OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 12, 2024

 सञ्जीव खन्नः मुख्यन्यायाधिपरूपेण शपथं कृतवान्। 

सञ्जीव खन्नः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः पुरतः शपथं करोति।

नवदिल्ली> भारतस्य ५१ तम मुख्यन्यायाधिपरूपेण सञ्जीव खन्नः ह्यः शपथमकरोत्। राष्ट्रपतिभवने सम्पन्ने समारोहे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्।२०२५ मेय् १३ दिनाङ्कपर्यन्तं तस्य कालपरिधिरस्ति।

  १९६० मेय् १४ तमे दिनाङ्के लब्धजन्मा सञ्जीव खन्नः दिल्ली विश्वविद्यालयात् नियमविषये बिरुदं सम्प्राप्य नीतिज्ञरूपेण कर्म कृतवान्। २००५ मध्ये दिल्ली उच्चन्यायालये उपन्यायायाधीशः अभवत्। अनन्तरसंवत्सरे स्थिररूपेण न्यायाधिपोSभवत्।२०१९जनुवरिमासे सर्वोच्चन्यायालये न्यायाधिपोSभवत्।