चक्रवातः - यू एसे विंशत्यधिकानि मरणानि।
वाषिङ्टणः> यू एस् राष्ट्रस्य दक्षिणराज्येषु शुक्रवासरे रात्रौ महान् चक्रवातः प्रभावितः। विंशत्यधिकाः जनाः विनष्टप्राणाः जाताः। ५००० अधिकानि भवनानि विशीर्णानि।
केन्टक्की राज्ये १४ जनाः मृत्युमुपगताः। मिसौरी राज्ये सेन्ट् लूयि नगरे ५ मरणानि जातानि। लक्षं गृहेषु विद्युत् स्थगिता। रक्षाप्रवर्तनानि अनुवर्तन्ते।