भविष्ययुद्धतन्त्रेषु उपयोगाय यन्त्रमानवानाम् (Humanoid Robots) विकासं शीघ्रतरं करोति। नगरेषु युद्धकाले भवनानां ग्रहणं, चक्षुष्मत्त्वं, रक्षणकार्यं, सङ्कटपूर्णस्थानेषु शोधनं, सैनिकानां साहाय्यं च एतेषां प्रमुखाणि कार्याणि सन्ति। एतेषां नियोजनेन धातिष्णुकार्येषु सैनिकानां प्राणहानिं न्यूनीकर्तुं शक्यते। यद्यपि सम्प्रति एते यन्त्रमानवाः युद्धभूमौ शस्त्रैः सह साक्षात् न विहिताः, तथापि सैन्यगवेषणसंस्थाः एतेषां दुष्करं शिक्षणं परीक्षणं च कुर्वन्ति। एवम् कृत्रिमबुद्धेः रोबोटिक्स-तन्त्रज्ञानस्य च योजनेन अनागते काले योधैः सह यन्त्रसैन्यस्यापि विनियोगाय चैनदेशः महते अभूतपूर्वपरिवर्तनाय सन्नद्धः भवति।
OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, September 10, 2026
होर्मुस् पुनरपि प्रक्षुब्धम्।
इरानस्य ५ तैलमहानौकाः यू एसेन भग्नाः।
केय्रो> षण्मासातीतम् इरान-यू एस् युद्धाग्निः होर्मुस समुद्रधुनिं केन्द्रीकृत्य पुनरपि प्रज्वलति। इरानस्य पञ्च तैलवाहकमहानौकाः यू एस् सेनया आक्रम्य भञ्जिताः। तस्य प्रत्याक्रमणरूपेण अमेरिकायाः जोर्दानस्थं सेनाशिबिरं प्रति इरानेन बालिस्टिक मिसैलशस्त्राणि विक्षिप्तानि।
गल्फ् ओफ् ओमान्, खार्ग द्वीपे च आसीत् अमेरिकायाः आक्रमणम्। जेर्दानस्थे अल् असरास् व्योमनिलयं विरुध्य आसीत् इरानस्य प्रत्याक्रमणम्।
Wednesday, September 9, 2026
नेपालप्रलयः - मरणानि १४००।
५८०० + अदृश्यमानाः।
काठ्मण्डुः> हिमानिभञ्जनेन नेपालराष्ट्रे दुरापन्ने आकस्मिकप्रलये नेपाले टिबटे च मृतानां संख्या १४०० अतीता। ५८०० तः अधिके जनाः इदानीमपि अदृश्यमानाः वर्तन्ते। अदृष्टेषु ५८९ विदेशीयाः अन्तर्भवन्तीति नेपालसर्वकारेण निगदितम्। उप चत्वारिंशत् सहस्रं जनाः रक्षासेनया रक्षिताः।
चिट्वान्, नुवाकोट्, रासुवा इत्यादिभ्यः जनपदेभ्यः एव अधिकसंख्यकानि मृतशरीराणि उपलब्धानि। मृतशरीराणि अधिकदूरं प्रवहितानि इत्यतः प्रत्यभिज्ञानं दुष्करमस्ति। डि एन् ए परिशोधनया प्रत्यभिज्ञाताः उपशतं मृतदेहाः बान्धवेभ्यः हस्तान्तरीकृताः।
असंस्कृततैलेन्धनस्य मूल्यं १०० डोलर् उपगच्छति।
मुम्बई> गल्फराष्ट्राणाम् अशान्तिषु अनुवर्तमानेषु असंस्कृततैलेन्धनस्य मूल्यं पुनरपि वर्धते। मङ्गलवासरे अन्ताराष्ट्रतुलनमानोपेतस्य 'ब्रन्ड् क्रूड्' इन्धनस्य मूल्यं प्रत्ययोभाण्डं १०० डोलर् मितम् उपागच्छत्। सार्धमासस्य अत्युन्नतमूल्यं भवत्येतत्।
यमनस्य हूति विभागस्य आक्रमणेन सौदी अरेबियायाः कतिपयानां तैलखननकेन्द्राणां प्रवर्तनं स्थगितमित्येतत् कारणं भवति। अमेरिका-इरानयोः तैलमहानौकाः अपि अनुस्यूततया आक्रमणाधीनाः वर्तन्ते इत्यपि तैलेन्धनस्य मूल्यवर्धनस्य कारणं भवति।
ब्रिक्स् शिखरसम्मेलनाय भारतं सज्जम्।
पश्चिमेष्यासन्दिग्धता मुख्यचर्चाविषयो भविष्यति।
नवदिल्ली> भारतेन आतिथ्यम् ऊढ्यमानं ब्रिक्स् शिखरसम्मेलनं शनि-रविवासरयोः नवदिल्ल्यां सम्पत्स्यते। भारतमण्डपः मुख्यवेदिका भवति,यत्र पूर्वं जि-२० शिखरसम्मेलनं सम्पन्नम्।पश्चिमेष्यायाम् अनुवर्तमाना सन्दिग्धता मुख्यचर्चाविषयो भविष्यति।
११ सदस्यराष्ट्राणि, १० सहकारिराष्ट्राणि च सम्मेलने भागं वक्ष्यन्ति। चीनस्य राष्ट्रपतिः षी जिन् पिङ्, रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, ईजिप्त्, इन्डोनेष्या, इरानं, कसाखिस्थानम् इत्येतेषां राष्ट्राणां राष्ट्रपतयः, मलेष्या, एत्योप्या, तायलान्ड् राष्ट्राणां प्रधानमन्त्रिणः, संयुक्तराष्टसभायाः कार्यदर्शिप्रमुखः अन्टोणियो गुट्टरसः इत्येते शिखरसम्मेलने भागम् ऊढ्मानेषु प्रधानिनः सन्ति।
Tuesday, September 8, 2026
आरवल्ली निर्वचनं- अधिककालः न दातव्यः।
नवम्बर् ३० तमाभ्यन्तरे आवेदनपत्रं समर्पणीयमिति सर्वोच्चन्यायालयः।
आरवल्ली पर्वतश्रेणी।
नवदिल्ली> आरवल्ली पर्वतश्रेण्याः एकीकृतनिर्वचनं समर्पयितुं अधिककालः आवश्यक इति उन्नताधिकारसमित्याः निवेदनं सर्वोच्चन्यायालयेन निरस्तम्। नवम्बर् त्रिंशद्दिनाभ्यन्तरे अन्तिमावेदनपत्रं समर्पयितुं न्यायालयेन कर्कशनिर्देशः दत्तः। २०२७ फेब्रुवरि २८ दिनाङ्कपर्यन्तम् इत्यासीत् समित्याः कालाधिकाभ्यर्थना।
गुजराततः आरभ्य दिल्लीपर्यन्तं व्याप्यमानायाः ६९३ कि मी दैर्घ्ययुक्तायाः आरवल्ली पर्वतश्रेण्याः शास्त्रीयं निर्वचनं कर्तुं पर्वतश्रेण्याः खनन-पारिस्थितिकाघातान् वस्तुनिष्ठेन मूल्यनिर्णयं कर्तुं च Indian Council of Forestry Research & Education Director General पदीयायाः काञ्जन देव्याः नेतृत्वे पञ्चसदस्योपेता समितिः रूपीकृता आसीत्।
न्यायाधिपः जोय् मल्या बोग्चि, न्याया. वि मोहनः इत्येताभ्यामुपेतः नीतिपीठ एव कर्कशनिर्देशम् आदिदेश। प्रकरणं डिसम्बर् द्वितीयदिनाङ्के सर्वोच्चन्यायालयेन पुनः परिगणयिष्यते।
बिहारे महान् प्रलयः; गंगायां जलमानं अत्युन्नतस्थितौ।
पाट्ना> बिहारराज्ये महत्या वृष्ट्या गंगामभिव्याप्य समेषु नदीषु जलमानं क्रमातीतम् अवर्धत। ११ जनपदेषु १९ लक्षाधिके जनाः प्रलयदुष्प्रभाविताः जाताः। पाट्नायां गान्धिघट्टे गंगानद्यां जलमानम् अत्युन्नतस्थितिं प्राप। निम्नप्रदेशेषु अतिजागरूकतानिर्देशः विहितः।
नेपथ्या 'कूटियाट्टमहोत्सवः' समाप्तः।
![]() |
| मायासीताङ्कात् किञ्चन दृश्यम्। |
मूष़िक्कुलं> 'नेपथ्या' इति कूटियाट्टकलाकेन्द्रस्य नेतृत्वे आयोजितः कूटियाट्टमहोत्सवः मायासीताङ्कस्य प्रस्तुतेन समाप्तः। आगस्ट् मासस्य १९ तमे दिनाङ्के आरब्धः महोत्सवः चरणद्वयेन १४ दिनात्मकः आसीत्। युनेस्को संस्थया विश्वपैतृकदृश्यरूपकेषु अन्तर्भावितं भवति कूटियाट्टम्। तस्य सांप्रदायिककैरलीयकलारूपस्य अर्थगर्भत्वम् अभिनयवैशिष्ट्यं कलाश्रेष्ठत्वं च आस्वादकेभ्यः परिचायनं क्रियमाणाः विभिन्नाः प्रस्तुत्यंशाः मञ्चे अवतारिताः।
शक्तिभद्रस्य आश्चर्यचूडामणिनाटकस्य तृतीयः अङ्कः नाम्ना मायासीताङ्कः, भासस्य प्रतिमानाटके पञ्चमाङ्कश्च [रावणाङ्कः] आसीत् मुख्यप्रस्तुतिः। सीतापहरणमेव अङ्कद्वयस्यापि इतिवृत्तं, तथापि द्वयोः रचयित्रोः विभिन्ने रचनाद्वये एकः एव कथातन्तुः विभिन्नतया नाटकात्मकतया भिन्नाभिनयरीत्या मञ्चे आविष्कृतः आसीत् इत्येतत् कूटियाट्टमहोत्सवस्य वैशिष्ट्यम्।
प्रोफ. डेविड् षूल् मान्, भरतनाट्यनर्तकी लीला सांसणः, डो सुधा गोपालकृष्णः, डो के जि पौलोस् इत्यादयः, भारतीयाः वैदेशिकाश्च बहवः कलास्वादकाः गवेषकाश्च महोत्सवे भागं गृहीतवन्तः।
Monday, September 7, 2026
चीना मास्टेर्स् बाड्मिन्टण्
सात्विक-चिरागसख्यस्य किरीटप्राप्तिः।
षेन्सन् [चीनः]> अत्यन्तमुत्साहभरिते अन्तिमप्रतिद्वन्द्वे चीनीयसख्यं विजित्य भारतस्य सात्विक साय् राज रेङ्किरड्डी- चिराग षट्टी सख्यं इदंप्रथमतया चीना मास्टेर्स् बाड्मिन्टण् किरीटं प्राप। पुरुषाणां युगलविभागे अन्त्यस्पर्धायां चीनस्य ही जी टिङ् - रेन् सियाङ् यू सख्यं विरुध्य ११-२१, २१-१३, २१-१७ इति प्राप्ताङ्कैः एव भारतसख्यस्य विजयः।
२०२५ तमवर्षस्य चीना मास्टेर्स् प्रतिद्वन्द्वस्य अन्तिमस्पर्धायां लब्धस्य पराजयस्य मधुरप्रतीकार आसीत् अयं विजयः। अस्मिन् क्रीडाकाले अस्य सख्यस्य द्वितीयः किरीटप्राप्तिरयम्। सिंहपुरं ओपण् वीरतायामपि सख्येनानेन किरीटं प्राप्तवत्। एष्यन् गयिंस् भवति सख्यस्यास्य आगामिनी वीरतास्पर्धा।
केरलम्।
ओपरेषन् तूफानस्य द्वितीयचरणं घोषितम्।
अभियोजना भवनानि आधारीकृत्य अनुवर्तते।
कोष़िक्कोट्> राज्ये मादकवस्तून्मूलनाय आरब्धा 'ओपरेषन् तूफान्' अभियोजना गृहाण्याधारीकृत्य उद्बोधनेन द्वितीयचरणं प्रविशति। एतस्याः घोषणां कोष़िक्कोट् नगरे गृहमन्त्री रमेश चेन्नित्तला अकरोत्।
आराज्यं तद्देशस्वयंशासनविभागेन सह संभूय एव तूफानस्य प्रवर्तनम्। सर्वासु ग्रामसभासु नगरसभासु च तूफानसमित्यः, प्रतिसभांशं [ward] न्यूनातिन्यूनं दश तूफानभटाः चिताः भविष्यन्ति। एते प्रतिगृहं आरक्षक-एक्सैस् सेनया सह उद्बोधनं करिष्यन्ति।
Sunday, September 6, 2026
४० वर्षीयं छात्रावासभवनं भग्नम्।
त्रीणि मरणानि, नव रक्षिताः, उपत्रिंशत् लग्नाः। 
दुरन्तदृश्यम्।
दिल्ली> दक्षिणपश्चिमदिल्ल्यां सत्यनिकेतनस्य समीपं Hotel Days नामकं छात्रावासभवनं सन्निपत्य त्रयः जनाः मृताः। नव जनाः क्षतैः रक्षिताः। किन्तु त्रयाणामवस्था गुरुतरा वर्तते।
४० वर्षीये पञ्चस्तरात्मके निजीयभवने पुरुषछात्राः सशुल्कातिथिरूपेण [Paying guest] निवसन्तः सन्ति। उपचत्वारिंशत् छात्राः आसन्निति कथ्यते। अद्य अपराह्णे आसीत् दुर्घटना। अनुस्यूतवृष्टिकाले अधःस्तरे स्थाने विधत्ता निर्माणवृत्तिरेव दुर्घटनाहेतुरिति सूच्यते। NDRF, आरक्षकाग्निशमनसेनासंघानां रक्षाप्रवर्तनं रात्रावपि अनुवर्तते।
हिन्दुकुष प्रान्ते हिमानी अतिशीघ्रं द्रवति।
कोच्ची> अस्य शतकस्य आरम्भात् हिन्दुकुष हिमालयपर्वतश्रेण्यां हिमानी आशङ्काजनकरीत्या द्रवति इत्यधिगमः। International Center for Integrated Mountain Development (ICIMD) संस्थया कृते अनुशीलने अस्ति अयमधिगमः। महानदीः आश्रयमाणाः एष्याभूखण्डनिवासिनः बिल्यण् द्वयमिताः जनाः जीवने सन्दिग्धताम् अभिमुखीकुर्वन्तीति आवेदने सूच्यते। कोटिशः जनानां भोज्य-जल-ऊर्ज-जीवजालसुरक्षा इत्यादयः प्रातिकूल्येन बाधेरन्।
अफ्गानिस्थानादारभ्य म्यान्मरपर्यन्तं ३,५०० कि मी व्याप्यमानः, विश्वस्मिन् मुख्यपर्वतश्रेणिषु अन्यतमः भवति हिन्दुकुष हिमालयः। ध्रुवप्रदेशान् विहाय बृहत्तमः हिमसञ्चयः अत्रैव वर्तते।
नेपालसुरङ्के अद्भुतकरं रक्षादौत्यम्।
द्वौ जीवनं प्रत्यागतौ।
काठ्मण्डुः> नेपाले आकस्मिकप्रलयस्य दशदिनेभ्यः परं सुरङ्गे लग्नौ द्वौ रक्षां कृत्वा रक्षादौत्यसंघस्य अद्भुतकृत्यम्। 'त्रिशूली ३ ए' जलविद्युताभियोजनायाः सुरङ्गे लग्नौ द्वौ कर्मकरौ रक्षादौत्यसंघस्य दशदिनानां अक्षीणप्रयत्नस्य अन्ते सजीवौ बहिरागतौ। सञ्जय शाहः, कबीर् महर्जान् इत्येतौ सुरङ्गस्य ६० मीटर् अन्तः लग्नौ आस्ताम्।
सुरङ्गस्य १५० मीटर् अन्तः 'गोल् डिलोक्स्' नामके सुरक्षितस्थाने अधिके कर्मकराः लग्नाः वर्तन्ते, तानपि रक्षितुं शक्ष्यन्ते इति प्रतीक्षायामस्ति रक्षासंघः।
लष्करस्य कमान्डर् पदीयः यासिर् हतः।
श्रीनगरं> निरुद्धभीकरसंघटनस्य लष्कर् ई तोय्बा इत्यस्य कमान्डर् पदीयः यासिर् नामकः क्रूरापराधी सुरक्षासेनया सह प्रतिद्वन्द्वे हतः। जम्मु-काश्मीरे बड्गामजनपदे शुक्रवासरे आसीदयं पाकिस्थानीयः हतः।
जम्मु-काश्मीरे सर्वत्र विधत्तेषु बहुषु भीकराक्रमणेषु यासिरः भागभाक् आसीदिति सुरक्षासेनया निगदितम्। २०२४ तमे वर्षे व्योमसेनाव्यूहं प्रति विधत्तस्य आक्रमणस्य सूत्रधारः अयमासीत्। तथा च तस्मिन् वर्षे एव सोनामार्गे गंगन् गीर् इत्यत्र कञ्चन वैद्यं निर्माणकर्मकरान् चाभिव्याप्य सप्त जनाः भीकराणां भुषुण्डिप्रयोगेण हताः आसन्। तत्रापि अयं भागमकरोत्। यासिरस्य सहप्रवर्तकः मूसा इत्यभिधानाय अन्वेषणम् अनुवर्तते।
Saturday, September 5, 2026
इस्रो दौत्यं पूर्णविजयः।
उपग्रहः भ्रमणपथं प्राप्तः। 
जि एस् एल् वि एफ् -17 उद्गच्छति।
श्रीहरिक्कोट्टा> सप्तमासानां विरामकालानन्तरं ऐ एस् आर् ओ [इस्रो] संस्थया विधत्तं बहिराकाश दौत्यं सम्पूर्णविजयं प्राप्तम्। भारतस्य भौमनिरीक्षणोपग्रहं जि साट् 1A (EOS 05) इत्येनं वहतः जि एस् एल् वि - एफ् 17 इत्यस्य विक्षेपणं शुक्रवासरे प्रत्युषसि सम्पन्नम्। श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशकेन्द्रात् विक्षिप्तस्य उपग्रहस्य सौरोर्जपक्षौ यथायुक्तं विकसितौ। यथासमयं निश्चितभ्रमणपथं प्राप्तः च।
विक्षेपणं यथोद्दिष्टं - सम्प्राप्तमिति इस्रो संस्थायाः अध्यक्षः डो वि नारायणः प्रोक्तवान्। नव वर्षाणि एव अस्योपग्रहस्य आयुः प्रतीक्षते।
भारत-बल्जियं प्रधानमन्त्रिणोः मेलनम्।
व्यापारं द्विगुणीकरिष्यति; राष्ट्ररक्षासहयोगं वर्धापयिष्यति।
बल्जियस्य प्रधानमन्त्रिणा सह मोदिवर्यस्य मेलनम्।
नव दिल्ली> आगामि पञ्चवर्षाभ्यन्तरे उभयपक्षव्यापारं द्विगुणीकर्तुं भारतं बल्जियेन सह सन्धिमकरोत्। भारतस्य प्रधानमन्त्री नरेन्द्र मोदी, बल्जियस्य प्रधानमन्त्री बार्ट् डि विवर् इत्यनेन सह दिल्ल्यां विधत्ते मेलने आसीदयं निर्णयः।
एतदतिरिच्य, राष्ट्ररक्षा, पारम्पर्येतर ऊर्जः, राष्ट्रान्तरापराधानां सूचनानां परस्परोपसंक्रमणं, राष्ट्रनीतितन्त्रपरिशीलनक्षेत्रे परस्परसहयोगः इत्यादीनां सन्धिपत्राणि च हस्ताक्षरीकृतानि।
Friday, September 4, 2026
एफ् सि आर् ए विधेयकं
३१ सदस्योपेतं जे पि सि रूपीकृतम्।
नवदिल्ली> तर्कवितर्कैः श्रद्धेयं विदेशधनार्जनविनियोगविधेयकं (परिष्करणं)[Foreign Contribution Regulations (Amendment) bill केन्द्रसर्वकारेण संसदः संयुक्तसदस्यसमित्यै समर्पितम्। ३१ सदस्योपेतायाः समित्याः अध्यक्षः बिहारे सेटिया मण्डलात् चितः भाजपासदस्यः डो सञ्जय जय्स्वालः अस्ति। लोकसभायाः २१, राज्यसभायाः १० सदस्याः समित्याम् अन्तर्भवन्ति।
विधेयके निर्दिष्टाः व्यवस्थाः अधिकृत्य समग्रम् अनुशीलनं, परिवर्तनानि उद्दिश्यन्ते चेत् निर्देशः इत्यादीनि एव समित्याः उत्तरदायित्वम्।
बहिराकाशनिलयं केरलात् अद्य द्रष्टुं शक्यते।
कोच्ची> आकाशदृश्येषु उत्सुकानां केरलीयानां अन्ताराष्ट्र बहिराकाशनिलयं नग्ननेत्रैः द्रष्टुम् अवसरः। शुक्रवासरे सायं ७. ४० वादनतः ७. ५५ पर्यन्तं निलयं द्रष्टुं शक्यते।
प्रज्वलन् , शीघ्रतया सञ्चरन्, दक्षिण-पश्चिमाकाशात् उत्तर-पूर्वीयदिशं प्रति चलन्तं प्रकाशबिन्दुमेव निलयमिति अभिज्ञायतामिति निर्देशः। अर्धकेरलीयः नासाशास्त्रज्ञः अनिल मेनोनः निलये अस्तीति विशेषः। इतरे षट् जनाश्च तस्मिन् विद्यन्ते।
भूमेः ४०० कि मीटर् औन्नत्ये प्रतिहोरायां २८,००० कि मीटर् इत्येवं जवेन भवति निलयस्य सञ्चारः। प्रतिदिनं प्रायेण १६ वारं भूमिं परिक्रमति।
स्वामी गोलोकानन्द महाराजः समाधिं प्राप।
अनन्तपुरी> श्रीरामकृष्ण मिषन् संस्थायां वरिष्ठः सन्न्यासी स्वामी गोलोकानन्द महाराजः (९४) नित्यसमाधिं प्राप। नगरस्थे श्रीरामकृष्णाश्रमे विश्रान्तिजीवनं नीयमानः सः वार्धक्यसहजेन रोगेण परिचर्यायाम् आसीत्। बुधवासरे सायं सार्धपञ्चवादने आसीत् देहवियोगः। रात्रावेव मठाधिपतेः स्वामि मोक्षव्रतानन्द महाराजस्य नेतृत्वे नेट्टयं श्रीरामकृष्णाश्रमे अन्त्येष्टि कर्माणि विधत्तानि।
श्रीरामकृष्ण परमहंसस्य विवेकानन्दस्वामिनश्च श्रेष्ठम् आत्मीय-मानवसेवापारम्पर्यं जीवनव्रतत्वेन अनुष्ठितवान् सन्न्यासिवर्यः आसीत् गोलोकानन्द महाराजः। पत्तनंतिट्टा जिल्लायाम् आरन्मुला प्रदेशे १९३३ मार्च् २५ तमे दिनाङ्के लब्धजन्मनः तस्य पूर्वाश्रमनाम नारायणन् कुट्टी इत्यासीत्। कालटी श्रीरामकृष्णाद्वैताश्रमस्य अधिपतिना आगमानन्दस्वामिना सह संगमः तम् आत्मीयवीथिमनयत्।
Thursday, September 3, 2026
नेपाल प्रलयः
मत्युसंख्या ११०० अतीता।
उपपञ्चसहस्रं जनाः अदश्यमानाः।
काठ्मण्डुः> आकस्मिकप्रलये नेपालदेशे मृतानां संख्या इतःपर्यन्तगणनानुसारं ११२७ अभवत्। ४८५८ जनाः अदश्यमानाः वर्तन्ते। दुरन्तस्य अष्टमदिने अपि रक्षाप्रवर्तनानि ऊर्जस्वलतया अनुवर्तन्ते।
नेपालस्थासु भग्नासु जलविद्युदभियोजनासु लग्नान् जनान् अधिगन्तुं रक्षाप्रवर्तने सविशेषप्राधान्यं कल्प्यते। भारत-चीन-दक्षिण कोरिया देशेभ्यः प्राप्ताः प्रौद्योगिककुशलाः अपि मार्गणे नेपालरक्षासेनया सह भागं कुर्वन्ति।
अयोध्या राममन्दिरं
पूर्वीयः एयर्मार्षल् पदीयः जितेन्द्र मिश्रः मुख्यनिर्वाहकाधिकारी।
जितेन्द्र मिश्रः।
नवदिल्ली> अयोध्या राममन्दिरस्य प्रथमः मुख्यनिर्वाहकाधिकारि रूपेण [Chief Executive Officer] एयर्मार्षल् पदात् निवृत्तः जितेन्द्र मिश्रः चितः। 'ओपरेषन् सिन्दूर'स्य काले व्योमसेनायां 'वेस्टेण् कमान्डर्' अधिकारी आसीत्।
राममन्दिरे जातस्य समर्पितधनचोरणस्य आधारे एव मन्दिरस्य दैनंदिनशासननिर्वहणाय नेतृत्वं कर्तुं सि ई ओ पदीयं नियोक्तुं निर्णीतम्। वर्षत्रयमस्ति नियुक्तिकालपरिधिः। श्रीराम जन्मभूमि तीर्थमन्दिनन्यासे जातानि त्रीणि रिक्तस्थानानि प्रति न्याससदस्याश्च नियुक्ताः।
महाराष्ट्रे एस् ऐ आर्
२. ६८ कोटि मतदानिनः निष्कासिताः।
मुम्बई> महाराष्ट्रे समग्र मतदानावलीपरिष्करणस्य [SIR] अनन्तरं निर्वाचनायोगेन प्रकाशितायां संक्षिप्तावल्यां २.६८ कोटि संख्याकाः मतदानिनः निरस्ताः।मुम्बई नगरे १.३९ कोटि मतदानिषु ३६.१ लक्षं (३४.७५%), ताने मध्ये ७४.५ लक्षं मतदानिषु २८ लक्षं (३८.३७%) च निष्कासिताः।
अन्तिमावलिः नवम्बर् चतुर्थदिनाङ्के प्रकाशयिष्यते। मतदानार्हैः प्रमाणैः सह सेप्टम्बर् ३०तमात् पूर्वं निवेदनानि समर्पणीयानि।
अफ्गानिस्थानं विरुध्य टि - २० परम्परा।
भारतगणः उद्घोषितः।
मुम्बई> सेप्टम्बर् १३ तमे दिनाङ्के आरभ्यमाणायै अफ्गानिस्थानं विरुध्य टि - २० क्रिकट् परम्परायै भारतस्य गणः उद्घोषितः। श्रेयस् अय्यरः भवति गणनायकः। केरलीयः सञ्जू सांसणः गणे अन्तर्भूतः। एष एव गणः जापाने प्रचाल्यमाने एष्यन् गयिंस् मध्ये च क्रीडिष्यति।
Wednesday, September 2, 2026
यू एस् - वेनस्वेला तैलव्यापारसन्धिः उद्घोषितः।
वाषिङ्टणः> भौगोलिक तैलविपण्याम् आधिपत्यं स्थापयितुं यू एसेन वेनस्वेलया सह तैलव्यापारसन्धिः हस्ताक्षरीकृतः। बृहत्तमः तैलव्यापारसन्धिः इति डोनाल्ड ट्रम्पेन प्रोक्तम्।
वेनस्वेलीयतैलसञ्चयस्य पञ्चांशेषु एकः [१/५] अमेरिकायै लप्स्यते इति सूच्यते। किन्तु औद्योगिक रीत्या हस्ताक्षरीकृतसन्धिः इतःपर्यन्तं न प्रकाशितः।
वेनस्वेलस्य तैलसम्पदं निगृहीतुं प्रतिबन्धं कृतवान् राष्ट्रपतिः निकोलास् मडुरो इत्येनं मासेभ्यः पूर्वं ट्रम्पः कारागृहे बन्धितवानासीत्।
भीकरतां विभवरूपेण न चिन्तयतु इति नरेन्द्र मोदी।
षाङ्हाय् शिखरसम्मेलने भीकरतां विरुध्य भारतस्य कर्कशमतम्।
षाङ्हाय् शिखरमेलने मोदिवर्यः।
बिष्केक्> भीकरप्रवर्तनं यस्य कस्यापि राष्ट्रस्य तन्त्रपरविभवरूपेण न भवतु इति भारतस्य प्रधानमन्त्री नरेन्द्र मोदी 'षाङ्हाय् सहयोग शिखरसम्मेलने' दृढस्वरेण सूचितवान्। पाकिस्थानस्य प्रधानमन्त्रिणः षहबास शरीफस्य समक्षे आसीत् मोदिवर्यस्य भीकरतां विरुध्य शक्तं प्रतिकरणम्।
प्रधानमन्त्रिणा सूचितं यत् यानि राष्ट्राणि तीव्रवादं राष्ट्रनीतेः उपकरणमिति विचिन्त्य भीकरेभ्यः अभयं साहाय्यं च कुर्वन्ति तेभ्यः राष्ट्रेभ्यः कर्कशः सन्देशः दातव्यः। एतस्मिन् विषये एस् सी ओ अङ्गराष्ट्रैः ऐकमत्येन स्थास्यतामिति च सः स्पष्टीकृतवान्।
पुनरपि इरान-यूएस् संग्रामः।
टेहरानं> एकमासस्य विरामानन्तरं पुनरपि यू एस् - इरानयोः परस्परयुद्धम्। रविवासरे दक्षिण इराने लारक् द्वीपस्थं 'रोकट्'विक्षेपणस्थानं प्रति अमेरिकायाः आक्रमणमभवत्। होर्मुस् समुद्रसङ्कोचे इरानस्य समुद्रस्फोटकनिक्षेपम् आरोप्य आसीदाक्रमणम्। आक्रमणे द्वौ हताविति इरानेन निगदितम्।
प्रतिक्रियारूपेण इरानेन यू ए ई, जोर्दानराष्ट्रस्थानि सैनिककेन्द्राणि आक्रान्तानि।
Tuesday, September 1, 2026
मणिप्पुरे जनसंख्यागणनाप्रक्रमाः स्थगायिताः।
नवदिल्ली> मणिप्पुरराज्ये जनसंख्यागणनाप्रक्रमान् पुनर्निर्धारयितुं केन्द्रप्रशासनेन निश्चितम्। राष्ट्रिय नागरिक पञ्जीकरणात् [NRC] पूर्वं जनसंख्यागणनं न करणीयमिति अपेक्षितस्य प्रतिषेधस्य परिणाम एवायं निर्णयः।
गतदिने गृहमन्त्रिणः अमित शाहस्य नेतृत्वे समाकारिते उच्चस्तरमेलने अस्ति अयं निर्णयः। जनानाम् अर्थनाम् अभिलाषान् च परिगण्य एव जनसंख्याप्रक्रमः स्थगयितः इति इम्फाले केन्द्रादेशं प्रकाशयता मुख्यमन्त्रिणः कार्यालयेन निगदितम्।
उत्तरभारते तीव्रवृष्टिः।
उत्तराखण्डे त्रयः मृताः।
नव दिल्ली> उत्तरभारते सामान्यतया बहुषु राज्येषु तीव्रा वृष्टिः अनुवर्तते। जम्मु-काश्मीरम्, उत्तराखण्डः, असमः, मध्यप्रदेशः, पश्चिमवंगः, ओडीषा इत्यादिषु राज्येषु कठिनवृष्टिरस्ति। वंगसमुद्रान्तराले जातः न्यूनमर्द एव वृष्टिहेतुः।
उत्तराखण्डे कार् यानं जलप्रवाहे निपत्य त्रयः कार् यानयात्रिकाः मृताः। नद्यः आप्लुतोदकाः वर्तन्ते। डराडूणे विद्यालयानां विरामः उद्घोषितः।








