युमनातटस्य सौन्दर्यीकरणम्
नवदिल्ली> यमुनानद्याः गीताघट्टे दिल्लीजलबोर्डद्वारा निर्मितायाः नक्षत्रवाटिकायाः उद्घाटनं सामान्य जनान् उद्दिश्य कृतम्। अस्यां वाटिकायां नैकविधाः वृक्षाः समारोपिताः सन्ति। वाटिकायामस्यां नक्षत्रोद्यानं,नवग्रहोद्यानम्, औषधोद्यानं, तुलसीवनं च मुख्याकर्षकाः सन्ति। ध्यातव्यमिदं यत् यमुनातटस्य सौंदर्यीकरणमिदं मासद्वयावधौ कृतमस्ति।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Saturday, January 14, 2017
Friday, January 13, 2017
"टाटा संस्था" चन्द्रशेखरेण नीयते।
मुम्बई - भारतस्य बृहत्तमस्य टाटा ग्रूप् नामकस्य उद्योगसाम्राज्यस्य अध्यक्षरूपेण एन् चन्द्रशेखरः नियुक्तः। अस्याः संस्थायाः अधीनत्वे वर्तमानस्य ऐ टि नैगमस्य [टि सि एस्] अधिपो भवत्ययमिदानीम्। ५३ वयस्कः सः टाटा सण्स् नैगमस्य अध्यक्षरूपेण फिब्रवरिमासस्य २१तमे दिनाङ्के उत्तरदायित्वं स्वीकरिष्यति।गतदिने टाटाग्रूप् इत्यस्य मातृनैगमस्य टाटासण्स् नामकस्य निदेशकसंघमेलने एव चन्द्रशेखरस्य नियुक्तिः। रत्तन् टाटा वर्यस्य अनन्तरगामित्वं प्राप्तः सैरस् मिस्त्री सार्धद्वयमासात्पूर्वम् अध्यक्षस्थानात् निष्कासित आसीत्। तदनन्तरम् इतःपर्यन्तं रत्तन्टाटा आसीत् अध्यक्षः।
सेल्फिग्रहण-स्पर्धायां केरळस्य भूतपूर्वमुख्यमन्त्री।
एरणाकुळं रयिल् निस्थाने ह्यः सायं पञ्चवादने भूतपूर्व मुख्यमन्त्रिणा उम्मन् चाण्टिना सह सेल्फि ग्रहणार्थं जनाः महान् सम्मर्दम् अकुर्वन्। काचित् नारी पुरुषान् पराजित्य सेल्फीफीग्रहणे प्रथमं सफलता प्राप्ततवती।
कोल्कत्ता आरक्षकैः अनुमतिः न दत्त:
कोल्कत्ता अस्मिन् शनिवासरे १४ दिनांके मकरसंक्रान्तिपर्वण: उपलक्ष्ये पश्चिमबंगालस्य कोल्कत्ता नगरस्य ब्रिगेड परेड् ग्रौण्ड् मध्ये राष्ट्रीय-स्वयं- सेवकसड्घेन आयोजिताय कार्यक्रमाय कोल्कत्ता आरक्षकै: अनुमति न प्रदत्तः। अत्र "हिन्दू सम्मेलनं" इति नाम्ना सम्मेलनम् आयोजितमासीत् । इदानीं राष्ट्रियस्वयंसेवक संघेन उच्चन्यायालये दूषणम् कृतो वर्तते। कार्यक्रमेस्मिन् मुख्यतिथि रुपेण एवञ्च मुख्यवक्तारुपेण संघाध्यक्षानां मोहन् भागवतमहोदयानां आगमनमासीत्၊
Thursday, January 12, 2017
सहारा - बिर्ला उत्कोचविवादः - प्रधानमन्त्रिणं विरुध्य याचिका निरस्ता।
नवदिल्ली >सहारा तथा बिर्ला नैगमाभ्यां प्रधानमन्त्री नरेन्द्रमोदी संवत्सरेभ्यः पूर्वम् उत्कोचं स्वीकृतवान् इत्यारोपणमधिकृत्य नीतिपीठस्य नियन्त्रणे विद्यमनेन संघेन अन्वेष्टव्यम् इति याचिका सर्वोच्चन्यायालयेन निरस्ता। पूर्वोक्ताभ्यां नैगमाभ्यां आपाते निग्रृहीताः लेखाः प्रमाणीकर्तुं न शक्यन्त इति न्याया. अरुण् मिश्रः , अमिताभ रोय् इत्येतयोः नीतिपीठेन स्पष्टीकृतम्।
नवदिल्ली >सहारा तथा बिर्ला नैगमाभ्यां प्रधानमन्त्री नरेन्द्रमोदी संवत्सरेभ्यः पूर्वम् उत्कोचं स्वीकृतवान् इत्यारोपणमधिकृत्य नीतिपीठस्य नियन्त्रणे विद्यमनेन संघेन अन्वेष्टव्यम् इति याचिका सर्वोच्चन्यायालयेन निरस्ता। पूर्वोक्ताभ्यां नैगमाभ्यां आपाते निग्रृहीताः लेखाः प्रमाणीकर्तुं न शक्यन्त इति न्याया. अरुण् मिश्रः , अमिताभ रोय् इत्येतयोः नीतिपीठेन स्पष्टीकृतम्।
Wednesday, January 11, 2017
एन्डोसळ्फान् दुरन्तः – नैगमैः निष्कृतिः दातव्या।
नवदिल्ली> केरलस्य एन्डोसल्फान् दुरितबाधितानां कृते विहितां निष्कृतिं मासत्रयाभ्यन्तरे दातुं सर्वोच्चन्यायालयेन राज्यसर्वकारः आदिष्टः। दातव्यं निष्कृतिधनं कीटनाशिनिनिगमेभ्यः समाहर्तव्यमिति मुख्यप्राड्विवाकस्य जे एस् खेहर् वर्यस्य आध्यक्ष्ये विद्यमानेन त्र्यङ्गनीतिपीठेन निर्दिष्टम्। दुरन्तविधेयेभ्यः आजीवनान्तपरिरक्षा अपि दातव्या।
नवदिल्ली> केरलस्य एन्डोसल्फान् दुरितबाधितानां कृते विहितां निष्कृतिं मासत्रयाभ्यन्तरे दातुं सर्वोच्चन्यायालयेन राज्यसर्वकारः आदिष्टः। दातव्यं निष्कृतिधनं कीटनाशिनिनिगमेभ्यः समाहर्तव्यमिति मुख्यप्राड्विवाकस्य जे एस् खेहर् वर्यस्य आध्यक्ष्ये विद्यमानेन त्र्यङ्गनीतिपीठेन निर्दिष्टम्। दुरन्तविधेयेभ्यः आजीवनान्तपरिरक्षा अपि दातव्या।
Tuesday, January 10, 2017
१०,१२ कक्षयो : बोर्डपरीक्षायाः परीक्षा-कार्यक्रमः
नवदिल्ली> केन्द्रीयमाध्यमिकपरिक्षाबोर्डस्य परीक्षा मार्चमासस्य नवमदिनांकात् प्रारप्स्यते, पञ्चराज्यानां विधानसभेयनिर्वाचनकारणेन परीक्षायोजने विलम्बः नैव भविष्यति। मार्चमासे ४,८,११ दिनांकेषु निर्वाचनकारणेन परीक्षा नैव भविष्यति। दशमकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य १० दिनांके द्वादशकक्षायाः अन्तिमपरीक्षा अप्रैलमासस्य ऊनत्रिंशे दिनांके आयोजयिष्यते।
यूरोप् भूखण्डे अतिशैत्यम्। विंशत्यधिकाः मृताः।
लण्टन्>अतिशैत्यात् स्तब्धायमाने यूरोप् भूखण्डे इतःपर्यन्तं विंशत्यधिकं जनाः मृताः। ग्रीक् द्वीपाः दक्षिणेट्टलीप्रदेशाश्च कठिनहिमैरावृताः। इट्टलीराष्ट्रे विमान-जलयानगतागतानि निरस्तानि। दक्षिणेट्टलीप्रदेशे विद्यालयानां सोमवासरादारभ्य प्रवर्तनविरामः निर्दिष्टः। तुर्की राष्ट्रमपि शैत्यग्रस्तमभवत्। इस्ताम्बूल् प्रदेशे शक्तः शीतवायुः वातीत्यतः महानौकागतागतं स्थगितम्। पोलण्ट् देशे अतिशैत्येन उपशतं जनाः मृताः। रूस् राष्ट्रे तापः न्यूनं त्रिंशत् डिग्री परिमाणं [–३०] अभवत्।
मुद्रारूप्यकप्रतिसन्धिः - लघुतर - मध्यमोद्योगमण्डलेषु ६०% कर्मनष्टः भविष्यति।
नवदिल्ली>मुद्रारूप्यकाणां निर्मूल्यीकरणेन राष्ट्रस्य लघु-मध्यमस्तरीयेषु उद्योगमण्डलेषु इतःपर्यन्तं प्रतिशतं पञ्चत्रिंशत् कर्मकराणां कर्मविनष्टम् अभवदिति "ओल् इन्डिया मानुफाक्चरेर्स् ओर्गनैसेषन्" नामिकया संस्थया कृते समीक्षणे स्पष्टीकृतम्। मार्च् मासं तावत् प्रतिशतं षष्टिः इति क्रमेण कर्मकराः विनष्टकर्माणः भविष्यन्ति। एषु मण्डलेषु आय अपि प्रतिशतं पञ्चाशत् परिमाणेन न्यूनीकृतः। मासत्रयाभ्यन्तरे न्यूनता ५% वर्धिष्यते।समीक्षणे उपलब्धाः वृत्तान्ताः -
. महाराष्ट्रा तमिल् नाट् गुजरात् इत्येतानि राज्यानि नितरां क्षतिबाधितानि जातानि।
. उत्पादनमण्डलेषु विद्यमानेषु बृहदुद्योगेषु इतःपर्यन्तं कर्मविनष्टः ५% , समीपकाले १५% भविष्यति।
प्रतिसन्धेः कारणानि -
. मुद्रापत्रलभ्यतायाः महती न्यूनता, रूप्यकप्रतिसंहरणे अनुवर्तमानं नियन्त्रणं, धनसमाहरणस्य क्लेशः इत्यादयः।
Monday, January 9, 2017
भारतीय भाषाणां विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: - प्रकाश् जावडेकर:
उडुपि> संस्कृतसहितानां सर्वासां भाषाणां विकसनार्थं शीघ्रमेव कालबद्धो कार्यक्रम: केन्द्र सर्वकारेण आयोक्ष्यते इति मानवसंसाधनविकास मन्त्रिणा प्रकाशजावडेकरेण उद्घोषितम्। कर्णाटकप्रान्ते उडुपीनगरे संस्कृतभारत्या: अखिलभारतीय अधिवेशने विशिष्टसत्रेsस्मिन् भाषमाणः आसीत् जावडेकरमहोदय:। पुट्टिगे मठस्य पीठाधीश: सुगुणेन्द्रतीर्थस्वामीन: कार्यक्रमस्य अध्यक्षतां अवहत्। पर्याय पेजावर अधोक्षजमठस्य पीठाधीश: श्री श्री विश्वेशतीर्थस्वामीन:, संस्कृत भारत्या: राष्ट्रिय अध्यक्ष: भक्तवत्सल-शर्मा, स्वागतसमित्या: प्रमुख-कार्यदर्शी एम. बी. पुराणिक: च मंञ्चस्योपरि आसन्।
अधिवेशनप्रसंगेन आयोजितां प्रदर्शिनीं मन्त्रिमहोदय: दृष्टवान्। अनन्तरम् अधिवेशने उपस्थिता: प्रतिनिधय: तेन साक्षात् संभाषितवन्त:। अवसरेsस्मिन् स: अवदत् यत् युष्माकं क्लेशानां परिहाराय उचितः कालः समागतः इत्यवधार्यताम्। "संस्कृतस्य संवर्धनाय प्रसाराय ये प्रयत्नान् कुर्वन्ति तान् संस्कृतभारती सम्मेलयति। तेषां प्रयत्ना: केवलं भाषार्थं न अपितु राष्ट्रार्थम्। युष्याकं प्रयत्ना: सर्वकारेण अपि समादृताः भविष्यन्ति।," एवं स: कथितवान्।
यावती कापि भाषा पाठ्यक्रमे न विद्यते तावती सा भाषा विकसितुम् न शक्नोति, इति स: उक्तवान्।
सुगुणेन्द्रतीर्थ: स्वामीन: उक्तवान् यत् संस्कृतं काचित् सुलभा सुन्दरा अपि भाषा वर्तते। "एकस्मिन् वैश्विकसम्मेलने मया संस्कृतेनैव व्याख्यानम् दत्तम्। ये विदेशीजना: तत्र उपस्थिता: सन्तः ते अकथयन् यत् ५० प्रतिशतम् यावत् ते अवगन्तुम् शक्नुवन्त:। सर्वाः भाषा: प्रादेशिकभाषा: सन्ति, केवलं संस्कृतभाषा एव वैश्विकभाषा: वर्तते। अतः संस्कृतं विश्वभाषा इति घोषितुमर्हते," इति स: अवदत्।
संस्कृत विद्वान् प्रो. रामानुज-देवनाथन् महाभागः दिवङ्गतः
संस्कृतक्षेत्रस्य ज्ञानसागरः परिशुष्यते
मुम्बै>संस्कृतक्षेत्रस्य ज्ञान पीयूषः विद्वान् प्रो. रामानुज देवनाथन् महाभागः आत्मानं संस्कृताय समर्प्य दिवङ्गतः। अयं राष्ट्रिय संस्कृत संस्थानस्य विभिन्न परिसरेषु प्राचार्यःराष्ट्रिय-संस्कृत-संस्थानस्य कुलसचिवः तथा जगद्गुरु रामानन्दाचार्य नाम राजस्थानस्य संस्कृत विश्वविद्यालयस्य कुलपतिः आदि पदेषु अलंकृतः आसीत्। संस्कृतं, हिन्दी, आङ्गलेयं, तमिळ्, तेलुगू, कन्नड़, मलयाळम्, अयं महोदय: ओडिया, प्राकृतं आदिषु विभिन्नभाषासु पण्डितः आसीत्। व्याकरण, न्याय, वेदान्त,मीमांसा, दर्शन, शिक्षाशास्त्र्यादिविषयेषु पारंगतः आसीत्। तस्य लघिष्ठा, छन्दोमाला, शाब्दिकचिन्तामणिः तथा लिंगानुशासनस्य अक्षयः टिप्पणिःप्रभृतयः ग्रन्थाः, तथा सम्पादित ग्रन्थाः च प्रसिद्धाः। ज्ञानस्य गरिमा स्वस्य सरलतायां प्रकाश्य स्वस्य लोकान् सदा प्रकाशयन्नासीत् अयं महाभागः।
पान् कार्ड्पत्रम् वैष्टिकं करोति।
नवदिल्ली > वित्तकोशलेखानां कृते शाश्वतिकलेखापत्रम् [पान् कार्ड्] अवश्यं कृत्वा केन्द्रवित्तमन्त्रालयेन आदेशः कृतः। विद्यमानानां लेखावाहकानां पान् संख्या फेब्रुवरि अष्टाविंशात् दिनाङ्कात् पूर्वं पान् संख्यायाः संग्रहणाय वित्तकोशाः निर्दिष्टाः। ये पान् कार्ड् रहिताः तैः फोम् ६० पत्रम् अवश्यं समर्पयितव्यम्।
एतदधिकृत्य अायकरव्यवस्थां संशोधनं कृत्वा प्रत्यक्षकरविभागेन विज्ञप्तिपत्रं प्रकाशितम्। जन् धन् लेखासदृशानां लघुसंख्यानानां कृते अयं नूतननिर्देशः न बाधकः भविष्यति।Sunday, January 8, 2017
धाक्का आक्रमणस्य सूत्रधारः हतः।
धाक्का>बङ्लादेश राष्ट्रे गुल्षन् कफे भीकराक्रमणस्य सूत्रधारः इति उच्यमानः नूरुल् इस्लाम्मर्सान् इत्याख्यः बङ्लादेशस्य आरक्षकैः सह सम्पन्नेन संघट्टनेन हत इति आरक्षकवृन्दैः उक्तम्। बहुषु हत्याव्वहारेषु अपराधित्वमापन्नः सद्दाम् होसैन् नामकः अपि संघट्टने मृतः। गते जूलाई प्रथमदिनाङ्के आसीत् होली आर्टिसान् कफे इति भोजनालये भीकराक्रमणं सम्पन्नम्। भारतीयासहिता एकोनत्रिंशत् जनाः अस्यां घटनायां मृताः आसन्।
समर्थम् चारित्र्यवानमञ्च भारतम् विश्वस्य आवश्यकता - सुरेश सोनी
उडुपी> भारतम् शाश्वतराष्ट्रमस्ति। मानवतायां आत्मा अस्ति। भारतम् पुनः समर्थम् चारित्र्यवानञ्च कर्तुम् विश्वस्य आवश्यकता अस्ति। हिंदू धर्मस्य मूलतत्त्वानि पुनः जनानाम् बोधयित्वा एव एतद् संभाव्यते अपि च संस्कृतम् अस्य परिवर्तनस्य वाहकत्वेन स्थास्यति, इति राष्ट्रिय स्वयंसेवक संघस्य सह सरकार्यवाहः सुरेश सोनी अद्य अत्र निवेदितवान्। संस्कृत भारत्या उडुप्याम् आयोजिते अखिलभारतीयाधिवने बौद्धिकसत्रस्य मुख्य वक्तृरुपेण सोनीमहोदयः अभाषयत्। उडुपिक्षेत्रस्य पर्याय-श्री-पेजावर अधोक्षज-मठाधीशाः श्रीश्रीविश्वेशतीर्थ स्वामीनः, आदि चुंचुगिरी महासंस्थान मठस्य श्री विद्यासागर तीर्थ महाराजः, शाखा मठस्य श्री धर्मपालनाथ स्वामीनः, संस्कृतभारत्या नवनियुक्तः राष्ट्रिय अध्यक्षः भक्तवत्सलशर्मा तथा च समित्या प्रमुखः कार्यदर्शीः एम. बी. पुराणिकः प्रसङ्गेस्मिन मंचस्योपरि उपस्थिताः।
'संस्कृत भारतम् - समर्थ भारतम्' विषयं धृत्वा श्री. सोनीवर्यः मार्गदर्शनम् कृतवान्। आङ्गलेखकस्य विलड्युरांटस्य उक्तीं उद्धृत्वा सः अवदत्, “भारतं सर्वस्यापि माता एव वर्तते। सहस्रवर्षस्य यात्रायाम् केचित् आंदोलनानि भवितव्यानि एव। अधुना भारतम् द्वेप्रवाहसंगमरुपेण वर्तते। एकस्मिन् प्रवाहे दुर्बलः अपि जीवन्त अध्यात्मपरंपरा अस्ति तथा अन्यस्मिन् प्रवाहे वयं केचन् रूढ्याः श्रद्धाश्च गृहितवन्तः ये सहस्रशः वर्षानि आक्रमकाभ्याम् दत्तानि। राष्ट्रियवृत्तिः धारयन् नागरिकाः आध्यात्मिकनागरिकाः च सज्जीकर्तुमेव समर्थभारतस्य प्रथमा आवश्यकता वर्तते।”
भारतम् एकम् दुर्भाग्यशालीन् राष्ट्रमस्ति, यतः अत्र केचन् जनाः सन्ति ये राष्ट्रीयतां एव प्रश्नाः कुर्वन्ति, एवं सः खेदः प्रकटितवान्। "वेदादी साहित्यानि अस्मानम् राष्ट्रस्य व्याख्या यच्छन्ति। पुरातने वाङ्गमये यत्किमपि अस्ति, तत् अस्मानम् प्रतिपदं मार्गदर्शनं करोति। समर्थभारतम् चारित्र्यवानभारतञ्च अधुनां आवश्यकमेव, अपि जगद्गुरुभारतम् महान् आवश्यकता अस्ति," इत्यपि सः कथितवान्।
प्रतिकूल घटनाया कारणात् नैराश्यं न धारयेत्, एवं कथयन् सः अधिवेशनेsस्मिन् उपस्थितानाम् २००० तः अधिकानाम् कार्यकर्तृणाम् प्रेरणाम् अददात्।
राष्ट्रिय विद्यालयकायिकक्रीडा - केरलाय किरीटम्।
पूने>भारतस्य विद्यालयछात्राणां कालज्येष्ठकायिकक्रीडायां केरलस्य किरीटप्राप्तिः अनुस्यूततया सप्तमवारमेव अस्यां स्पर्धायां केरलस्य सर्वाधिपत्यम्। एकादश सुवर्णपतकानि, त्रयोदश रजतपतकानि, सप्त कांस्यपतकानि च प्राप्य आहत्य ११४ अङ्कैरेव केरलस्य किराटधारणम्। आतिथेयराज्यं महाराष्ट्रा द्वितीयस्थानं प्राप्तवत्। तमिळनाट् राज्येन तृतीयस्थानं प्राप्तम्। प्राप्ताङ्कानां गणनां विहाय प्राप्तपतकानां संख्यामनुसृत्य स्थाननिर्णयं कृतमित्यनेन तमिल् नाट् राज्यस्य प्रतिषेधः संवृत्तः। अङ्कगणनायां तमिळनाट् ६०, महाराष्ट्रा ४५ इति क्रमेण आस्ताम्।
Saturday, January 7, 2017
ओम् पुरिः कालयवनिकां गतः।
मुम्बई> अभिनयस्य परुषसौन्दर्यं प्रेक्षकान् प्रति संक्रमितवान् विख्यातनटः ओम् पुरिः[६६] मृत्युवशं गतः। ह्यः प्रभाते अन्धेरिस्थे स्वभवने हृदयाघातेनैव अन्त्यमभवत्। हरियानायां अम्बालाप्रदेशे कस्मिंश्चित् पञ्चाबीपरिवारे १९५० ओक्टोबर् मासे १८ तमदिनाङ्के भूजातः ओं प्रकाश् पुरिः कतिपयैः हिन्दीचलच्चित्रैः प्रोक्षकमनस्सु स्थानं प्राप्तवान्। चतुर्दशकदैर्घ्ये तस्य अभिनयजीवने समान्तरचलनचित्रैः सह मुख्यधाराचित्रेषु नाटकेषु दूरदर्शनकार्यक्रमेषु च भागभागित्वमावहत्। हिन्दीं विहाय मराठी तेलुगु कन्नटा पञ्चाबी मलयालं भाषाचलच्चित्रेषु अपि स्वस्य नटनवैभवं प्रदर्शितवान्। होलिवुड् ब्रिटिशचित्रेषु भारतीयसान्निध्यम् अभवत्।
१९८१ , १९८३ संवत्सरयोः द्विवारं श्रेष्ठतमनटस्य देशीयपुरस्कारं लब्धवान्। १९९० तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेणापि समादृतः आसीत्।
ओम् पुरिवर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी कोण्ग्रस् अध्यक्षा सोणियागान्धी चलच्चित्रमण्डलस्य प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।
एष्यायाः बृहत्तमस्य विद्यालय-कलोत्सवस्य जनपदस्तरेषु स्पर्धा आरब्धा
एरणाकुळम् > एष्यायाः बृहत्तमः कलाेत्सवः इति प्रसिद्धः केरळस्य विद्यालय-कलोत्सवः जनपदस्तरेषु आरब्धः। कोट्टयम् जनपदे संस्कृत-स्पर्धायां नाटक विभागे सत्यकामजाबालः इति नाटकावतरणेन वेळ्ळावूर् नाम ग्रामस्य एस्.एन. वि प्राथमिक विद्यालयः प्रथमस्थानं प्राप्तम्। राज्यस्तरीय-स्पर्धा अस्मिन् मासस्य षोडशदिनाङ्गात् आरभ्य द्वाविंशति-दिनाङ्कपर्यन्तम् भविष्यति। ऐषमः सप्तपञ्चाशत्तमः महोत्सवः भवति। राज्यस्तरीयस्पर्धा माध्यमिक स्तरीय उच्चस्तरीययोः एव। विशेषतया एकोनविंशतिः स्पर्धाः संस्कृतभाषायामपि भवन्ति।
संस्कृतं भारतस्य श्वासः - सुमित्रा महाजन्।
संस्कृतभारत्याः अखिलभारतीयस्य अधिवेशनस्य उडुप्यां प्रारम्भः।।
संस्कृतभारत्याः अखिलभारतीयस्य अधिवेशनस्य उडुप्यां प्रारम्भः।।
संस्कृतभारत्या कर्णाटके उडुप्याम् आयोजितस्य अखिलभारतीयस्य अधिवेशनस्य उद्घाटनं श्रीमती महाजनवर्या अकरोत्। उडुपिक्षेत्रस्य पर्यायः श्री - पेजावर - अधोक्षज- मठाधीशाः श्रीश्रीविश्वेशतीर्थस्वामिनः अपि च महाजनमहाभागा इत्यनयोः करकमलाभ्याम् अधिवेशनस्य उद्घाटनम् अभवत्। प्रसङ्गेsस्मिन् कृष्णापुरमठाधीशाः श्रीश्रीविद्यासागरतीर्थस्वामिनः, उडुपिक्षेत्रस्य सांसदा सुश्रा शोभा करंदलाजेमहोदया, कर्णाटकस्य मत्स्यव्यवसाय तथा युवसक्षमीकरणमन्त्री प्रमोद मध्वराजमहोदयः, संस्कृतभारत्याः अखिलभारतीयः अध्यक्षः डा. चॉंदकिरण सलूजामहोदयः, महामन्त्री डा. नन्दकुमारमहोदयः च उपस्थिताः आसन्।
त्रिदिनात्मकस्य अधिवेशनस्यास्य अङ्गत्वेन विभिन्नविषयेषु चर्चा, परिसंवादाः, यक्षगानादयः सांस्कृतिककार्यक्रमाः च आयोजिताः विद्यन्ते। 'परम्परा' नाम्नी आकर्षकी प्रदर्शनी अपि अत्र आयोजिता अस्ति। कार्यक्रमस्य विशेषत्वं नाम लोकसभाध्यक्षामहोदयाsपि सम्पूर्णम् उदबोधनं संस्कृतेनेव अकार्षीत्।
Friday, January 6, 2017
केन्द्रसर्वकारस्य आर्थिक-विनिमयानि मुद्रापत्रकरहितानि भविष्यति।
नवदेहली > सर्वकारीय आर्थिक-विनिमयानि मार्च् मासस्य एकत्रिंशत् दिनाङ्कात् पूर्वं मुद्रापत्रकरहितं भविष्यति। एतदर्थं सर्वान् मन्त्रालयान् प्रति निर्देशः दत्तः। विनिमयानि मुद्रापत्रकरहितया कर्तुं कृतानि सज्जीकरणानि सप्ताहान्तरेण पूर्णताम् प्राप्स्यते इति केन्द्र IT निदेशकया कविता भाट्यया उक्तम्। नूतनः भीं आप् सङ्केतः सर्वैः वित्तकोशैः सह आयोक्ष्यते इति च तया उक्तम्। सांख्यक विनिमयानां वर्धनेन सेवा शुल्कः सार्धरूप्यकात् अर्धरूप्यकत्वेन न्यूनीकृतः इति निदर्शनत्वेन तया प्रकाश्यते। (Credit- photo. Matrubhumi News)
अध्ययनरीतिः समग्रं परिष्क्रियते।
अनन्तपुरी> केरले विद्यालयाध्ययनसम्प्रदायस्य पादादिकेशान्तपरिवर्तनाय अन्तिमरूपं कृतम्। शैक्षिकसम्प्रदायस्य परिष्करणेन सह भौतिकान्तरिक्षस्य च समग्रं परिवर्तनं भविष्यति। आगामि अध्ययनवर्षादारभ्य केरलेषु सार्वजनीनविद्यालयाः नूतनसम्प्रदाये भविष्यन्ति। अध्यापककेन्द्रीकृताध्ययनस्य स्थाने छात्रकेन्द्रीकृताध्ययनस्य प्राधान्यम् इत्यस्ति परिष्करणस्य सारः। (Credit- photo. Matrubhumi News)Wednesday, January 4, 2017
निर्वाचनं जाति-धर्मातीतं भवितव्यम् - सर्वोच्चन्यायालयः।
नवदिल्ली >जात्याः धर्मस्य च आधारे सम्मतिदानग्रहणं न आशास्यमिति सर्वोच्चन्यायालयस्य धर्मसंहितापीठेन आदेशः कृतः। मानवानां धर्मः ,वर्गः , जातिः ,भाषा इत्यादीनामाधारेण क्रियमाणं मतदानसङ्ग्रहणं निर्वाचनभ्रष्टाचार इति न्यायपीठेन निगदितम्। मुख्यप्राड्विवाकस्य टि एस् ठाक्कुरवर्यस्य अाध्यक्ष्ययुक्तेन सप्ताङ्गयुक्तेन शासनधर्मसंहितापीठेनैव एषः सुप्रधानः निर्णयः कृतः।जनप्रातिनिध्यनियमे १२३[३] विभागे सूच्यमानं "तस्य धर्मः " इत्यत्र स्थानाशिनः, प्रतिनिधेः, सम्मतिदातॄणां च जाति धर्मादयः अन्तर्भूताः इति न्यायपीठस्य भूरिपक्षनिर्णये स्पष्टीकृतम्।
भारत-वंशीयः शेख रफीक: किर्गिस्ताने "मेजर् जनरल्"।
नवदिल्ली> भारतीयमूलस्य निवासी शेख रफीक मोहम्म: नाम भारतवंशजः किर्गिस्तान देशे रक्षा विभागे "मेजर् जनरल्" इत्यस्मिन् पदे नियुक्त: अभवत्। सुचनानुसारेण कुत्रापि कस्यचित् देशस्य वैदेशिक नागरिकस्य अन्यस्मिन् देशे एतादृशरुपेण रक्षा विभागस्य उच्चपद अलंकरणस्य दुर्लभ एवञ्च प्रप्रथमम् उदाहरणमस्ति। भारतदेशस्य केरलराज्यस्य मूल निवासी रफीक: इत:पूर्वमपि किर्गिस्तान-देशस्य भूतपूर्व राष्ट्रपतिः कुर्मानबेक सेलियेविच बेकियेवस्य मुख्य सलाहकार पदे आसीत्।
पञ्चराज्यानां विधानसभेयनिर्वाचनानि
निर्वाचनायोगेन पञ्चराज्यानां विधानसभानिर्वाचनेभ्यः मतदानेभ्यः तिथयः समुद्घुष्टाः उत्तरप्रदेशे सप्तचरणेषु मणिपुरे चरणद्वये उत्तराखण्डगोवापञ्जाबराज्येषु एकस्मिन्नेव चरणे मतदानं भविष्यति |१- उत्तरप्रदेशस्य
प्रथमचरणमतदानम् - ११/०२/२०१७
द्वितीयचरणमतदानम् -१५/०२/२०१७
तृतीयचरणमतदानम् - १९/०२/२०१७
चतुर्थचरणमतदानम् - २३/०२/२०१७
पञ्चमचरणमतदानम् - २७/०२/२०१७
षष्ठचरणमतदानम् - ०४/०३/२०१७
सप्तमान्तिम् चरणमतदानञ्च -०८/०३/२०१७
२- मणिपुरस्य
प्रथमचरणमतदानम् ०४/०३/२०१७
द्वितीयचरणमतदानम् ०८/०३/२०१७
३,४,५- उत्तराखण्ड-गोवा-पञ्जाबराज्येषु च १५/०२/२०१७ दिनानि विनिर्धारितानि |
केरल-क्रिकेट् संघात् त्यागपत्रम्।
कोच्ची>सोमवासरे क्रिकेट संघस्य(केसीए)अध्यक्षस्य टी० सी० मात्यू इत्यस्य नेतृत्वे सर्वेsपि अधिकारिणा: स्व-स्व पदात् त्यागपत्रं दत्तवन्त:। तेषां वक्तव्यमासीत् यद् सर्वोच्च न्यायालयेन गठित लोढा समिते: अनुशंसानां केसीए मध्ये आरम्भ: भवतु एतदर्थं त्यागपत्रं दत्तवन्त:। सर्वोच्चन्यायालयस्य आदेशानुसारं ते सर्वेsपि अधिकारिणा: ये नव(९)वर्षात्मकं कार्यकालं पूरितवन्त: ते सर्वेsपि त्यागपत्रं दास्यन्ति । टी० सी० मात्यू अनुसारेण केसीए संस्थाया: वरिष्ठ-सदस्या: बी० विनोद: नूतन संघाध्यक्ष: जयेश जोर्ज: नूतन: सचिव: च भविष्यति। व्यवसायेन वाकील: टी० सी० मात्यू १९९७ त: २००५ पर्यन्तं केसीए संस्थाया: कोषाध्यक्ष-पदे तत: परं २०१४ पर्यन्तं सचिव-पदे २०१४ त: अध्यक्ष-पदे च आसीत्।
तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य एकादश-दिनाङ्कतः
कोच्ची> माङ्गल्य देवता इति प्रसिद्धा तिरुवैराणिक्कुलं नाम देशास्य श्रीपार्वती देव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः ज नुवरिमासस्य एकादश दिनाङ्के आरप्स्यते। आर्द्रा महोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम् । संवत्सरे एक वारं आलय -कवाटम् उद्घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः दर्शनम् उत्तममिति प्रथा अस्ति।
छात्राणां कृते संस्कृत-स्पर्धा
-प्रथम स्थानं प्राप्तवतां पारितोषिकत्वेन १०,००० रुप्यकाणि ।
Tuesday, January 3, 2017
Monday, January 2, 2017
जापनीयछात्राय संस्कृते पञ्च-सुवर्णपतकानि
वारणासी> सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य चतुस्त्रिंशदीय-स्नातकोत्सवे जापनीय-छात्रया तोषिको इडावया संस्कृताघ्ययनात् पञ्च-सुवर्णपतकानि प्राप्तानि। तया सम्पूर्णानन्द-संस्कृतविश्वविद्यालयस्य सुवर्णपतकं,रामकुवार् सुवर्णपतकं, चन्द्रवदन् माधवसिंह सुवर्णपतकं , माधवाचार्य सुवर्णपतकं, प्रसादमुखर्जी सुवर्णपतकं च प्राप्तम्। अष्टवर्षेभ्य: पूर्वं काट्मण्डूतः आगतवती तस्मिन् समये नेपाली भाषामधिगतवती। संस्कृतमेव नेपालभाषाया: मूलमिति ज्ञात्वा संस्कृतभाषा-पठनाय संस्कृते प्रामाणपत्रप्रणालीं कृतवती। तत: प्रेरिता भूत्वा संस्कृते शास्त्री, आचार्य बिरुदौ च कृतवती। अस्मिन् स्नातकोत्सवे बनारस् हिन्दूविश्वविद्यालयस्य उपकुलपति: श्री गिरीश चन्द्रत्रिपाठी, काशीविद्यापीठस्य उपकुलपति: श्री पृथ्वी नागः, राज्यपाल: श्री राम् नायक् च भागं ग्रहीतवन्त:।
तुर्कीराष्ट्रे भीकराक्रमणम् - एकोनचत्वारिंशत् जनाः मारिताः।
इस्ताम्बूल्> तुर्कीराष्ट्रस्य राजनगर्याम् इस्ताम्बूले कस्मिंश्चित् निशामेलनकेन्द्रे नववत्सराघोषाणां मध्ये भीकरैः कृतेन भुषुण्डिप्रयोगेन एकोनचत्वारिंशत् जनाः मृताः। तेषु द्वौ भारतीयौ स्तः। प्रादेशिकसमयानुसारं रात्रौ सपादैकवादने आसीत् रेय्ना नामके निशाकेन्द्रे भीकराक्रमणं सञ्जातम्। उपसप्तशतं जनाः आघोषोत्सुकाः सन्तः उपस्थिताः आसन्!सान्ताक्लोसस्य वेषं धृत्वा प्राप्तः भीकरः द्वारपालकम् आरक्षिपुरुषं प्रति गोलिकाशस्त्रप्रयोगं कृत्वा अन्तः प्रविश्य आघोषकान् प्रति भुषुण्डिप्रयोगं कृतवान्। मृतेषु २० जनाः प्रत्यभिज्ञाताः।
यू एन् सेक्रटरि जनरल् पदे अन्टोणियो गुट्टरसः प्रविष्टवान्।
न्यूयोर्क् > अस्मिन् आङ्कलीय-नववत्सरे ऐक्यराष्ट्रसभयाः आधिपत्ये अन्टोणियो गुट्टरसः प्रविष्टः। प्रतिसन्धयः दूरीकृत्य शान्तिं प्राप्नुयामः इति तेन स्वस्य प्रथमभाषणे उद्घोषितम्। व्यक्तयः राष्ट्राणि च शान्तिवर्धनाय राष्ट्राभिमतभिन्नता परिहाराय च प्रथमस्थानं दद्युः। लोकराष्ट्राणां सर्वकाराः तथा नूतनं यू एस् संविधानं च साह्येन वर्तिष्यन्ते इत्यपि तेन प्रत्याशां प्रकाशितवान्। Sunday, January 1, 2017
क्षेमपद्धतीनां घोषणया नवसंवत्सरं स्वागतीकृत्य प्रधानमन्त्री; मुद्राप्रतिसन्धिमधिकृत्य मौनम् !।
नवदिल्ली> मुद्रानिर्मूल्यीकरणानन्तरम् आभारतं प्रतीक्ष्यमाणानि वचांसि प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यात् अद्य बहिरागतानि। नववत्सरं पुरस्कृत्य राष्ट्रं प्रति कृते प्रभाषणे अनेकाः क्षेमपद्धतयः प्रख्यापिताः। निर्धनानां भवननिर्माणाय नवीनं पद्धतिद्वयम् उद्घुष्टम्। मध्यवर्गीयेभ्यः जनेभ्यः नवलक्षपर्यन्तानाम् ऋणानां वृद्धौ प्रतिशतं चतुर्णां रूप्यकाणाम् अवहारः लभते। द्वादशपर्यन्तम् ऋणावधौ ३% अवहारस्य अर्हता अस्ति! कार्षिकर्णानां प्रथममासद्वयपर्यन्तं वृद्धिः नास्ति।
विश्वप्रसिद्धः अत्युन्नतः सेतुः चीनाराष्ट्रे
बैजिंङ् > अत्युन्नतम् अचलद्वयं संयोज्य निर्मितः सेतुः गतागताय उद्घाटितं चीनाराष्ट्रे । विश्वे स्थितेषु सेतुषु अत्युन्नतम् इतिप्रसिद्धस्य बैपाञ्चियाङ् सेतोः उद्घाटनेन द्वयोः प्रविश्ययोर्मध्ये सञ्चारदैर्घ्यं चतुर्वारं परिमितं भवेत् ।
नदीतलात् 565 मीटर् (1854 f ) उन्नतौ विद्यमानोऽयं सेतुःयुनान् ग्विसा प्रविश्ये मिथःयोजयति ।अनेन मार्गेण यात्रां करोति चेत् चतुर्घण्टादैर्घ्यं एकघण्टापरिमितं भवेत् ।
Saturday, December 31, 2016
भीम् आप् विश्वे अत्भुतम् आरच्यते ।
नव दिल्ली > युष्माकम् अङ्गुष्ठे एव वित्तकोश तथा वाणिज्यः चI बृहत्परिणामः आगमिष्यति। भीम् आप् विश्वस्य बृहदाकारकम् अत्भुतंभविष्यति। साङ्ख्य विनिमयाय निर्मतः 'आप्' विमोच्य भाषमाणः आसीत् प्रधानमन्त्री नरेन्द्रमोदी। नवीनमिदं आप् अन्तर्जालस्य अभावे अपि प्रवर्तनक्षमः भवति ।पञ्चाशत् गतदिनानियावत् पत्र माध्यमेषु प्रकाशिता वार्ताः सर्वकारस्य पद्धतयः क्रमीकर्तुं उपकारिका आसीत्। अतः माध्यम प्रवर्तकान् प्रति धन्यवादमर्पयामि इति च तेनोक्तम्।
पूर्वनिर्णयेन पुरावृत्तं न व्याख्यातव्यम् - भारतष्ट्रपतिः।
अनन्तपुरी > पुरावृत्तानां व्याख्याने व्यक्तिनिष्ठः पूर्वनिर्णयः न युक्त इति भारतराष्ट्रपतिः प्रणब् मुखर्जी । पूर्ववृत्तान्तरचनायां विभिन्नानि समीक्षणानि अन्तर्भाव्यानि। तदर्थम् अतिसूक्ष्मं दर्शनसामर्थ्यम् अपेक्षितञ्च। अनन्तपुर्यां सप्तसप्ततितमायाः भारतीयपुरावृत्तपरिषदः उद्घाटनं कुर्वन् भाषमाणः आसीत् प्रणब् वर्यः।न्यायाधीशस्य मनोव्यापारः भवेत् चरित्रकारस्यापि, नैव पक्षसमर्थकस्य। चरित्रं वस्तुनिष्ठतया उपगन्तव्यम्- राष्ट्रपतिः अभाषत। तर्क-वितर्क-सन्देहानाम् अनुकूल-प्रतिकूल-निस्सङ्गानां च भारतीयजनाधिपत्ये स्वातन्त्र्यमस्ति। अतः पुरावृत्तरचनायामपि इदं स्वातन्त्र्यम् अपेक्षितम्। सत्यनिर्णये पूर्वोक्तानां तर्कवितर्कादीनां साहाय्यम् अवश्यमेव। अतः पुरावृत्तव्याख्याने पूर्वपरिकल्पना न युक्ता। राष्ट्रपतिना उक्तम्।
केरळराज्यपालः न्याया.पि सदाशिवम् अध्यक्षपदमलङ्कृतवान्। मुख्यमन्त्री पिणरायि विजयः मन्त्रिणौ कटकंपिल्लि सुरेन्द्रः , प्रोफ.सि रवीन्द्रनाथः च , विपक्षनेता रमेश् चेन्नित्तला इत्यादयः सन्निहिताः आसन्।
Friday, December 30, 2016
सांख्यक विनिमयसुविधायै दूरवाणी सङ्केतः - प्रधानमन्त्री।
नव दिल्ली > विशेष दूरवाणी सङ्केतः धनविनिमयाय विमोच्यते इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। जनोपकारका भविष्यति अयम्। साङ्ख्यक विनिमय सुविधा वर्धनाय क्रियमाणाः पद्धतयः केन्द्रसर्वकारस्य साहाय्यम् अर्हन्ति इति च मोदिना टिट्वर् द्वारा सूचितम्। धनपत्रस्य निर्मूल्यीकरणानन्तरं पञ्चाशत् दिनानि अतीते नूतन आर्थिक विनिमयोपधयः प्रख्याप्यते।
केरळे शासनदक्षाव्यवस्था आयोजयिष्यति।
अनन्तपुरी >केरळस्य सचिवालये सामान्यशासनं वित्तकार्यम् इत्यादिषु त्रिंशत् विभागेषु केरल शासनदक्षा सेवाव्यवस्थां [Kerala Administrative Service] समायोजयितुं मन्त्रिसभया निश्चितम् । पि एस् सि संस्थायाः अनुमत्या नियमावलिं सज्जीकृत्य के ए एस् सफलीकर्तुम् उद्दिश्श्यते।यदि केएस् ए सफलीक्रियते तर्हि सचिवालयाभिव्यापकेषु सुप्रधानविभागेषु विद्यमानेभ्यः उन्नतस्थानेभ्यः पि एस् सि द्वारा साक्षान्नियुक्तिं कर्तुं शक्यते। तत्र अष्टसंवत्सरसेवनात्परं ऐ ए एस् पदवीं लब्धुमर्हतां लभते च।
Thursday, December 29, 2016
आभारतम् ऑण् लैन् सुरक्षायै गूगिलः आगमिष्यति।
नवदिल्ली>ऑण् लेन् सुरक्षामधिकृत्य सुखबोधाय उपभोक्तृमन्त्रालयस्य सहकारितया पठनवर्गः आयोक्ष्यते । संवत्सरं यावत् वर्गः प्रचाल्यते । कथम् ऑण्लेन् सुरक्षां प्राप्नुयामः इति राष्ट्रियस्थरे कार्यक्रमाः आयोक्ष्यते इति गूगिलेन ज्ञापितः। उपभोक्तृदलानां कार्यक्षमता, अन्तर्जालसुरक्षा, अन्तर्जाल सङ्केतानधिकृत्य अवबोध वर्धनम् च लक्ष्यम् इति गूगिल् संस्थायाः भारतस्य वक्त्रा चेतन् कृष्णमूर्ति महोदयेन उक्तम्। प्रथमे परिशीलनसत्रे पञ्चशतम् जनाः भागभाजःभविष्यन्ति। २०१७ जनुवरि मासे परिशीलनसत्रस्य आरम्भम् इति निश्चितम्।
संस्कृतस्य कृते आत्मनं समर्प्यप्य सुजा गतवती।
सम्प्रतिवार्तायाः वार्ताहरा सुजाहरिदास् दिवङ्गता।त्रिश्शिवपेरूर्> सम्प्रति वार्तायाः प्रारम्भात् आरभ्य वार्तालेखिकायाः कर्मणा संस्कृतसेवां कुर्वन्ती असीत् सुजा महाभागा। संस्कृतभारत्याः निस्वार्थसेविकारुपेण बहुकालं प्रवर्तनं कृतवती। त्रिशूर् जनपदस्य चेर्प् सर्वकारीयविद्यालये संस्कृताध्यापिकापदम् अलङ्कुर्वन्ती आसीत् । ललितया रीत्या संस्कृतकक्ष्याचालने सुजायाः नैपुणी बहुवारं प्रशंसिता आसीत्। अनारोग्ये अपि संस्कृतभाषा प्रचाराय स्वमृत्युपर्यन्तं प्रयत्नं कृतवती। वृक्करोगेण पीडिता सा गतमासादारभ्य एरणाकुळे औषधालये चिकित्सायाम् आसीत्। ह्यः रात्रौ आसीत् तस्याः निधनम्।
Wednesday, December 28, 2016
त्रिंशद्दिनाङ्कात्पपरं निरुद्ध-मुद्रापत्र-वशवर्तिनः द्रव्यदण्ड्याः।
नवदिल्ली> निद्धाः पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।निर्मूल्यीकृतानि मुद्रारूप्यकाणि वित्तकोशलेखायां निक्षेप्तुम् अन्तिमदिनं भवति दिसम्बर् ३०। ततःपरं ५००,१००० रूप्यकाणां निरुद्धानि मुद्राणि दशसंख्याकात्परं हस्तगतानि भवन्ति चेत् द्रव्यदण्डः भवितव्यः इति अभिज्ञैः सूच्यते। तादृशैः मार्च ३१ पर्यन्तं रिसर्व् बाङ्कस्य प्रादेशिककार्यालयेषु निक्षेपाय अवसरः अस्ति। पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।
टोम् उष़ुन्नालस्य मोचनाय यतिष्यते - सुषमास्वराज्।
नवदिल्ली> येमन् देशात् ऐ एस् भीकरैः अपहृतस्य टोम् उष़ुन्नाल् नामकस्य क्रिस्तीयपुरोहितस्य मोचनाय पुनरपि यावच्छक्यं यतिष्यते इति भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः ट्विटर द्वारा निगदितवती। भारतीयः इत्यतः स्वस्य मोचनाय का पि धर्मसंस्था को पि सर्वकारः वा यत्किमपि सक्रियं प्रवर्तनं न करोति इति उष़ुन्नालस्य दृश्यनिवेदनं प्रकाशितमासीत्। तस्य प्रतिवचनरूपेणैव सुषमायाः ट्विटर् वचनम्। सर्वेषां भारतीयानां प्राणाः परमप्राधान्यमर्हन्तीति तया निगदितम्।
याचनया लब्धं- भगवते दत्तवान्
विजयवाटिका > आन्ध्राप्रदेशस्य गोण्डापरिसस्थ श्रीराममन्दिरे याचकेन सार्थैकलक्षस्य काच निर्मिततः किरीटः भगवते समर्पितम्। मुत्यालंपडु कोदण्डरामालयस्य यदि रढ्ढिनामकेन भिक्षुकेन एव किरीटः अर्पितः। पञ्चसप्तति वयस्कः अयं कौमारे विजयवाटिकायां आगतवान्। रिक्षावाहकः आसीत्। पञ्च वर्षेभ्यः पूर्वमेव याचकवृत्तिः स्वीकृता। बान्धवाः नास्ति इत्यनेन लब्धंधनं आध्यात्मिक-कार्याय उपयोक्तुं निश्चितवान्।Tuesday, December 27, 2016
एकदिनात्मक वार्तावतरण परिशीलनवर्गः सम्पन्नः।
कोच्ची > केरळे एरणाकुळं जनपदे सम्प्रति वार्तया आयोजितः एकदिनात्मक-वार्तावतरण पठनवर्ग:सम्पन्नः। जनपदस्य विविधेभ्यः भागेभ्यः १८ विद्यालय छात्राः पठनवर्गाय चिताः आसन्। वर्गस्योद्घाटनम् सर्व-शिक्षा अभियानस्य राज्यस्थरीय प्रयुक्तिपुरुषःऐवर्काला रविकुमारः निरवहत्। दिल्ली दूरदर्शनस्य वार्तावतारकेन नारायण दत्त मिश्र महोदयेन ऑण् लैन् द्वारा वर्गः प्रचालितः इति छात्रेषु तुष्टिः अवर्धत।पुलियनम् सर्वकारीय उच्चतर विद्यालयस्य प्रथानाध्यापकस्य के उण्णिकृष्णस्य समापन सन्देशेन पठनवर्गः सम्पूर्णतां प्राप। एतैः छात्रैः आगामिदिनेषु वार्तावतरणं करिष्यते।
अग्निःपञ्चमः नाम बाणस्य परीक्षणविजयः।
नवदिल्ली > आणवायुधवहनक्षमः भूखण्डान्तरबाणः अग्निःपञ्चः इत्याख्यः परीक्षणे विजयं प्राप्तवान्। ओडीषा राज्यस्य कलां द्वीपतः सोमवासरे प्रातः आसीत् विक्षेपणम्। परीक्षणस्य उत्तीर्णतया बालिस्टिक् राष्ट्राणां दले भरतस्यापि प्रवेशः अलभत। अमेरिका, रष्या, चैना, फ्रान्स् ब्रिटन् प्रभृतीनां राष्ट्राणां एव एतावत्पर्यन्तं
बाणस्य अधीशत्वम्। अस्य बाणस्य आक्रमण परिधिः पञ्चसहस्रं किलोमीटटर् एव। परीक्षायाः अन्तिमभागः
अधुना
समजायत।
भारतोपभूखण्डस्य कलापारम्पर्यम् संस्कृतसम्पन्नम्-
अश्वति तिरुनाल् गौरी महाराज्ञी।
![]() |
| श्रीशङ्कर नृत्तविद्यालयस्य २५तम वार्षिकाघोषाणाम् उद्घाटनं निर्वहन्ती महाराज्ञी गौरी लक्ष्मी भायी। |
सम्मेलने स्मिन् कालटि श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ.एम् सि दिलीप् कुमारः, केरलकलामण्डलं कल्पित-विश्वविद्यालयस्य भूतपूर्वोपकुलपतिः डॉ.के जि पौलोस्, नाट्यकलागुरुः कलामण्डलं कल्याणिक्कुट्टियम्मा इत्यादयः सन्निहिताः आसन्।
Monday, December 26, 2016
कोच्ची> केरळे शबरीगिरौ भगवतः अयप्पस्य मंदिरे गतदिने दुरापादिते सम्मर्दे न्यूनातिन्यूनं ३१ व्रतधारिणः व्रणिताः। व्रणिताः अय्यप्पददृशवः भक्ताः कोट्टयं चिकित्यालये अथ च स्थानीये पम्बा चिकित्सालये शुश्रूषिताः वर्तन्ते।। पत्तनंतिट्टायाः जनपदााधिकारिणा प्रोदीरितं यत् तीर्थाटकानां भूरिसंख्याकारणेन आरक्षिबन्धस्य खण्डनमभवत् येन दुर्घटनेयं दुरापादिता। जनोद्धाराय सुरक्षादृशा च राष्ट्रियापदुद्धारबलं घटनास्थले सक्रियतामादधाति।
Sunday, December 25, 2016
ज्ञानपीठपुरस्कारः शङ्खघोषवर्याय।
नवदिल्ली> अस्य संवत्सरस्य ज्ञानपीठपुरस्काराय वंगराज्यस्य प्रशस्तकविः तथा निरूपकः शङखघोषवर्यः अर्हति। वंगसाहित्ये रवीन्द्रनाथटाक्कुरस्य मार्गम् अनुगच्छन्नस्ति अयम्।
प्रसिद्धः साहित्यकारः चिन्तकः नंवर् सिंहः इत्यस्य नेतृत्वे विद्यमाना समितिरेव इमं निर्णयं कृतवती। सामाजिकप्रश्नान् उपेत्य निरीक्ष्यमाणाः कविताः तस्य जीवनकालं सामाजिकावस्थां च याथातथ्येन अङ्कयतीति पुरस्कारसमित्या निर्णीतम्।
मानवस्य अन्तर्वैरुध्यान्येव शङघघोषस्य कविताभिः सामान्येन प्रकाश्यमाणानि वर्तन्ते। भाषायाः कृतहस्तता तस्य कवितानां मुखमुद्रा भवति। आशयागाधतयया सौन्दर्येण च तस्य रचनाः नितराम् उत्कृष्टाः विद्यन्ते।
छात्रवैद्यसमूहाः ग्रामेषु पर्यटनं कृत्वा रोगनिवारणोपाया: अध्ययनं करणीयम्-चन्द्रबाबुनायुडु:।
विजयवाडा> स्वास्थ्यविद्यावाहिनि कार्यक्रमे ये वैद्यछात्रा: भागं ग्रहिष्यन्ति तेषामधिक अङ्का: यच्छाम: इति आन्ध्रप्रदेश मुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अवदत् । विजयवाडा नगरे शनिवासरे मुख्यमन्त्री अस्याः योजनायाः प्ररम्भं कृत्वा भाषणं दत्तवान् यत् “जनवरि मासस्य द्वितीयदिनाङ्कादारभ्य अक्टोबर् मास पर्यन्तं दशमासा: प्रतिदिनं षट्चत्वारिंशदधिकचतुश्शतं(४४६)वैद्यसमूहैः ग्रामेषु पर्यटनं कृत्वा तत्र पर्यावरणम्, प्रस्तुतस्थितिगतय:, रोगनिवारणोपाया: च अध्ययनं करणीयम्। अस्मिन् उद्यमे ये छात्रा: भागं ग्रहिष्यन्ति ते प्रयोगात्मकपरीक्षासु अधिकाङ्का: प्राप्तुं शक्नुवन्तीति मुख्यमन्त्री अवदत्।
नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया: स्नातकोत्तर-बिरुद-प्रदानोत्सवे मुख्यतिथिर्भूत्वा उत्तम-पठनपरिणामं प्राप्तवतां छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्य-विश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।
अत्यन्तोन्नत छत्रपतिशिवाजिमूर्तेः निर्माणम्- अरेबियन् महासमुद्रे।
भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
मुम्बई> मुम्बई नगरस्य समीपे अरेबियन् महासमुद्रे अत्यन्तोन्नत शिवाजिमहाराज्ञ: मूर्ते: निर्माणं भविष्यति। अयं मूर्ति: षट्शतत्रिंशत्पदम् उच्चतां भूत्वा विश्वविक्रमे स्थानं प्राप्स्यति। अस्य मूर्ते: निर्माणार्थं त्रिसहस्रषट्शतकोटि रूप्यकाणि व्ययं भविष्यति। शनिवासरे शिवाजिमूर्तेः निर्माणस्य प्रारम्भोत्सवे भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
अद्य क्रिस्तुजयन्ति आचरन्ति लोकाः
![]() |
| चित्रशेखरात् |
Saturday, December 24, 2016
कृष्णानदी तीरे पञ्चम अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सव:।
अमरावती > कृष्णानदी परीवाहकप्रान्त: कूचिपूडि: विश्वप्रसिद्ध:। अस्मिन् ग्रामे प्रचलिते अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सवे भागं ग्रहीतुं देश,विदेशेभ्यश्च नृत्यकलाकरा: आगतवन्ता:। अयं नृत्योत्सवकार्यक्रम: दिसेम्बर् २३ दिनाङ्कादारभ्य दिसेम्बर् २५ दिनाङ्कपर्यन्तं भविष्यति। आन्ध्रभाषासांस्कृतिकशाखा, सिलिकानान्ध्रा च संस्थे मिलित्वा अयोजितः भवति कार्यक्रमः। द्विशत-पञ्चाशत् गुरव: तेषां शिष्याश्च अस्मिन् कार्यक्रमे नृत्यं प्रदर्शयिष्यति। अद्य सार्ध-नववादने आन्ध्रप्रदेशमुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अयं कार्यक्रमस्य प्रारम्भ: कृत:। अस्मिन् कार्यक्रमे तृतीयदिने षट्सहस्रं कलाकरा: मिलित्वा नृत्यं करिष्यन्ति। कूचिपूडि नृत्यं आगामि संवत्सरादारभ्य सप्तमकक्ष्याया: पाठ्यपुस्तके पाठ्यांश रूपेण भविष्यतीति मुख्यमन्त्री अवदत्।
तमिल् नाडुराज्यस्य नूतन प्रधानसचिवा श्रीमति गिरिजा वैद्यनाथन्।
श्रीमती गिरिजा वैद्यनाथन् तमिलनाडु राज्यस्य मुख्यकार्यनिर्वाहिका रूपेण अद्य पदवीमलङ्कृतवती। भारतीय प्रौद्योगिकी संस्थाय़ामुपाधिं सम्पाद्य “संक्षेमं-आर्थिकप्रगति:” इत्यस्मिन् विषये विद्यावारधिं प्राप्तवती। डा.गिरिजा वैद्यनाथन् १९८१ संवत्सरे भारतीय प्रशासनिक सेवायां प्रशिक्षणं कृतवती। अनन्तरं तमिलनाडु आरोग्यशाखायां अधिकारिणी आसीत्। तत्र तस्या: सेवा: प्रशंसनीया: आसन्।प्राचार्य योग्यता परीक्षा – सी.बी.एस्.सी
Friday, December 23, 2016
सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्।
रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन् प्रवासि जनाः प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः
सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम् – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।
Subscribe to:
Posts (Atom)






























