OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 11, 2024

 वार्तामुक्तकानि। 

जम्मु काश्मीरे सैनिकस्य वीरमृत्युः। 

जम्मु>  जम्मु काश्मीरस्य किष्त्वारजनपदे वनप्रदेशे भीकरैः सह प्रतिद्वन्द्वे नाय्ब् सुबेदार् राकेश् कुमारनामकः सैनिकः वीरमृत्युं प्राप। अन्ये त्रयः  व्रणिताश्च। 

 केरले वृष्टिः शक्ता भविष्यति। 

अनन्तपुरी> वंगसमुद्रान्तराले रूपीकृतः  चक्रवातः न्यूनमर्दः भविष्यति इत्यस्मात् केरले नवम्बर् १३, १४ दिनाङ्कयोः  शक्ता वृष्टिः भविष्यतीति पर्यावरणविभागेन निगदितम्। अतः षट् जनपदेषु पीतजागरूकता निर्दिष्टा। 

ट्रम्पस्य मतदानप्राप्तिः ३१२ अभवत्। 

वाषिङ्टणः> यू एस् राष्ट्रपतिनिर्वाचने अरिसोणा राज्यस्य अन्तिमे फले प्राप्ते नियुक्तराष्ट्रपतिः डोनाल्ड ट्रम्पः ३१२ प्रतिनिधीनाम् अभिमतं प्राप्तवान्। प्रतियोगिनी कमला हारिसः २२६ अभिमतानि प्राप्तवती। आहत्य वर्तमानेषु ५३८ 'इलक्टरल्'मतेषु २७० एव राष्ट्रपतिपदाय आवश्यकानि न्यूनातिन्यूनं मतानि।

टी-२० द्वितीयस्पर्धा - भारतस्य पराजयः। 

डर्बन्> दक्षिणाफ्रिकां विरुद्ध्य टि - २० क्रिकटस्पर्धापरम्परायाः द्वितीये प्रतिद्वन्द्वे भारतस्य पराजयः। प्रथमचरणे कन्दुकताडनं कृतवता भारतदलेन २० क्षेपणचक्रेषु  षट् क्रीडकानां विनष्टे १२४ धावनाङ्काः सम्पादिताः। प्रत्युत्तरक्रीडया दक्षिणाफ्रिका २० क्षेपणचक्रेषु सप्त क्रीडकानां विनष्टे १२८ धावनाङ्कान् सम्पाद्य विजयं प्राप।