OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 3, 2024

 केरलस्य विद्यालयीयकायिकोत्सवः श्वः आरभ्यते। 

ओलिम्पिक्स् आदर्शानुसारं प्रचाल्यमाना मेला। 

केरलराज्यस्तरीय विद्यालयीयकायिकोत्सवस्य भाग्यचिह्नमं - तक्कुटुः। 

   कोच्ची> केरलराज्यस्य अस्य वर्षस्य विद्यालयीयकायिकस्पर्धाः ओलिम्पिक्स् आदर्शरूपेण कोच्चीनगरे श्वः आरप्स्यते। महाराजास् कलालयस्य क्रीडाङ्कणं मुख्यवेदिका भविष्यति। 

  कायिकोत्सवे वीरतां प्राप्यमानाय जनपदाय दीयमानः 'एवर् रोलिङ् चषकः', कासरगोडतः आरब्धा दीपशिखा इत्येतयोः प्रयाणम् आरब्धम्। तक्कुटुः इति कृतनामधेयः चिक्रोड एव अस्य कायिकोत्सवस्य भाग्यचिह्नम्।