OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 16, 2024

 तमिलनाटस्थेषु विद्यालयेषु १०,००० कपटाध्यापकाः! 

यथार्थाध्यापकाः उपगूहनं कुर्वन्ति। 

चेन्नै> तमिलनाटस्थेषु सर्वकारविद्यालयेषु   सार्वत्रिकतया कपटशिक्षकाः वृत्तिं कुर्वन्तीति अधिगतम्। उपदशसहस्रम् अध्यापकाः प्रतिपुरुषान् नियुज्य कक्ष्याः चालयन्तीति शिक्षाविभागस्य प्राथमिकान्वेषणेन अधिगतम्। यदृच्छया विद्यालयमागच्छन्तः स्थिराध्यापकाः धनं दत्वा प्रतिपुरुषैः कक्ष्याः चालयन्ति। ग्रामान्तर्भागेषु विद्यमानेषु विद्यालयेषु एव एतादृशव्याजकर्म प्रचलति। 

  धर्मपुरि जनपदस्य हारूर् स्थाने गतसप्ताहे 'पञ्चायत् यूणियन्' विद्यालये बालाजी नामकशिक्षस्य अनुपस्थितिमधिकृत्य निवेदने जाते सः प्रतिनिधिमुपयुज्य कक्ष्यां चालयतीति प्रत्यभिज्ञातमासीत्। अस्मिन् प्रकरणे बालाजी तथा वृत्तान्तगोपने प्रथमाध्यापकोSपि वृत्तिनिरुद्धौ अभवताम्। तदनन्तरं शैक्षिकविभागेन कृते अन्वेषणे एतादृशघटनाः सार्वत्रिकतया प्रचलन्तीति प्रत्यभिज्ञातम्।