OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 15, 2024

 वार्तामुक्तकानि। 

केरलराज्यस्तरीय‌ः शास्त्रोत्सवाय अद्य शुभारम्भः।

आलप्पुष़ा>  केरलस्य  कौमारशास्त्रकुतुकिनां परीक्षणनिरीक्षणाय अद्य आरभ्य आलप्पुष़ाजनपदं वेदिका भविष्यति। केरलविद्यालय शास्त्रोत्सवः 'वोकेषणल् एक्सोपो' नामकप्रदर्शनं च अद्य सायं  मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाट्यते। 

शबरिगिरिमन्दिरम् अद्य उद्घाट्यते। 

पत्तनंतिट्टा>  मण्डलकालतीर्थाटनाय शबरिगिरि धर्मशास्तामन्दिरं शुक्रवासरे सायम् उद्घाट्यते।   शनिवासरे प्रत्युषसि त्रिवादने   मन्दिरस्य मुख्यार्चकेन गर्भगृहस्य कवाटे उद्घाटिते मण्डलकालतीर्थाटनस्य शुभारम्भो भविष्यति। 

कल्पात्ति देवरथसङ्गमम् अद्य। 

पालक्काट्>  अद्य तुलामासपौर्णमिसन्ध्यायां केरले पालक्काट् कल्पात्तिस्थेषु अग्रहारवीथिषु रथोत्सवस्य अंशतया देवरथसङ्गमं सम्पत्स्यते। तमिलनाटस्थे मायावरस्थाने मयूरनाथस्य रथोत्सवस्य स्मरणायामेव कल्पात्त्यामपि देवताः रथारोहणं कृत्वा अग्रहारवीथीम् आनयति। रथोत्सवस्य तृतीयदिने अद्य षण्णां रथानां सङ्गमं सम्पद्यते। 

पिनाक आयुधसंविधानस्य परीक्षणं विजयप्रदम्। 

नवदिल्ली> भारतस्य अनेकलक्ष्यवेधी अग्निबाणविभागे अन्तर्भूतं पिनाकनामकस्य आयुधस्य परीक्षणडयनं विजयकरमभवत्। राष्ट्रस्य प्रतिरोधगवेषणविकसनस्स्था  डि आर् डि ओ इत्यनेन साक्षात्कृतमायुधं भवति पिनाकः।