त्रयः लष्करभीकराः निगृहीताः।
बद्गामः> लष्कर् ई तोय्बा इति निरुद्धभीकरसंघटने प्रवर्तमानाः त्रयः भीकराः जम्मु काश्मीरस्थात् बद्गामात् आरक्षकैः निगृहीताः। मुसमिल् अहम्मदः, इस्पात पण्डिट्, मुनीर् अहम्मदः इति तेषां नामानि। एकः भुषुण्डी, कतिपय बोम्बाः इत्याद्यायुधानि अपि निगृहीतानि।