अस्मिन् संवत्सरस्य सि बि एस् सि परीक्षायां दशम्यां कक्षयायां रितिका नामिका बालिका ५९९ अङ्काः प्राप्तवती। आहत्य ६०० अङ्केषु आसीत् परीक्षा। केरळेषु अनन्तपुरी जिल्लायां वसति एषा। कवटियार् क्रैस्ट् नगर् केन्द्रीयविद्यालयस्य छात्रा भवति इयम्। क्रमानुगतम् अध्ययनम् एव भवति अस्यविजयरहस्यम् इति सा अवदत्। विद्यालये यत् पाठयति तत् तस्मिन्नेवदिने सा पठति स्म। शीलोयम् विजयप्राप्त्यर्थम् उपकारकम् असीत् इत्यपि तया उक्तम्।