राष्ट्रिय भीकरविरुद्धनयः शीघ्रमिति गृहमन्त्री।
नवदिल्ली> भीकरतां भीकराणाम् आवासव्यवस्थां च प्रतिरोद्धुं राष्ट्रिय भीकरविरुद्धनयः शीघ्रमेव प्रतिष्ठास्यतीति केन्द्रगृहमन्त्री अमित शाहः अवोचत्। दिल्ल्यां राज्यस्तरीयारक्षकाधिकारिणः समेत्य भागं गृहीते भीकरविरूद्धसम्मेलने भाषमाणः आसीत् अमित शाहः।
नीतिन्यायनिर्वहणं तत्तद्राज्यानां विषयोSपि आतङ्कवादस्य सीमा नास्तीति उक्तवान् गृहमन्त्री २०१४ तः आरभ्य भीकरतां विरुद्ध्य मोदिप्रशासनस्य लाभानि प्रकीर्तितवान्।