मणिप्पुरे पुनरपि संघर्षाग्निः। मणिप्पुरसंघर्षे वाहनानि अग्निसात्कुर्वन्ति।
# अदृष्टानां मृतशरीराणि दृष्टानि।
# मन्त्रिभवनानि आक्रमितानि।
# इम्फाल् अधित्यकायां निरोधनाज्ञा।
इम्फाल्> मणिप्पुरे पुनरपि संघर्षाग्निः व्याप्यते। आपद्समाश्वासशिबिरात् सायुधसंघेन अपहृतानां षण्णां मृतशरीरेषु अधिगतेषु एव व्यापकतया अक्रमाः संवृत्ताः।
अक्रमकारिणः इम्फाले द्वे मन्त्रिभवने त्रीणि सदस्यभवनानि च अक्रमविधेयानि अभवन्। उपकरणानि विनाशितानि दग्धानि च। पूर्वीयजनपदेषु अनिश्चितकालीया निरोधनाज्ञा प्रख्यापिता। सप्तजनपदेषु अन्तर्जालसुविधा छेदिता।
तत्रान्तरे मणिप्पुरे गृहशान्तिं पुनःस्थापयितुं सुरक्षासेनायै केन्द्रगृहमन्त्रालयेन निर्देशः दत्तः।