OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 21, 2025

 भारतीयः आणवशास्त्रज्ञः डो एम् आर् श्रीनिवासः दिवंगतः। 


ऊट्टी> राष्ट्रस्य प्रमुखः अणुशास्त्रज्ञः आणवोर्जकम्मीशन् संस्थायाः पूर्वाध्यक्षः च डो एम् आर् श्रीनिवासः [मालूर् रामस्वामि श्रीनिवासः - ९५] ऊट्टिस्थे भवनात् दिवंगतः।

  १९३० तमे वर्षे बङ्गलुरौ भूजातः एम् आर् श्रीनिवासः १९५५ तमे वर्षे आणवोर्जविभागे उद्योगस्थः अभवत्। ततः डो होमि जे भाभावर्येण सह सेवायां राष्ट्रस्य प्रथमम् 'आणव रियाक्टर्' अप्सरायाः निर्माणे भागं स्वीचकार। संवत्सरेषु अतीतेषु राष्ट्रस्यआणवनयरूपीकरणे मुख्यांशं वहति स्म। १९८७ तमे वर्षे भारताणवोर्ज आयोगस्य अध्यक्ष अभवत्। 

 Nuclear power corporation of India इत्यस्य प्रथमः अध्यक्ष आसीत्। राष्ट्रस्य पद्मश्री पद्मविभूषण पुरस्काराभ्यां समादृतः। अस्य अन्त्येष्टिक्रियाः गुरुवासरे वेल्लिङ्टणे विधास्यन्ति।