OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 18, 2024

 द्विदिवसीयसंस्कृतछात्रप्रतियोगिता: सम्पन्ना: 

वार्ताहरः - कुलदीप मैन्दोला -

  उत्तराखण्डसंस्कृत-अकादमी सम्पूर्णे राज्ये द्विदिवसीयसंस्कृतछात्रप्रतियोगितानाम् आयोजनं कृतवती।

   प्रतियोगितायाः उद्घाटनसन्दर्भे भाषमाणया श्रीमतीरञ्जनारावतवर्यया उक्तं यत् एतादृश्याः स्पर्धाः  संस्कृतस्य प्रचारार्थं अस्माकं सहायतां करिष्यन्ति छात्राः एतादृशैः कार्यक्रमैः एव संस्कृतभाषणस्य अभ्यासं कर्तुं शक्नुवन्ति यतोहि एतत् अस्माकं भारतीयसभ्यतायाः संस्कृते: च मूलं विद्यते। प्रतियोगितामाध्यमेन संस्कृतं , तेन वसुधैवकुटुम्बकं प्रति प्रेरणा- "विधायक: महन्त् दिलीपरावत् "सरस्वतीशिशुविद्यामन्दिरजानकीनगरे द्वितीयदिने च वरिष्ठवर्गप्रतियोगिता: आयोजिता: अभवन्। 

  उद्घाटनकार्यक्रमे लैंसडौनविधायक: महन्त् दिलीपरावत्  प्रतिभागं कृतवान् । मुख्यातिथिरूपेण

सः अवदत् यत् देवभूमि- उत्तराखण्डे संस्कृतस्य परम्परा अतीव प्राचीना अस्ति तथा च अद्यत्वे अपि एषा संस्कृतिं प्रति गच्छति, एताभि: स्पर्धाभिः माध्यमेन संस्कार: भवति। सः अवदत् यत् संस्कृतम् एतादृशी भाषा अस्ति या वसुधैव कुटुम्बकं प्रति प्रेरयति तथा च जगतः सत्यस्य साक्षात्कारं कारयति।

  पार्षद् नीरुबालाखन्तवाल:, ओमप्रकाशगौड़:,  पार्षद् ज्योतिसिंह:, प्रधानाचार्य: श्री लखपतराजखुगशाल:, प्रधानाचार्य: मनोजकुमारकुकरेती, प्रदीपनौटियाल:, यशवेदी, नमनभटनागर:, गजेन्द्रभाटिया एवं वरिष्ठनागरिकमंचस्य उपाध्यक्ष: श्री महेन्द्र-अग्रवाल:, रोशनगौड: डा. रमाकांत कुकरेती सर्वे सर्वेभ्यः स्थानं प्राप्तुं प्रोत्साहितवन्तः, पुरस्कारं च वितरितवन्तः।