OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 4, 2024

 श्रीनगरे भीकराक्रमणं - १२ व्रणिताः। 

श्रीनगरं> जम्मु काश्मीरस्य श्रीनगरे जनसम्मर्दयुक्तं विपणिं लक्ष्यीकृत्य कृते ग्रनेड् विक्षेपणे १२ जनाः आहताः। सर्वे विविधातुरालयान् प्रवेशिताः। 

 रविवासरे आकाशवाणी, दूरदर्शनम् इत्येतयोः समीपं कार्यनिर्वहणं क्रियमाणान् सि आर् पि एफ् भटान् प्रति विक्षिप्तं ग्रनेडायुधं स्रंसितलक्ष्यं भूत्वा वीथ्यापणिकानां मध्ये पतितमासीत्। आक्रमणं मुख्यमन्त्रिणा ओमर् अब्दुल्लेन अपलपितम्। 

   अन्वेषणे हिस्बुल् मुजाहिदसम्बन्धी एकः पुल्वामायां सुरक्षासेनया  निगृहीतः। अस्मात् आयुधान्यपि निगृहीतानि।