OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 14, 2024

 वार्तामुक्तकानि।

सामन्ता हार्वी बुक्कर् पुरस्कारजेत्री। 

लण्टनं> २०२४ तमवर्षस्य बुक्कर् पुरस्काराय ब्रिटीशसाहित्यकारी सामन्ता हार्वी चिता। षट् बहिराकाशयात्रिकाणां अन्ताराष्ट्र बहिराकाशनिलये एकदिनाख्यानं कृता 'ओर्बिटल्' नामिका आख्यायिका एव पुरस्कारार्हा अभवत्। 

श्रीलङ्कायामद्य संसद् निर्वाचनम्। 

कोलम्बो>  आर्थिकसङ्कटात् रक्षां प्राप्तुं क्लेशमनुभूयमानायाम् श्रीलङ्कायाम् अद्य संसद् निर्वाचनं प्रचलति। २२५ अङ्गयुक्तां संसदं प्रति आनुपातिकप्रातिनिध्यप्रकारेणैव अङ्गानां चयनम्। ११३ स्थानानीति न्यानातिन्यूनभूयिष्ठसंख्यां लब्धुं तीव्रपरिश्रमे लग्नः अस्ति राष्ट्रपतिः अनुर कुमार दिशनायकः तस्य दलं च। 

उत्तरभारते शैत्यस्य आगमनं विज्ञातं; दिल्ल्यां वायुः आपच्छङ्कायामेव।

नवदिल्ली> विलम्बेनापि उत्तरभारते शीतकालस्य आरम्भः जातः। बुधवासरस्य उषःकालः दिल्ल्यां शीतयुक्त आसीत्। विमाननिलये दृश्यविघातः हिमावरणः अनुभूतः। दिल्ल्यां पञ्चाबे च विमानसेवायां प्रतिबन्धो जातः। रविवासरतः शीतः वर्धते इति पर्यावरणविभागस्य सूचना अस्ति। 

   प्रत्युत, दिल्ल्यां वायोः शुद्धता भीतावस्थायामनुवर्तते। छात्राणां स्वास्थ्यमालक्ष्य पञ्चमीकक्ष्यापर्यन्तं विरामः प्रख्यापितव्य इति भाजपा दलेन निर्दिष्टम्।