते। 


नवदिल्ली> क्रिकट् आराधकानां वीरपुरुषः, भारतस्य क्रिकट् नायकेषु अनुत्तमः  विराट कोह्ली निकषस्पर्धायाः विरम्यते इति स्वयमुद्घोषितवान्। पूर्वमेव टि - २० अतः निवृत्तः सः परं एकदिनस्पर्धासु क्रीडिष्यति। 

  पराक्रमशाली, उत्साहवान्, जनप्रियः - त्रयमपि कोह्लेः उत्तमरीत्या अनुयुक्तं विशेषणं भवति। अधिकतमेषु निकषस्पर्धासु भारतदलं विजयपदमानीतवान् नायकः इति ख्यातिः कोह्लेः स्वकीयः अस्ति। ६० प्रतिद्वन्द्वेषु ४०विजयाः। सप्त युगलशतकस्य स्वामीअस्ति।

Monday, May 12, 2025

 UPI सेवा स्थगिता। उपयोक्तृजनानाम् अतिसम्मर्दः कारणम्।

   नवदिली> भारते यू पि ऐ नाम धनपरिवर्तनादिकी स्थगिता इति प्रतिवेद्यते। पे टि एम्, फोण् पे, गूगिल् पे इत्यादयः अनुप्रयोगाः अद्य सोमवासरे सायं कालादारभ्य स्थगिताः। नववादने सेवा पुनस्थापिता। विगते मार्चमासे लब्धगणनानुसारेण 1830 कोटि विनिमयाः कृताः सन्ति। फेब्रुवरिमासे विनिमयाः 1611 कोटि इत्यासीत्।

 "भीकरवादरूढमूला भूमिः सुरक्षिता नास्ति, भीकरवादिनः अनुगम्य आखेटनं करिष्यामहे; " – रक्षामन्त्री राजनाथसिंहः।

  "सिन्दूरं नष्टवतीनां कुटुम्बानां कृते सशस्त्रसेनया ओपरेषन् सिन्दूरम् इति प्रक्रमेण न्यायः प्रदत्तः" इति भारतस्य रक्षामन्त्री राजनाथसिंहः उक्तवान्। ब्रह्मोस्-शस्त्रप्रयोगः  शत्रूणां कृते स्पष्टतया  दत्तसन्देशः भवति इत्यपि सः निरूपितवान्। सम्पूर्णं राष्ट्रं भारतीयसैन्याय कृतज्ञतां प्रकाशयति।

"ओपरेषन् सिन्दूरम्" केवलं सैन्यकर्म न भवति, अपितु भारतस्य राजनैतिक -सामाजिक -संकल्पशक्तेः प्रतीकम् एव। रावलपिण्डिस्थं पाकिस्थानस्य सैनिककेंद्रं लक्ष्यीकृत्य आक्रमणं कृतम्।

"भीकरवादेन पीडितं भूमिप्रदेशे ते सुरक्षिताः इति चिन्तयन्ति चेत्, तत् न तथ्यम्। तथा नास्ति, यत्र यत्र ते भीकरवादिनः निवसन्ति, तत्र तत्र गत्वा तान् आखेटनं करिष्यामहे" इति राजनाथसिंहः उक्तवान्।

Sunday, May 11, 2025

 पाकिस्थानस्य युद्धविरामलङ्घनम्; ड्रोणस्य  आक्रमणेन एकस्य सैनिकस्य वीरमृत्युः।

  युद्धविराम-सम्मतिः प्रवृत्ता। किन्तु कतिपयहोरायाः अनन्तरं  पाकिस्थानदेशेन तस्य उल्लङ्घनं कृतम्। पाकिस्थानेन कृतेन ड्रोणाक्रमणेन एकस्य भारतीयसैनिकस्य वीरमृत्युः अभवत्। एषः सैनिकः उधमपुर-नगरस्य सैन्यकेंद्रे रक्षणकर्तृरूपेण नियुक्तः आसीत्। भारतदेशः पाकिस्थानस्य वञ्चनक्रियाम् अपालपत्। आवश्यके सति प्रत्याक्रमणं करणीयम् इति सैन्यबलान् प्रति निर्देशः दत्तः।


    जम्मू-काश्मीरे अखनूर्, रजौरी, आर्.एस्. पुरा इत्यादिदेशेषु गभीरं षेल्-आक्रमणं जातम्। नग्रोट्थ-प्रदेशस्थे सैन्यकेन्द्रे अपि आतङ्कवादिनां आक्रमणम् अभवत्। सीमाप्रदेशेषु मुख्यकार्यालयाधिकारिभिः सह भारतस्य केन्द्रीय-गृहमन्त्रिणा विषयेऽस्मिन् चर्चा कृता। पञ्जाबराज्ये अमृत्सर-नगरे 'रक्तवर्ण-सूचना’ अपि घोषिता।

Saturday, May 10, 2025

 एस् एस् एल् सि [केरले दशमीकक्ष्यायाः अन्तिमपरीक्षा] परीक्षापरिणामः - ९९. ५% विजयः। 

अनन्तपुरी> अतीतायाम् एस् एस् एल् सि परीक्षायां ९९. ५% विजयः। परीक्षां लिखितवत्सु ४,२६,६९७ छात्रेषु ४,२४५८३ छात्राः उपरिपठनाय अर्हतां लब्धवन्तः। शिक्षामन्त्री वि शिवन् कुट्टिः फलं प्रख्यापितवान्। 

  ६१,४४९ छात्राः सर्वेषु विषयेषु A+ लब्धवन्तः। गतवर्षापेक्षया दशसहस्राणाम् आकुञ्चनमभवत्। २३३१ विद्यालयाः १००% विजयं प्रापुः।

 दिनद्वयेन ६२ नगराणि लक्ष्यीकृत्य पाकिस्थानस्य ड्रोण् आक्रमणम्। 

भारतेन सर्वं विफलीकृतम्। 

जम्मु> गते दिनद्वये भारतस्य सीमाराज्यानां ६२ नगराणि लक्ष्यीकृत्य पाकिस्थानः अग्निशस्त्रयुक्तानि ड्रोण् यन्त्राणि उपयुज्य आक्रमणमकरोत्। किन्तु भारतस्य व्योमप्रतिरोधसंविधानमुपयुज्य सर्वं विफलीकृतम्। 

  गुरुवासरस्य रात्रौ ३६ स्थानानि, शुक्रवासरे २६ स्थानानि लक्ष्यीकृत्य आसीदाक्रमणम्। गुजरात्, जम्मु काश्मीरं, पञ्चाबः, राजस्थानम् इत्येतेषां सैनिककेन्द्राणि आसीत् पाकिस्थानस्य लक्ष्यम्। तुर्किनिर्मितानि ४०० ड्रोणानि एव उपयुक्तानि। प्रतिरोधस्य अंशतया पाकिस्थानस्य चत्वारि व्योमप्रतिरोधनिलयान् प्रति भारतेन प्रत्याक्रमणं कृतम्।