OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 21, 2025

 विख्यातः ज्योतिश्शास्त्रज्ञः डो जयन्त नार्लिकरः दिवंगतः। 


पूनै> होय्लि-नार्लिकर गुरुत्वाकर्षणसिद्धान्तेन अन्ताराष्ट्रप्रसिद्धिमाप्तवान् भारतीयः ज्योतिश्शास्त्रज्ञः डो जयन्त नार्लिकरः दिवंगतः। कुजवासरस्य प्रत्युषसि पूणैस्थे स्वभवने आसीत् अन्त्यम्। ८६ वयस्कः आसीत्। 

  केंब्रिड्ज् विश्वविद्यालये सर् फ्रेड् होय्ली इत्यनेन शास्त्रज्ञेन सह प्रपञ्चस्य उत्पत्तिमधिकृत्य विविधानि गवेषणानि डो जयन्तः कृतवान्। 'होय्लि-नार्लिकर गुरुत्वाकर्षणसिद्धान्तम्' इति नूतनं सिद्धान्तं प्रपञ्चोत्पत्तेः  नूतनसिद्धान्तत्वेन अङ्गीकृतम्। 

  १९३८ तमे वर्षे महाराष्ट्रे लब्धजन्मा जयन्त नार्लिकरः १९६५ तमे वर्षे पद्मभूषणपुरस्कारेण समादृतः। २००४ तमे पद्मविभूषणं च तेन लब्धम्।