OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 4, 2024

 केरलस्य कौमारकायिकोत्सवस्य अद्य शुभारम्भः। 

उद्घाटनकार्यक्रमाय छात्राः परिशीलने। 

२०,००० अधिके कायिकताराः। महाराजास् कलालयक्रीडाङ्कणं मुख्यवेदी; इतरे सप्तदश वेदिकाः। वासभोजनव्यवस्थाः सज्जाः। 

कोच्ची> ओलिम्पिक्स् इति नाम प्रयोक्तुं साङ्केतिकतया न शक्यते चेदपि तस्य महोत्सवस्य सर्वप्रौढ्या एव केरलराज्यस्तरीयः विद्यालयकायिकोत्सवः अद्य प्रारम्भं कुरुते। एरणाकुलं नगरस्थे महाराजास् कलालयक्रीडाङ्कणे सायं चतुर्वादने केरलस्य शिक्षामन्त्री वि शिवन्कुट्टिः कायिकोत्सवस्य उद्घाटनं करिष्यति। ओलिम्पिक्समहामहं अनुस्मार्यमाण इव वर्णाभः कार्यक्रमः सज्जः अस्ति। 

  महाराजास् क्रीडाङ्कणे विधास्यमाने सञ्चलने [March Past] ३५०० छात्राः , तदनुवर्तमानेषु सांस्कृतिककार्यक्रमेषु एरणाकुलं जनपदस्थेषु त्रिंशदधिकं विद्यालयेषु ४००० छात्राश्च भागं करिष्यन्ति। पद्मश्री भरत् मम्मूट्टिः सांस्कृतिककार्यक्रमाणाम् उद्घाटनं निर्वक्ष्यति। 

  महाराजास् कलालयक्रीडाङ्कणं विना जनपदस्थानि सप्तदश स्थानानि च कायिकस्पर्धानां वेदिकाः भविष्यन्ति। एताः सर्वाः वेदिकाः चतुर्षु गणेषु [Cluster] अन्तर्भाव्य एव स्पर्धानाम् एकोपनं क्रियमाणः अस्ति।