OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 3, 2024

 दिवंगताय क्रैस्तवमहापुरोहिताय अयुतानाम् अन्त्याञ्जलिः। 


कोच्ची> याकोबाय क्रैस्तवसभायाः प्रान्तीयाचार्यवरिष्ठः, श्रेष्ठ कातोलिकापदीयः च आबून् मार् बसेलियोस् तोमस् प्रथमः बावावर्याय दशसहस्रैः विश्वासिभिः प्रमुखैश्च  अन्त्याञ्जलिः समर्पिता। क्रैस्तवधर्मप्रचारकेषु  श्रेष्ठाजपालस्य तस्य भौतिकशरीरम् अन्त्यशुश्रूषानन्तरं पुत्तन् कुरिश् नामके स्थाने वर्तमाने पात्रियर्का सेन्टर् मोर् अत्तनेष्यस् कतीड्रल् इत्यस्य अङ्कणे सविशेषरीत्या सज्जीकृते स्थाने संस्कृतम्। गतगुरुवासरे सायं कोच्च्याम् आतुरालये आसीत् ९६ वयस्कस्य तोमस् प्रथमः बावावर्यस्य समाधिः। 

  अन्त्यशुश्रूषाकार्यक्रमाणां मलङ्करा मेत्रपोलीत्तापदीयः जोसफ् मार् ग्रिगोरियोस् मुख्यकार्मिकत्वमावहत्। पात्रियर्कीस् बावावर्यस्य प्रतिनिधिरूपेण प्राप्तौ अमेरिकन् आर्च् बिषप् मार् दिवान्नियोस् जोण् , इङ्लाण्टस्य आर्च् बिषप् मार् अतानासियोस् तोम डेविड् इत्येतौ अन्ये सह मेत्रापोलीता पुरोहिताश्च सहकार्मिकाः अभवन्।