OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 2, 2024

 वार्तामुक्तकानि। 

एन् एस् माधवाय एषुत्तच्छन् पुरस्कारः।

कोट्टयं>  केरलसर्वकारेण दीयमानाय परमोन्नताय एषुत्तच्छन् पुरस्काराय प्रमुखः कथाकारः एन् एस् माधवः अर्होSभवत्। कथासाहित्याय दत्तं समग्रयोगदानं पुरस्कृत्य एव पुरस्कारः इति पुरस्कारनिर्णयसमित्या निगदितम्। 'कायातरण' नामकं हिन्दी चलच्चित्रं अनेन रचितया कथया उपजीव्य निर्मितमस्ति। 

एस् एस् एल् सि परीक्षासमयक्रमः विहितः।

अनन्तपुरी> केरले एस् एस् एल् सि, +१, +२ सामान्य परीक्षाणां समयक्रमः प्रसिद्धीकृतः। एस् एस् एल् सि परीक्षाः मार्च् तृतीयदिनाङ्कतः २६ तमपर्यन्तं भविष्यन्ति। +१ परीक्षाः मार्च् ६ तः २९ पर्यन्तं, +२ परीक्षाः मार्च् ३तः २६ पर्यन्तं च भविष्यन्ति।

दिल्ल्यां वायुः अत्यशुद्धायामवस्थायाम्। 

नवदिल्ली> राष्ट्रराजधान्यां वायुमलिनीकरणस्य स्तरः अत्युच्चावस्थां प्राप्तः। दीपावली उत्सवस्य अनन्तरं श्वसनवायुः अत्यन्तमशुद्धः जातः। ह्यः प्रभाते सूचिकायां  ३६२ अङ्कितम्।