सर्वेषां अभयं दातुं भारतं किं वा धर्मशाला?
१४० कोटि जनाः निवसन्त्यत्र - सर्वोच्च न्यायालयः
भारते अभयं प्रार्थितस्य श्रीलङ्कादेशीयस्य याचिकां तिरस्कृत्य भारतस्य सर्वोच्चन्यायालयेन एवम् अवदत् यत् सर्वान् विदेशीयान् स्वीकर्तुं भारतं धर्मशाला न। १४० कोटि जनाः निवसन्त्यत्र। एल् टी टी नाम निरोधितसंघटनेन सह बन्धः अस्ति इति दृष्ट्वा २०१८ तमे निग्रहीतस्य श्रीलङ्कादेशीयस्य याचिका एव न्यायालयेन तिरस्कृता।
२०१८ तमे न्यायालयेन दशवर्षात्मकस्य कारावासाय दण्डितः आसीत् एषः। २०२२ मद्रास् उच्चन्यायालयेन दण्डः ७ वर्षः इति न्यूनीकृतः। दण्डकालानन्तरं भरतात् बहिः गन्तव्यम् इति न्यायालयेन आदिशत् च। नियमानुसारेण पारपत्रेण भारते आगतः, भार्या अपत्यानि भारते स्थिरवासं कुर्वन्तः सन्ति अतः तस्मै भारते वासाय अनुज्ञा आवश्यकी इति याचिकायां सूचितवान्। किन्तु सर्वोच्चन्यायालयेन याचिका तिरकृता।