OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 17, 2025

 १३ प्रकारस्य अर्बुदस्य प्रतिरोधाय पादचरणम् औषधं, - नवीनम् अध्ययनम्।

  त्रयोदशप्रकारस्य अर्बुदव्याधेः परिहाराय नवीनतमम् अध्ययनं दर्शयति यत् प्रतिदिनं पादचरणं कृत्वा अर्बुद (Cancer) रोगं न्यूनं कर्तुं शक्यते इति। इदम् अनुसन्धानम् ओक्सफोर्ड् विश्वविद्यालयस्य वैज्ञानिकैः यु के देशस्य ८५,००० जनानां स्वास्थ्यविवरणानि विश्लेष्य कृतम्। षट् वर्षपर्यन्तम् निरन्तरं पठनं कृत्वा पश्चात्, वैज्ञानिकाः निगमनम् इदं प्राप्तवन्तः यत्  येन प्रतिदिनं पादाभ्यां चरति चेत् तेनैव अर्बुदः  न्यूनी भविष्यति इत्युच्यते। 

  अध्ययनस्य अनुसारं, प्रतिदिनं ७,००० पादचरणानि करोति चेत् अर्बुदस्य व्यापनशीलः प्रतिशतं एकादश (११%) इति न्यूनं भविष्यति, यदा ९,००० पादचरणानि क्रियते तर्हि रोगस्य व्यापनशीलः प्रतिशतं षोडश (१६%) इति न्यूनं भवति।   

  वैज्ञानिकाः सूचयन्ति यत् दीर्घकालात् उपवेशनस्य स्थाने मन्दगत्याः शारीरिकक्रियाः अपि रोगः न्यूनीकर्तुं सहायकं भवति। विशेषतया, यकृत्, श्वसनकोशः, वृक्का, गर्भाशयः, 'कोलन्', शिरः-कण्ठः, गर्भाशयः स्तनम् इत्यादि प्रदेशेषु व्याधिः पादचारणेन परिशुष्यते इति अध्ययनं सूचयति।